Mahabharata

Udyoga Parva, Adhyaya 119

Containing 28 sacred Sanskrit shlokas with multi-author commentaries and translations.

Mahabharata

Udyoga Parva, Adhyaya 119, Verse 1

अथ प्रचलितः स्थानादासनाच्च परिच्युतः

कम्पितेनैव मनसा धर्षितः शोकवह्निना

Mahabharata

Udyoga Parva, Adhyaya 119, Verse 2

म्लानस्रग्भ्रष्टविज्ञानः प्रभ्रष्टमुकुटाङ्गदः

विघूर्णन्स्रस्तसर्वाङ्गः प्रभ्रष्टाभरणाम्बरः

Mahabharata

Udyoga Parva, Adhyaya 119, Verse 3

अदृश्यमानस्तान्पश्यन्नपश्यंश्च पुनः पुनः

शून्यः शून्येन मनसा प्रपतिष्यन्महीतलम्

Mahabharata

Udyoga Parva, Adhyaya 119, Verse 4

किं मया मनसा ध्यातमशुभं धर्मदूषणम्

येनाहं चलितः स्थानादिति राजा व्यचिन्तयत्

Mahabharata

Udyoga Parva, Adhyaya 119, Verse 5

ते तु तत्रैव राजानः सिद्धाश्चाप्सरसस्तथा

अपश्यन्त निरालम्बं ययातिं तं परिच्युतम्

Mahabharata

Udyoga Parva, Adhyaya 119, Verse 6

अथैत्य पुरुषः कश्चित्क्षीणपुण्यनिपातकः

ययातिमब्रवीद्राजन्देवराजस्य शासनात्

Mahabharata

Udyoga Parva, Adhyaya 119, Verse 7

अतीव मदमत्तस्त्वं न कंचिन्नावमन्यसे

मानेन भ्रष्टः स्वर्गस्ते नार्हस्त्वं पार्थिवात्मज

न च प्रज्ञायसे गच्छ पतस्वेति तमब्रवीत्

Mahabharata

Udyoga Parva, Adhyaya 119, Verse 8

पतेयं सत्स्विति वचस्त्रिरुक्त्वा नहुषात्मजः

पतिष्यंश्चिन्तयामास गतिं गतिमतां वरः

Mahabharata

Udyoga Parva, Adhyaya 119, Verse 9

एतस्मिन्नेव काले तु नैमिषे पार्थिवर्षभान्

चतुरोऽपश्यत नृपस्तेषां मध्ये पपात सः

Mahabharata

Udyoga Parva, Adhyaya 119, Verse 10

प्रतर्दनो वसुमनाः शिबिरौशीनरोऽष्टकः

वाजपेयेन यज्ञेन तर्पयन्ति सुरेश्वरम्

Mahabharata

Udyoga Parva, Adhyaya 119, Verse 11

तेषामध्वरजं धूमं स्वर्गद्वारमुपस्थितम्

ययातिरुपजिघ्रन्वै निपपात महीं प्रति

Mahabharata

Udyoga Parva, Adhyaya 119, Verse 12

भूमौ स्वर्गे च संबद्धां नदीं धूममयीं नृपः

स गङ्गामिव गच्छन्तीमालम्ब्य जगतीपतिः

Mahabharata

Udyoga Parva, Adhyaya 119, Verse 13

श्रीमत्स्ववभृथाग्र्येषु चतुर्षु प्रतिबन्धुषु

मध्ये निपतितो राजा लोकपालोपमेषु च

Mahabharata

Udyoga Parva, Adhyaya 119, Verse 14

चतुर्षु हुतकल्पेषु राजसिंहमहाग्निषु

पपात मध्ये राजर्षिर्ययातिः पुण्यसंक्षये

Mahabharata

Udyoga Parva, Adhyaya 119, Verse 15

तमाहुः पार्थिवाः सर्वे प्रतिमानमिव श्रियः

को भवान्कस्य वा बन्धुर्देशस्य नगरस्य वा

Mahabharata

Udyoga Parva, Adhyaya 119, Verse 16

यक्षो वाप्यथ वा देवो गन्धर्वो राक्षसोऽपि वा

न हि मानुषरूपोऽसि को वार्थः काङ्क्षितस्त्वया

Mahabharata

Udyoga Parva, Adhyaya 119, Verse 17

ययातिरस्मि राजर्षिः क्षीणपुण्यश्च्युतो दिवः

पतेयं सत्स्विति ध्यायन्भवत्सु पतितस्ततः

Mahabharata

Udyoga Parva, Adhyaya 119, Verse 18

सत्यमेतद्भवतु ते काङ्क्षितं पुरुषर्षभ

सर्वेषां नः क्रतुफलं धर्मश्च प्रतिगृह्यताम्

Mahabharata

Udyoga Parva, Adhyaya 119, Verse 19

नाहं प्रतिग्रहधनो ब्राह्मणः क्षत्रियो ह्यहम्

न च मे प्रवणा बुद्धिः परपुण्यविनाशने

Mahabharata

Udyoga Parva, Adhyaya 119, Verse 20

एतस्मिन्नेव काले तु मृगचर्याक्रमागताम्

माधवीं प्रेक्ष्य राजानस्तेऽभिवाद्येदमब्रुवन्

Mahabharata

Udyoga Parva, Adhyaya 119, Verse 21

किमागमनकृत्यं ते किं कुर्मः शासनं तव

आज्ञाप्या हि वयं सर्वे तव पुत्रास्तपोधने

Mahabharata

Udyoga Parva, Adhyaya 119, Verse 22

तेषां तद्भाषितं श्रुत्वा माधवी परया मुदा

पितरं समुपागच्छद्ययातिं सा ववन्द च

Mahabharata

Udyoga Parva, Adhyaya 119, Verse 23

दृष्ट्वा मूर्ध्ना नतान्पुत्रांस्तापसी वाक्यमब्रवीत्

दौहित्रास्तव राजेन्द्र मम पुत्रा न ते पराः

इमे त्वां तारयिष्यन्ति दिष्टमेतत्पुरातनम्

Mahabharata

Udyoga Parva, Adhyaya 119, Verse 24

अहं ते दुहिता राजन्माधवी मृगचारिणी

मयाप्युपचितो धर्मस्ततोऽर्धं प्रतिगृह्यताम्

Mahabharata

Udyoga Parva, Adhyaya 119, Verse 25

यस्माद्राजन्नराः सर्वे अपत्यफलभागिनः

तस्मादिच्छन्ति दौहित्रान्यथा त्वं वसुधाधिप

Mahabharata

Udyoga Parva, Adhyaya 119, Verse 26

ततस्ते पार्थिवाः सर्वे शिरसा जननीं तदा

अभिवाद्य नमस्कृत्य मातामहमथाब्रुवन्

Mahabharata

Udyoga Parva, Adhyaya 119, Verse 27

उच्चैरनुपमैः स्निग्धैः स्वरैरापूर्य मेदिनीम्

मातामहं नृपतयस्तारयन्तो दिवश्च्युतम्

Mahabharata

Udyoga Parva, Adhyaya 119, Verse 28

अथ तस्मादुपगतो गालवोऽप्याह पार्थिवम्

तपसो मेऽष्टभागेन स्वर्गमारोहतां भवान्