Udyoga Parva, Adhyaya 118, Verse 1
स तु राजा पुनस्तस्याः कर्तुकामः स्वयंवरम्
उपगम्याश्रमपदं गङ्गायमुनसंगमे
Containing 22 sacred Sanskrit shlokas with multi-author commentaries and translations.
स तु राजा पुनस्तस्याः कर्तुकामः स्वयंवरम्
उपगम्याश्रमपदं गङ्गायमुनसंगमे
गृहीतमाल्यदामां तां रथमारोप्य माधवीम्
पूरुर्यदुश्च भगिनीमाश्रमे पर्यधावताम्
नागयक्षमनुष्याणां पतत्रिमृगपक्षिणाम्
शैलद्रुमवनौकानामासीत्तत्र समागमः
नानापुरुषदेशानामीश्वरैश्च समाकुलम्
ऋषिभिर्ब्रह्मकल्पैश्च समन्तादावृतं वनम्
निर्दिश्यमानेषु तु सा वरेषु वरवर्णिनी
वरानुत्क्रम्य सर्वांस्तान्वनं वृतवती वरम्
अवतीर्य रथात्कन्या नमस्कृत्वा च बन्धुषु
उपगम्य वनं पुण्यं तपस्तेपे ययातिजा
उपवासैश्च विविधैर्दीक्षाभिर्नियमैस्तथा
आत्मनो लघुतां कृत्वा बभूव मृगचारिणी
वैडूर्याङ्कुरकल्पानि मृदूनि हरितानि च
चरन्ती शष्पमुख्यानि तिक्तानि मधुराणि च
स्रवन्तीनां च पुण्यानां सुरसानि शुचीनि च
पिबन्ती वारिमुख्यानि शीतानि विमलानि च
वनेषु मृगराजेषु सिंहविप्रोषितेषु च
दावाग्निविप्रमुक्तेषु शून्येषु गहनेषु च
चरन्ती हरिणैः सार्धं मृगीव वनचारिणी
चचार विपुलं धर्मं ब्रह्मचर्येण संवृता
ययातिरपि पूर्वेषां राज्ञां वृत्तमनुष्ठितः
बहुवर्षसहस्रायुरयुजत्कालधर्मणा
पूरुर्यदुश्च द्वौ वंशौ वर्धमानौ नरोत्तमौ
ताभ्यां प्रतिष्ठितो लोके परलोके च नाहुषः
महीयते नरपतिर्ययातिः स्वर्गमास्थितः
महर्षिकल्पो नृपतिः स्वर्गाग्र्यफलभुग्विभुः
बहुवर्षसहस्राख्ये काले बहुगुणे गते
राजर्षिषु निषण्णेषु महीयःसु महर्षिषु
अवमेने नरान्सर्वान्देवानृषिगणांस्तथा
ययातिर्मूढविज्ञानो विस्मयाविष्टचेतनः
ततस्तं बुबुधे देवः शक्रो बलनिषूदनः
ते च राजर्षयः सर्वे धिग्धिगित्येवमब्रुवन्
विचारश्च समुत्पन्नो निरीक्ष्य नहुषात्मजम्
को न्वयं कस्य वा राज्ञः कथं वा स्वर्गमागतः
कर्मणा केन सिद्धोऽयं क्व वानेन तपश्चितम्
कथं वा ज्ञायते स्वर्गे केन वा ज्ञायतेऽप्युत
एवं विचारयन्तस्ते राजानः स्वर्गवासिनः
दृष्ट्वा पप्रच्छुरन्योन्यं ययातिं नृपतिं प्रति
विमानपालाः शतशः स्वर्गद्वाराभिरक्षिणः
पृष्टा आसनपालाश्च न जानीमेत्यथाब्रुवन्
सर्वे ते ह्यावृतज्ञाना नाभ्यजानन्त तं नृपम्
स मुहूर्तादथ नृपो हतौजा अभवत्तदा