Mahabharata

Udyoga Parva, Adhyaya 118

Containing 22 sacred Sanskrit shlokas with multi-author commentaries and translations.

Mahabharata

Udyoga Parva, Adhyaya 118, Verse 1

स तु राजा पुनस्तस्याः कर्तुकामः स्वयंवरम्

उपगम्याश्रमपदं गङ्गायमुनसंगमे

Mahabharata

Udyoga Parva, Adhyaya 118, Verse 2

गृहीतमाल्यदामां तां रथमारोप्य माधवीम्

पूरुर्यदुश्च भगिनीमाश्रमे पर्यधावताम्

Mahabharata

Udyoga Parva, Adhyaya 118, Verse 3

नागयक्षमनुष्याणां पतत्रिमृगपक्षिणाम्

शैलद्रुमवनौकानामासीत्तत्र समागमः

Mahabharata

Udyoga Parva, Adhyaya 118, Verse 4

नानापुरुषदेशानामीश्वरैश्च समाकुलम्

ऋषिभिर्ब्रह्मकल्पैश्च समन्तादावृतं वनम्

Mahabharata

Udyoga Parva, Adhyaya 118, Verse 5

निर्दिश्यमानेषु तु सा वरेषु वरवर्णिनी

वरानुत्क्रम्य सर्वांस्तान्वनं वृतवती वरम्

Mahabharata

Udyoga Parva, Adhyaya 118, Verse 6

अवतीर्य रथात्कन्या नमस्कृत्वा च बन्धुषु

उपगम्य वनं पुण्यं तपस्तेपे ययातिजा

Mahabharata

Udyoga Parva, Adhyaya 118, Verse 7

उपवासैश्च विविधैर्दीक्षाभिर्नियमैस्तथा

आत्मनो लघुतां कृत्वा बभूव मृगचारिणी

Mahabharata

Udyoga Parva, Adhyaya 118, Verse 8

वैडूर्याङ्कुरकल्पानि मृदूनि हरितानि च

चरन्ती शष्पमुख्यानि तिक्तानि मधुराणि च

Mahabharata

Udyoga Parva, Adhyaya 118, Verse 9

स्रवन्तीनां च पुण्यानां सुरसानि शुचीनि च

पिबन्ती वारिमुख्यानि शीतानि विमलानि च

Mahabharata

Udyoga Parva, Adhyaya 118, Verse 10

वनेषु मृगराजेषु सिंहविप्रोषितेषु च

दावाग्निविप्रमुक्तेषु शून्येषु गहनेषु च

Mahabharata

Udyoga Parva, Adhyaya 118, Verse 11

चरन्ती हरिणैः सार्धं मृगीव वनचारिणी

चचार विपुलं धर्मं ब्रह्मचर्येण संवृता

Mahabharata

Udyoga Parva, Adhyaya 118, Verse 12

ययातिरपि पूर्वेषां राज्ञां वृत्तमनुष्ठितः

बहुवर्षसहस्रायुरयुजत्कालधर्मणा

Mahabharata

Udyoga Parva, Adhyaya 118, Verse 13

पूरुर्यदुश्च द्वौ वंशौ वर्धमानौ नरोत्तमौ

ताभ्यां प्रतिष्ठितो लोके परलोके च नाहुषः

Mahabharata

Udyoga Parva, Adhyaya 118, Verse 14

महीयते नरपतिर्ययातिः स्वर्गमास्थितः

महर्षिकल्पो नृपतिः स्वर्गाग्र्यफलभुग्विभुः

Mahabharata

Udyoga Parva, Adhyaya 118, Verse 15

बहुवर्षसहस्राख्ये काले बहुगुणे गते

राजर्षिषु निषण्णेषु महीयःसु महर्षिषु

Mahabharata

Udyoga Parva, Adhyaya 118, Verse 16

अवमेने नरान्सर्वान्देवानृषिगणांस्तथा

ययातिर्मूढविज्ञानो विस्मयाविष्टचेतनः

Mahabharata

Udyoga Parva, Adhyaya 118, Verse 17

ततस्तं बुबुधे देवः शक्रो बलनिषूदनः

ते च राजर्षयः सर्वे धिग्धिगित्येवमब्रुवन्

Mahabharata

Udyoga Parva, Adhyaya 118, Verse 18

विचारश्च समुत्पन्नो निरीक्ष्य नहुषात्मजम्

को न्वयं कस्य वा राज्ञः कथं वा स्वर्गमागतः

Mahabharata

Udyoga Parva, Adhyaya 118, Verse 19

कर्मणा केन सिद्धोऽयं क्व वानेन तपश्चितम्

कथं वा ज्ञायते स्वर्गे केन वा ज्ञायतेऽप्युत

Mahabharata

Udyoga Parva, Adhyaya 118, Verse 20

एवं विचारयन्तस्ते राजानः स्वर्गवासिनः

दृष्ट्वा पप्रच्छुरन्योन्यं ययातिं नृपतिं प्रति

Mahabharata

Udyoga Parva, Adhyaya 118, Verse 21

विमानपालाः शतशः स्वर्गद्वाराभिरक्षिणः

पृष्टा आसनपालाश्च न जानीमेत्यथाब्रुवन्

Mahabharata

Udyoga Parva, Adhyaya 118, Verse 22

सर्वे ते ह्यावृतज्ञाना नाभ्यजानन्त तं नृपम्

स मुहूर्तादथ नृपो हतौजा अभवत्तदा