Mahabharata

Udyoga Parva, Adhyaya 116

Containing 21 sacred Sanskrit shlokas with multi-author commentaries and translations.

Mahabharata

Udyoga Parva, Adhyaya 116, Verse 1

तथैव सा श्रियं त्यक्त्वा कन्या भूत्वा यशस्विनी

माधवी गालवं विप्रमन्वयात्सत्यसंगरा

Mahabharata

Udyoga Parva, Adhyaya 116, Verse 2

गालवो विमृशन्नेव स्वकार्यगतमानसः

जगाम भोजनगरं द्रष्टुमौशीनरं नृपम्

Mahabharata

Udyoga Parva, Adhyaya 116, Verse 3

तमुवाचाथ गत्वा स नृपतिं सत्यविक्रमम्

इयं कन्या सुतौ द्वौ ते जनयिष्यति पार्थिवौ

Mahabharata

Udyoga Parva, Adhyaya 116, Verse 4

अस्यां भवानवाप्तार्थो भविता प्रेत्य चेह च

सोमार्कप्रतिसंकाशौ जनयित्वा सुतौ नृप

Mahabharata

Udyoga Parva, Adhyaya 116, Verse 5

शुल्कं तु सर्वधर्मज्ञ हयानां चन्द्रवर्चसाम्

एकतःश्यामकर्णानां देयं मह्यं चतुःशतम्

Mahabharata

Udyoga Parva, Adhyaya 116, Verse 6

गुर्वर्थोऽयं समारम्भो न हयैः कृत्यमस्ति मे

यदि शक्यं महाराज क्रियतां मा विचार्यताम्

Mahabharata

Udyoga Parva, Adhyaya 116, Verse 7

अनपत्योऽसि राजर्षे पुत्रौ जनय पार्थिव

पितॄन्पुत्रप्लवेन त्वमात्मानं चैव तारय

Mahabharata

Udyoga Parva, Adhyaya 116, Verse 8

न पुत्रफलभोक्ता हि राजर्षे पात्यते दिवः

न याति नरकं घोरं यत्र गच्छन्त्यनात्मजाः

Mahabharata

Udyoga Parva, Adhyaya 116, Verse 9

एतच्चान्यच्च विविधं श्रुत्वा गालवभाषितम्

उशीनरः प्रतिवचो ददौ तस्य नराधिपः

Mahabharata

Udyoga Parva, Adhyaya 116, Verse 10

श्रुतवानस्मि ते वाक्यं यथा वदसि गालव

विधिस्तु बलवान्ब्रह्मन्प्रवणं हि मनो मम

Mahabharata

Udyoga Parva, Adhyaya 116, Verse 11

शते द्वे तु ममाश्वानामीदृशानां द्विजोत्तम

इतरेषां सहस्राणि सुबहूनि चरन्ति मे

Mahabharata

Udyoga Parva, Adhyaya 116, Verse 12

अहमप्येकमेवास्यां जनयिष्यामि गालव

पुत्रं द्विज गतं मार्गं गमिष्यामि परैरहम्

Mahabharata

Udyoga Parva, Adhyaya 116, Verse 13

मूल्येनापि समं कुर्यां तवाहं द्विजसत्तम

पौरजानपदार्थं तु ममार्थो नात्मभोगतः

Mahabharata

Udyoga Parva, Adhyaya 116, Verse 14

कामतो हि धनं राजा पारक्यं यः प्रयच्छति

न स धर्मेण धर्मात्मन्युज्यते यशसा न च

Mahabharata

Udyoga Parva, Adhyaya 116, Verse 15

सोऽहं प्रतिग्रहीष्यामि ददात्वेतां भवान्मम

कुमारीं देवगर्भाभामेकपुत्रभवाय मे

Mahabharata

Udyoga Parva, Adhyaya 116, Verse 16

तथा तु बहुकल्याणमुक्तवन्तं नराधिपम्

उशीनरं द्विजश्रेष्ठो गालवः प्रत्यपूजयत्

Mahabharata

Udyoga Parva, Adhyaya 116, Verse 17

उशीनरं प्रतिग्राह्य गालवः प्रययौ वनम्

रेमे स तां समासाद्य कृतपुण्य इव श्रियम्

Mahabharata

Udyoga Parva, Adhyaya 116, Verse 18

कन्दरेषु च शैलानां नदीनां निर्झरेषु च

उद्यानेषु विचित्रेषु वनेषूपवनेषु च

Mahabharata

Udyoga Parva, Adhyaya 116, Verse 19

हर्म्येषु रमणीयेषु प्रासादशिखरेषु च

वातायनविमानेषु तथा गर्भगृहेषु च

Mahabharata

Udyoga Parva, Adhyaya 116, Verse 20

ततोऽस्य समये जज्ञे पुत्रो बालरविप्रभः

शिबिर्नाम्नाभिविख्यातो यः स पार्थिवसत्तमः

Mahabharata

Udyoga Parva, Adhyaya 116, Verse 21

उपस्थाय स तं विप्रो गालवः प्रतिगृह्य च

कन्यां प्रयातस्तां राजन्दृष्टवान्विनतात्मजम्