Udyoga Parva, Adhyaya 115, Verse 1
महावीर्यो महीपालः काशीनामीश्वरः प्रभुः
दिवोदास इति ख्यातो भैमसेनिर्नराधिपः
Containing 18 sacred Sanskrit shlokas with multi-author commentaries and translations.
महावीर्यो महीपालः काशीनामीश्वरः प्रभुः
दिवोदास इति ख्यातो भैमसेनिर्नराधिपः
तत्र गच्छावहे भद्रे शनैरागच्छ मा शुचः
धार्मिकः संयमे युक्तः सत्यश्चैव जनेश्वरः
तमुपागम्य स मुनिर्न्यायतस्तेन सत्कृतः
गालवः प्रसवस्यार्थे तं नृपं प्रत्यचोदयत्
श्रुतमेतन्मया पूर्वं किमुक्त्वा विस्तरं द्विज
काङ्क्षितो हि मयैषोऽर्थः श्रुत्वैतद्द्विजसत्तम
एतच्च मे बहुमतं यदुत्सृज्य नराधिपान्
मामेवमुपयातोऽसि भावि चैतदसंशयम्
स एव विभवोऽस्माकमश्वानामपि गालव
अहमप्येकमेवास्यां जनयिष्यामि पार्थिवम्
तथेत्युक्त्वा द्विजश्रेष्ठः प्रादात्कन्यां महीपतेः
विधिपूर्वं च तां राजा कन्यां प्रतिगृहीतवान्
रेमे स तस्यां राजर्षिः प्रभावत्यां यथा रविः
स्वाहायां च यथा वह्निर्यथा शच्यां स वासवः
यथा चन्द्रश्च रोहिण्यां यथा धूमोर्णया यमः
वरुणश्च यथा गौर्यां यथा चर्द्ध्यां धनेश्वरः
यथा नारायणो लक्ष्म्यां जाह्नव्यां च यथोदधिः
यथा रुद्रश्च रुद्राण्यां यथा वेद्यां पितामहः
अदृश्यन्त्यां च वासिष्ठो वसिष्ठश्चाक्षमालया
च्यवनश्च सुकन्यायां पुलस्त्यः संध्यया यथा
अगस्त्यश्चापि वैदर्भ्यां सावित्र्यां सत्यवान्यथा
यथा भृगुः पुलोमायामदित्यां कश्यपो यथा
रेणुकायां यथार्चीको हैमवत्यां च कौशिकः
बृहस्पतिश्च तारायां शुक्रश्च शतपर्वया
यथा भूम्यां भूमिपतिरुर्वश्यां च पुरूरवाः
ऋचीकः सत्यवत्यां च सरस्वत्यां यथा मनुः
तथा तु रममाणस्य दिवोदासस्य भूपतेः
माधवी जनयामास पुत्रमेकं प्रतर्दनम्
अथाजगाम भगवान्दिवोदासं स गालवः
समये समनुप्राप्ते वचनं चेदमब्रवीत्
निर्यातयतु मे कन्यां भवांस्तिष्ठन्तु वाजिनः
यावदन्यत्र गच्छामि शुल्कार्थं पृथिवीपते
दिवोदासोऽथ धर्मात्मा समये गालवस्य ताम्
कन्यां निर्यातयामास स्थितः सत्ये महीपतिः