Mahabharata

Udyoga Parva, Adhyaya 114

Containing 22 sacred Sanskrit shlokas with multi-author commentaries and translations.

Mahabharata

Udyoga Parva, Adhyaya 114, Verse 1

हर्यश्वस्त्वब्रवीद्राजा विचिन्त्य बहुधा ततः

दीर्घमुष्णं च निःश्वस्य प्रजाहेतोर्नृपोत्तमः

Mahabharata

Udyoga Parva, Adhyaya 114, Verse 2

उन्नतेषून्नता षट्सु सूक्ष्मा सूक्ष्मेषु सप्तसु

गम्भीरा त्रिषु गम्भीरेष्वियं रक्ता च पञ्चसु

Mahabharata

Udyoga Parva, Adhyaya 114, Verse 3

बहुदेवासुरालोका बहुगन्धर्वदर्शना

बहुलक्षणसंपन्ना बहुप्रसवधारिणी

Mahabharata

Udyoga Parva, Adhyaya 114, Verse 4

समर्थेयं जनयितुं चक्रवर्तिनमात्मजम्

ब्रूहि शुल्कं द्विजश्रेष्ठ समीक्ष्य विभवं मम

Mahabharata

Udyoga Parva, Adhyaya 114, Verse 5

एकतःश्यामकर्णानां शतान्यष्टौ ददस्व मे

हयानां चन्द्रशुभ्राणां देशजानां वपुष्मताम्

Mahabharata

Udyoga Parva, Adhyaya 114, Verse 6

ततस्तव भवित्रीयं पुत्राणां जननी शुभा

अरणीव हुताशानां योनिरायतलोचना

Mahabharata

Udyoga Parva, Adhyaya 114, Verse 7

एतच्छ्रुत्वा वचो राजा हर्यश्वः काममोहितः

उवाच गालवं दीनो राजर्षिरृषिसत्तमम्

Mahabharata

Udyoga Parva, Adhyaya 114, Verse 8

द्वे मे शते संनिहिते हयानां यद्विधास्तव

एष्टव्याः शतशस्त्वन्ये चरन्ति मम वाजिनः

Mahabharata

Udyoga Parva, Adhyaya 114, Verse 9

सोऽहमेकमपत्यं वै जनयिष्यामि गालव

अस्यामेतं भवान्कामं संपादयतु मे वरम्

Mahabharata

Udyoga Parva, Adhyaya 114, Verse 10

एतच्छ्रुत्वा तु सा कन्या गालवं वाक्यमब्रवीत्

मम दत्तो वरः कश्चित्केनचिद्ब्रह्मवादिना

Mahabharata

Udyoga Parva, Adhyaya 114, Verse 11

प्रसूत्यन्ते प्रसूत्यन्ते कन्यैव त्वं भविष्यसि

स त्वं ददस्व मां राज्ञे प्रतिगृह्य हयोत्तमान्

Mahabharata

Udyoga Parva, Adhyaya 114, Verse 12

नृपेभ्यो हि चतुर्भ्यस्ते पूर्णान्यष्टौ शतानि वै

भविष्यन्ति तथा पुत्रा मम चत्वार एव च

Mahabharata

Udyoga Parva, Adhyaya 114, Verse 13

क्रियतां मम संहारो गुर्वर्थं द्विजसत्तम

एषा तावन्मम प्रज्ञा यथा वा मन्यसे द्विज

Mahabharata

Udyoga Parva, Adhyaya 114, Verse 14

एवमुक्तस्तु स मुनिः कन्यया गालवस्तदा

हर्यश्वं पृथिवीपालमिदं वचनमब्रवीत्

Mahabharata

Udyoga Parva, Adhyaya 114, Verse 15

इयं कन्या नरश्रेष्ठ हर्यश्व प्रतिगृह्यताम्

चतुर्भागेन शुल्कस्य जनयस्वैकमात्मजम्

Mahabharata

Udyoga Parva, Adhyaya 114, Verse 16

प्रतिगृह्य स तां कन्यां गालवं प्रतिनन्द्य च

समये देशकाले च लब्धवान्सुतमीप्सितम्

Mahabharata

Udyoga Parva, Adhyaya 114, Verse 17

ततो वसुमना नाम वसुभ्यो वसुमत्तरः

वसुप्रख्यो नरपतिः स बभूव वसुप्रदः

Mahabharata

Udyoga Parva, Adhyaya 114, Verse 18

अथ काले पुनर्धीमान्गालवः प्रत्युपस्थितः

उपसंगम्य चोवाच हर्यश्वं प्रीतिमानसम्

Mahabharata

Udyoga Parva, Adhyaya 114, Verse 19

जातो नृप सुतस्तेऽयं बालभास्करसंनिभः

कालो गन्तुं नरश्रेष्ठ भिक्षार्थमपरं नृपम्

Mahabharata

Udyoga Parva, Adhyaya 114, Verse 20

हर्यश्वः सत्यवचने स्थितः स्थित्वा च पौरुषे

दुर्लभत्वाद्धयानां च प्रददौ माधवीं पुनः

Mahabharata

Udyoga Parva, Adhyaya 114, Verse 21

माधवी च पुनर्दीप्तां परित्यज्य नृपश्रियम्

कुमारी कामतो भूत्वा गालवं पृष्ठतोऽन्वगात्

Mahabharata

Udyoga Parva, Adhyaya 114, Verse 22

त्वय्येव तावत्तिष्ठन्तु हया इत्युक्तवान्द्विजः

प्रययौ कन्यया सार्धं दिवोदासं प्रजेश्वरम्