Udyoga Parva, Adhyaya 113, Verse 1
एवमुक्तः सुपर्णेन तथ्यं वचनमुत्तमम्
विमृश्यावहितो राजा निश्चित्य च पुनः पुनः
Containing 21 sacred Sanskrit shlokas with multi-author commentaries and translations.
एवमुक्तः सुपर्णेन तथ्यं वचनमुत्तमम्
विमृश्यावहितो राजा निश्चित्य च पुनः पुनः
यष्टा क्रतुसहस्राणां दाता दानपतिः प्रभुः
ययातिर्वत्सकाशीश इदं वचनमब्रवीत्
दृष्ट्वा प्रियसखं तार्क्ष्यं गालवं च द्विजर्षभम्
निदर्शनं च तपसो भिक्षां श्लाघ्यां च कीर्तिताम्
अतीत्य च नृपानन्यानादित्यकुलसंभवान्
मत्सकाशमनुप्राप्तावेतौ बुद्धिमवेक्ष्य च
अद्य मे सफलं जन्म तारितं चाद्य मे कुलम्
अद्यायं तारितो देशो मम तार्क्ष्य त्वयानघ
वक्तुमिच्छामि तु सखे यथा जानासि मां पुरा
न तथा वित्तवानस्मि क्षीणं वित्तं हि मे सखे
न च शक्तोऽस्मि ते कर्तुं मोघमागमनं खग
न चाशामस्य विप्रर्षेर्वितथां कर्तुमुत्सहे
तत्तु दास्यामि यत्कार्यमिदं संपादयिष्यति
अभिगम्य हताशो हि निवृत्तो दहते कुलम्
नातः परं वैनतेय किंचित्पापिष्ठमुच्यते
यथाशानाशनं लोके देहि नास्तीति वा वचः
हताशो ह्यकृतार्थः सन्हतः संभावितो नरः
हिनस्ति तस्य पुत्रांश्च पौत्रांश्चाकुर्वतोऽर्थिनाम्
तस्माच्चतुर्णां वंशानां स्थापयित्री सुता मम
इयं सुरसुतप्रख्या सर्वधर्मोपचायिनी
सदा देवमनुष्याणामसुराणां च गालव
काङ्क्षिता रूपतो बाला सुता मे प्रतिगृह्यताम्
अस्याः शुल्कं प्रदास्यन्ति नृपा राज्यमपि ध्रुवम्
किं पुनः श्यामकर्णानां हयानां द्वे चतुःशते
स भवान्प्रतिगृह्णातु ममेमां माधवीं सुताम्
अहं दौहित्रवान्स्यां वै वर एष मम प्रभो
प्रतिगृह्य च तां कन्यां गालवः सह पक्षिणा
पुनर्द्रक्ष्याव इत्युक्त्वा प्रतस्थे सह कन्यया
उपलब्धमिदं द्वारमश्वानामिति चाण्डजः
उक्त्वा गालवमापृच्छ्य जगाम भवनं स्वकम्
गते पतगराजे तु गालवः सह कन्यया
चिन्तयानः क्षमं दाने राज्ञां वै शुल्कतोऽगमत्
सोऽगच्छन्मनसेक्ष्वाकुं हर्यश्वं राजसत्तमम्
अयोध्यायां महावीर्यं चतुरङ्गबलान्वितम्
कोशधान्यबलोपेतं प्रियपौरं द्विजप्रियम्
प्रजाभिकामं शाम्यन्तं कुर्वाणं तप उत्तमम्
तमुपागम्य विप्रः स हर्यश्वं गालवोऽब्रवीत्
कन्येयं मम राजेन्द्र प्रसवैः कुलवर्धिनी
इयं शुल्केन भार्यार्थे हर्यश्व प्रतिगृह्यताम्
शुल्कं ते कीर्तयिष्यामि तच्छ्रुत्वा संप्रधार्यताम्