Mahabharata

Udyoga Parva, Adhyaya 112

Containing 20 sacred Sanskrit shlokas with multi-author commentaries and translations.

Mahabharata

Udyoga Parva, Adhyaya 112, Verse 1

अथाह गालवं दीनं सुपर्णः पततां वरः

निर्मितं वह्निना भूमौ वायुना वैधितं तथा

यस्माद्धिरण्मयं सर्वं हिरण्यं तेन चोच्यते

Mahabharata

Udyoga Parva, Adhyaya 112, Verse 2

धत्ते धारयते चेदमेतस्मात्कारणाद्धनम्

तदेतत्त्रिषु लोकेषु धनं तिष्ठति शाश्वतम्

Mahabharata

Udyoga Parva, Adhyaya 112, Verse 3

नित्यं प्रोष्ठपदाभ्यां च शुक्रे धनपतौ तथा

मनुष्येभ्यः समादत्ते शुक्रश्चित्तार्जितं धनम्

Mahabharata

Udyoga Parva, Adhyaya 112, Verse 4

अजैकपादहिर्बुध्न्यै रक्ष्यते धनदेन च

एवं न शक्यते लब्धुमलब्धव्यं द्विजर्षभ

Mahabharata

Udyoga Parva, Adhyaya 112, Verse 5

ऋते च धनमश्वानां नावाप्तिर्विद्यते तव

अर्थं याचात्र राजानं कंचिद्राजर्षिवंशजम्

अपीड्य राजा पौरान्हि यो नौ कुर्यात्कृतार्थिनौ

Mahabharata

Udyoga Parva, Adhyaya 112, Verse 6

अस्ति सोमान्ववाये मे जातः कश्चिन्नृपः सखा

अभिगच्छावहे तं वै तस्यास्ति विभवो भुवि

Mahabharata

Udyoga Parva, Adhyaya 112, Verse 7

ययातिर्नाम राजर्षिर्नाहुषः सत्यविक्रमः

स दास्यति मया चोक्तो भवता चार्थितः स्वयम्

Mahabharata

Udyoga Parva, Adhyaya 112, Verse 8

विभवश्चास्य सुमहानासीद्धनपतेरिव

एवं स तु धनं विद्वान्दानेनैव व्यशोधयत्

Mahabharata

Udyoga Parva, Adhyaya 112, Verse 9

तथा तौ कथयन्तौ च चिन्तयन्तौ च यत्क्षमम्

प्रतिष्ठाने नरपतिं ययातिं प्रत्युपस्थितौ

Mahabharata

Udyoga Parva, Adhyaya 112, Verse 10

प्रतिगृह्य च सत्कारमर्घादिं भोजनं वरम्

पृष्टश्चागमने हेतुमुवाच विनतासुतः

Mahabharata

Udyoga Parva, Adhyaya 112, Verse 11

अयं मे नाहुष सखा गालवस्तपसो निधिः

विश्वामित्रस्य शिष्योऽभूद्वर्षाण्ययुतशो नृप

Mahabharata

Udyoga Parva, Adhyaya 112, Verse 12

सोऽयं तेनाभ्यनुज्ञात उपकारेप्सया द्विजः

तमाह भगवान्कां ते ददानि गुरुदक्षिणाम्

Mahabharata

Udyoga Parva, Adhyaya 112, Verse 13

असकृत्तेन चोक्तेन किंचिदागतमन्युना

अयमुक्तः प्रयच्छेति जानता विभवं लघु

Mahabharata

Udyoga Parva, Adhyaya 112, Verse 14

एकतःश्यामकर्णानां शुभ्राणां शुद्धजन्मनाम्

अष्टौ शतानि मे देहि हयानां चन्द्रवर्चसाम्

Mahabharata

Udyoga Parva, Adhyaya 112, Verse 15

गुर्वर्थो दीयतामेष यदि गालव मन्यसे

इत्येवमाह सक्रोधो विश्वामित्रस्तपोधनः

Mahabharata

Udyoga Parva, Adhyaya 112, Verse 16

सोऽयं शोकेन महता तप्यमानो द्विजर्षभः

अशक्तः प्रतिकर्तुं तद्भवन्तं शरणं गतः

Mahabharata

Udyoga Parva, Adhyaya 112, Verse 17

प्रतिगृह्य नरव्याघ्र त्वत्तो भिक्षां गतव्यथः

कृत्वापवर्गं गुरवे चरिष्यति महत्तपः

Mahabharata

Udyoga Parva, Adhyaya 112, Verse 18

तपसः संविभागेन भवन्तमपि योक्ष्यते

स्वेन राजर्षितपसा पूर्णं त्वां पूरयिष्यति

Mahabharata

Udyoga Parva, Adhyaya 112, Verse 19

यावन्ति रोमाणि हये भवन्ति हि नरेश्वर

तावतो वाजिदा लोकान्प्राप्नुवन्ति महीपते

Mahabharata

Udyoga Parva, Adhyaya 112, Verse 20

पात्रं प्रतिग्रहस्यायं दातुं पात्रं तथा भवान्

शङ्खे क्षीरमिवासक्तं भवत्वेतत्तथोपमम्