Udyoga Parva, Adhyaya 111, Verse 1
ऋषभस्य ततः शृङ्गे निपत्य द्विजपक्षिणौ
शाण्डिलीं ब्राह्मणीं तत्र ददृशाते तपोन्विताम्
Containing 23 sacred Sanskrit shlokas with multi-author commentaries and translations.
ऋषभस्य ततः शृङ्गे निपत्य द्विजपक्षिणौ
शाण्डिलीं ब्राह्मणीं तत्र ददृशाते तपोन्विताम्
अभिवाद्य सुपर्णस्तु गालवश्चाभिपूज्य ताम्
तया च स्वागतेनोक्तौ विष्टरे संनिषीदतुः
सिद्धमन्नं तया क्षिप्रं बलिमन्त्रोपबृंहितम्
भुक्त्वा तृप्तावुभौ भूमौ सुप्तौ तावन्नमोहितौ
मुहूर्तात्प्रतिबुद्धस्तु सुपर्णो गमनेप्सया
अथ भ्रष्टतनूजाङ्गमात्मानं ददृशे खगः
मांसपिण्डोपमोऽभूत्स मुखपादान्वितः खगः
गालवस्तं तथा दृष्ट्वा विषण्णः पर्यपृच्छत
किमिदं भवता प्राप्तमिहागमनजं फलम्
वासोऽयमिह कालं तु कियन्तं नौ भविष्यति
किं नु ते मनसा ध्यातमशुभं धर्मदूषणम्
न ह्ययं भवतः स्वल्पो व्यभिचारो भविष्यति
सुपर्णोऽथाब्रवीद्विप्रं प्रध्यातं वै मया द्विज
इमां सिद्धामितो नेतुं तत्र यत्र प्रजापतिः
यत्र देवो महादेवो यत्र विष्णुः सनातनः
यत्र धर्मश्च यज्ञश्च तत्रेयं निवसेदिति
सोऽहं भगवतीं याचे प्रणतः प्रियकाम्यया
मयैतन्नाम प्रध्यातं मनसा शोचता किल
तदेवं बहुमानात्ते मयेहानीप्सितं कृतम्
सुकृतं दुष्कृतं वा त्वं माहात्म्यात्क्षन्तुमर्हसि
सा तौ तदाब्रवीत्तुष्टा पतगेन्द्रद्विजर्षभौ
न भेतव्यं सुपर्णोऽसि सुपर्ण त्यज संभ्रमम्
निन्दितास्मि त्वया वत्स न च निन्दां क्षमाम्यहम्
लोकेभ्यः स परिभ्रश्येद्यो मां निन्देत पापकृत्
हीनयालक्षणैः सर्वैस्तथानिन्दितया मया
आचारं प्रतिगृह्णन्त्या सिद्धिः प्राप्तेयमुत्तमा
आचाराल्लभते धर्ममाचाराल्लभते धनम्
आचाराच्छ्रियमाप्नोति आचारो हन्त्यलक्षणम्
तदायुष्मन्खगपते यथेष्टं गम्यतामितः
न च ते गर्हणीयापि गर्हितव्याः स्त्रियः क्वचित्
भवितासि यथापूर्वं बलवीर्यसमन्वितः
बभूवतुस्ततस्तस्य पक्षौ द्रविणवत्तरौ
अनुज्ञातश्च शाण्डिल्या यथागतमुपागमत्
नैव चासादयामास तथारूपांस्तुरंगमान्
विश्वामित्रोऽथ तं दृष्ट्वा गालवं चाध्वनि स्थितम्
उवाच वदतां श्रेष्ठो वैनतेयस्य संनिधौ
यस्त्वया स्वयमेवार्थः प्रतिज्ञातो मम द्विज
तस्य कालोऽपवर्गस्य यथा वा मन्यते भवान्
प्रतीक्षिष्याम्यहं कालमेतावन्तं तथा परम्
यथा संसिध्यते विप्र स मार्गस्तु निशम्यताम्
सुपर्णोऽथाब्रवीद्दीनं गालवं भृशदुःखितम्
प्रत्यक्षं खल्विदानीं मे विश्वामित्रो यदुक्तवान्
तदागच्छ द्विजश्रेष्ठ मन्त्रयिष्याव गालव
नादत्त्वा गुरवे शक्यं कृत्स्नमर्थं त्वयासितुम्