Mahabharata

Udyoga Parva, Adhyaya 109

Containing 26 sacred Sanskrit shlokas with multi-author commentaries and translations.

Mahabharata

Udyoga Parva, Adhyaya 109, Verse 1

यस्मादुत्तार्यते पापाद्यस्मान्निःश्रेयसोऽश्नुते

तस्मादुत्तारणफलादुत्तरेत्युच्यते बुधैः

Mahabharata

Udyoga Parva, Adhyaya 109, Verse 2

उत्तरस्य हिरण्यस्य परिवापस्य गालव

मार्गः पश्चिमपूर्वाभ्यां दिग्भ्यां वै मध्यमः स्मृतः

Mahabharata

Udyoga Parva, Adhyaya 109, Verse 3

अस्यां दिशि वरिष्ठायामुत्तरायां द्विजर्षभ

नासौम्यो नाविधेयात्मा नाधर्म्यो वसते जनः

Mahabharata

Udyoga Parva, Adhyaya 109, Verse 4

अत्र नारायणः कृष्णो जिष्णुश्चैव नरोत्तमः

बदर्यामाश्रमपदे तथा ब्रह्मा च शाश्वतः

Mahabharata

Udyoga Parva, Adhyaya 109, Verse 5

अत्र वै हिमवत्पृष्ठे नित्यमास्ते महेश्वरः

अत्र राज्येन विप्राणां चन्द्रमाश्चाभ्यषिच्यत

Mahabharata

Udyoga Parva, Adhyaya 109, Verse 6

अत्र गङ्गां महादेवः पतन्तीं गगनाच्च्युताम्

प्रतिगृह्य ददौ लोके मानुषे ब्रह्मवित्तम

Mahabharata

Udyoga Parva, Adhyaya 109, Verse 7

अत्र देव्या तपस्तप्तं महेश्वरपरीप्सया

अत्र कामश्च रोषश्च शैलश्चोमा च संबभुः

Mahabharata

Udyoga Parva, Adhyaya 109, Verse 8

अत्र राक्षसयक्षाणां गन्धर्वाणां च गालव

आधिपत्येन कैलासे धनदोऽप्यभिषेचितः

Mahabharata

Udyoga Parva, Adhyaya 109, Verse 9

अत्र चैत्ररथं रम्यमत्र वैखानसाश्रमः

अत्र मन्दाकिनी चैव मन्दरश्च द्विजर्षभ

Mahabharata

Udyoga Parva, Adhyaya 109, Verse 10

अत्र सौगन्धिकवनं नैरृतैरभिरक्ष्यते

शाड्वलं कदलीस्कन्धमत्र संतानका नगाः

Mahabharata

Udyoga Parva, Adhyaya 109, Verse 11

अत्र संयमनित्यानां सिद्धानां स्वैरचारिणाम्

विमानान्यनुरूपाणि कामभोग्यानि गालव

Mahabharata

Udyoga Parva, Adhyaya 109, Verse 12

अत्र ते ऋषयः सप्त देवी चारुन्धती तथा

अत्र तिष्ठति वै स्वातिरत्रास्या उदयः स्मृतः

Mahabharata

Udyoga Parva, Adhyaya 109, Verse 13

अत्र यज्ञं समारुह्य ध्रुवं स्थाता पितामहः

ज्योतींषि चन्द्रसूर्यौ च परिवर्तन्ति नित्यशः

Mahabharata

Udyoga Parva, Adhyaya 109, Verse 14

अत्र गायन्तिकाद्वारं रक्षन्ति द्विजसत्तमाः

धामा नाम महात्मानो मुनयः सत्यवादिनः

Mahabharata

Udyoga Parva, Adhyaya 109, Verse 15

न तेषां ज्ञायते सूतिर्नाकृतिर्न तपश्चितम्

परिवर्तसहस्राणि कामभोग्यानि गालव

Mahabharata

Udyoga Parva, Adhyaya 109, Verse 16

यथा यथा प्रविशति तस्मात्परतरं नरः

तथा तथा द्विजश्रेष्ठ प्रविलीयति गालव

Mahabharata

Udyoga Parva, Adhyaya 109, Verse 17

न तत्केनचिदन्येन गतपूर्वं द्विजर्षभ

ऋते नारायणं देवं नरं वा जिष्णुमव्ययम्

Mahabharata

Udyoga Parva, Adhyaya 109, Verse 18

अत्र कैलासमित्युक्तं स्थानमैलविलस्य तत्

अत्र विद्युत्प्रभा नाम जज्ञिरेऽप्सरसो दश

Mahabharata

Udyoga Parva, Adhyaya 109, Verse 19

अत्र विष्णुपदं नाम क्रमता विष्णुना कृतम्

त्रिलोकविक्रमे ब्रह्मन्नुत्तरां दिशमाश्रितम्

Mahabharata

Udyoga Parva, Adhyaya 109, Verse 20

अत्र राज्ञा मरुत्तेन यज्ञेनेष्टं द्विजोत्तम

उशीरबीजे विप्रर्षे यत्र जाम्बूनदं सरः

Mahabharata

Udyoga Parva, Adhyaya 109, Verse 21

जीमूतस्यात्र विप्रर्षेरुपतस्थे महात्मनः

साक्षाद्धैमवतः पुण्यो विमलः कमलाकरः

Mahabharata

Udyoga Parva, Adhyaya 109, Verse 22

ब्राह्मणेषु च यत्कृत्स्नं स्वन्तं कृत्वा धनं महत्

वव्रे वनं महर्षिः स जैमूतं तद्वनं ततः

Mahabharata

Udyoga Parva, Adhyaya 109, Verse 23

अत्र नित्यं दिशापालाः सायं प्रातर्द्विजर्षभ

कस्य कार्यं किमिति वै परिक्रोशन्ति गालव

Mahabharata

Udyoga Parva, Adhyaya 109, Verse 24

एवमेषा द्विजश्रेष्ठ गुणैरन्यैर्दिगुत्तरा

उत्तरेति परिख्याता सर्वकर्मसु चोत्तरा

Mahabharata

Udyoga Parva, Adhyaya 109, Verse 25

एता विस्तरशस्तात तव संकीर्तिता दिशः

चतस्रः क्रमयोगेन कामाशां गन्तुमिच्छसि

Mahabharata

Udyoga Parva, Adhyaya 109, Verse 26

उद्यतोऽहं द्विजश्रेष्ठ तव दर्शयितुं दिशः

पृथिवीं चाखिलां ब्रह्मंस्तस्मादारोह मां द्विज