Mahabharata

Udyoga Parva, Adhyaya 107

Containing 21 sacred Sanskrit shlokas with multi-author commentaries and translations.

Mahabharata

Udyoga Parva, Adhyaya 107, Verse 1

इयं विवस्वता पूर्वं श्रौतेन विधिना किल

गुरवे दक्षिणा दत्ता दक्षिणेत्युच्यतेऽथ दिक्

Mahabharata

Udyoga Parva, Adhyaya 107, Verse 2

अत्र लोकत्रयस्यास्य पितृपक्षः प्रतिष्ठितः

अत्रोष्मपानां देवानां निवासः श्रूयते द्विज

Mahabharata

Udyoga Parva, Adhyaya 107, Verse 3

अत्र विश्वे सदा देवाः पितृभिः सार्धमासते

इज्यमानाः स्म लोकेषु संप्राप्तास्तुल्यभागताम्

Mahabharata

Udyoga Parva, Adhyaya 107, Verse 4

एतद्द्वितीयं धर्मस्य द्वारमाचक्षते द्विज

त्रुटिशो लवशश्चात्र गण्यते कालनिश्चयः

Mahabharata

Udyoga Parva, Adhyaya 107, Verse 5

अत्र देवर्षयो नित्यं पितृलोकर्षयस्तथा

तथा राजर्षयः सर्वे निवसन्ति गतव्यथाः

Mahabharata

Udyoga Parva, Adhyaya 107, Verse 6

अत्र धर्मश्च सत्यं च कर्म चात्र निशाम्यते

गतिरेषा द्विजश्रेष्ठ कर्मणात्मावसादिनः

Mahabharata

Udyoga Parva, Adhyaya 107, Verse 7

एषा दिक्सा द्विजश्रेष्ठ यां सर्वः प्रतिपद्यते

वृता त्वनवबोधेन सुखं तेन न गम्यते

Mahabharata

Udyoga Parva, Adhyaya 107, Verse 8

नैरृतानां सहस्राणि बहून्यत्र द्विजर्षभ

सृष्टानि प्रतिकूलानि द्रष्टव्यान्यकृतात्मभिः

Mahabharata

Udyoga Parva, Adhyaya 107, Verse 9

अत्र मन्दरकुञ्जेषु विप्रर्षिसदनेषु च

गन्धर्वा गान्ति गाथा वै चित्तबुद्धिहरा द्विज

Mahabharata

Udyoga Parva, Adhyaya 107, Verse 10

अत्र सामानि गाथाभिः श्रुत्वा गीतानि रैवतः

गतदारो गतामात्यो गतराज्यो वनं गतः

Mahabharata

Udyoga Parva, Adhyaya 107, Verse 11

अत्र सावर्णिना चैव यवक्रीतात्मजेन च

मर्यादा स्थापिता ब्रह्मन्यां सूर्यो नातिवर्तते

Mahabharata

Udyoga Parva, Adhyaya 107, Verse 12

अत्र राक्षसराजेन पौलस्त्येन महात्मना

रावणेन तपश्चीर्त्वा सुरेभ्योऽमरता वृता

Mahabharata

Udyoga Parva, Adhyaya 107, Verse 13

अत्र वृत्तेन वृत्रोऽपि शक्रशत्रुत्वमीयिवान्

अत्र सर्वासवः प्राप्ताः पुनर्गच्छन्ति पञ्चधा

Mahabharata

Udyoga Parva, Adhyaya 107, Verse 14

अत्र दुष्कृतकर्माणो नराः पच्यन्ति गालव

अत्र वैतरणी नाम नदी वितरणैर्वृता

अत्र गत्वा सुखस्यान्तं दुःखस्यान्तं प्रपद्यते

Mahabharata

Udyoga Parva, Adhyaya 107, Verse 15

अत्रावृत्तो दिनकरः क्षरते सुरसं पयः

काष्ठां चासाद्य धानिष्ठां हिममुत्सृजते पुनः

Mahabharata

Udyoga Parva, Adhyaya 107, Verse 16

अत्राहं गालव पुरा क्षुधार्तः परिचिन्तयन्

लब्धवान्युध्यमानौ द्वौ बृहन्तौ गजकच्छपौ

Mahabharata

Udyoga Parva, Adhyaya 107, Verse 17

अत्र शक्रधनुर्नाम सूर्याज्जातो महानृषिः

विदुर्यं कपिलं देवं येनात्ताः सगरात्मजाः

Mahabharata

Udyoga Parva, Adhyaya 107, Verse 18

अत्र सिद्धाः शिवा नाम ब्राह्मणा वेदपारगाः

अधीत्य सखिलान्वेदानालभन्ते यमक्षयम्

Mahabharata

Udyoga Parva, Adhyaya 107, Verse 19

अत्र भोगवती नाम पुरी वासुकिपालिता

तक्षकेण च नागेन तथैवैरावतेन च

Mahabharata

Udyoga Parva, Adhyaya 107, Verse 20

अत्र निर्याणकालेषु तमः संप्राप्यते महत्

अभेद्यं भास्करेणापि स्वयं वा कृष्णवर्त्मना

Mahabharata

Udyoga Parva, Adhyaya 107, Verse 21

एष तस्यापि ते मार्गः परितापस्य गालव

ब्रूहि मे यदि गन्तव्यं प्रतीचीं शृणु वा मम