Mahabharata

Udyoga Parva, Adhyaya 106

Containing 18 sacred Sanskrit shlokas with multi-author commentaries and translations.

Mahabharata

Udyoga Parva, Adhyaya 106, Verse 1

अनुशिष्टोऽस्मि देवेन गालवाज्ञातयोनिना

ब्रूहि कामनुसंयामि द्रष्टुं प्रथमतो दिशम्

Mahabharata

Udyoga Parva, Adhyaya 106, Verse 2

पूर्वां वा दक्षिणां वाहमथ वा पश्चिमां दिशम्

उत्तरां वा द्विजश्रेष्ठ कुतो गच्छामि गालव

Mahabharata

Udyoga Parva, Adhyaya 106, Verse 3

यस्यामुदयते पूर्वं सर्वलोकप्रभावनः

सविता यत्र संध्यायां साध्यानां वर्तते तपः

Mahabharata

Udyoga Parva, Adhyaya 106, Verse 4

यस्यां पूर्वं मतिर्जाता यया व्याप्तमिदं जगत्

चक्षुषी यत्र धर्मस्य यत्र चैष प्रतिष्ठितः

Mahabharata

Udyoga Parva, Adhyaya 106, Verse 5

हुतं यतोमुखैर्हव्यं सर्पते सर्वतोदिशम्

एतद्द्वारं द्विजश्रेष्ठ दिवसस्य तथाध्वनः

Mahabharata

Udyoga Parva, Adhyaya 106, Verse 6

यत्र पूर्वं प्रसूता वै दाक्षायण्यः प्रजाः स्त्रियः

यस्यां दिशि प्रवृद्धाश्च कश्यपस्यात्मसंभवाः

Mahabharata

Udyoga Parva, Adhyaya 106, Verse 7

यतोमूला सुराणां श्रीर्यत्र शक्रोऽभ्यषिच्यत

सुरराज्येन विप्रर्षे देवैश्चात्र तपश्चितम्

Mahabharata

Udyoga Parva, Adhyaya 106, Verse 8

एतस्मात्कारणाद्ब्रह्मन्पूर्वेत्येषा दिगुच्यते

यस्मात्पूर्वतरे काले पूर्वमेषावृता सुरैः

Mahabharata

Udyoga Parva, Adhyaya 106, Verse 9

अत एव च पूर्वेषां पूर्वामाशामवेक्षताम्

पूर्वकार्याणि कार्याणि दैवानि सुखमीप्सता

Mahabharata

Udyoga Parva, Adhyaya 106, Verse 10

अत्र वेदाञ्जगौ पूर्वं भगवाँल्लोकभावनः

अत्रैवोक्ता सवित्रासीत्सावित्री ब्रह्मवादिषु

Mahabharata

Udyoga Parva, Adhyaya 106, Verse 11

अत्र दत्तानि सूर्येण यजूंषि द्विजसत्तम

अत्र लब्धवरैः सोमः सुरैः क्रतुषु पीयते

Mahabharata

Udyoga Parva, Adhyaya 106, Verse 12

अत्र तृप्ता हुतवहाः स्वां योनिमुपभुञ्जते

अत्र पातालमाश्रित्य वरुणः श्रियमाप च

Mahabharata

Udyoga Parva, Adhyaya 106, Verse 13

अत्र पूर्वं वसिष्ठस्य पौराणस्य द्विजर्षभ

सूतिश्चैव प्रतिष्ठा च निधनं च प्रकाशते

Mahabharata

Udyoga Parva, Adhyaya 106, Verse 14

ओंकारस्यात्र जायन्ते सूतयो दशतीर्दश

पिबन्ति मुनयो यत्र हविर्धाने स्म सोमपाः

Mahabharata

Udyoga Parva, Adhyaya 106, Verse 15

प्रोक्षिता यत्र बहवो वराहाद्या मृगा वने

शक्रेण यत्र भागार्थे दैवतेषु प्रकल्पिताः

Mahabharata

Udyoga Parva, Adhyaya 106, Verse 16

अत्राहिताः कृतघ्नाश्च मानुषाश्चासुराश्च ये

उदयंस्तान्हि सर्वान्वै क्रोधाद्धन्ति विभावसुः

Mahabharata

Udyoga Parva, Adhyaya 106, Verse 17

एतद्द्वारं त्रिलोकस्य स्वर्गस्य च सुखस्य च

एष पूर्वो दिशाभागो विशावैनं यदीच्छसि

Mahabharata

Udyoga Parva, Adhyaya 106, Verse 18

प्रियं कार्यं हि मे तस्य यस्यास्मि वचने स्थितः

ब्रूहि गालव यास्यामि शृणु चाप्यपरां दिशम्