Mahabharata

Udyoga Parva, Adhyaya 103

Containing 38 sacred Sanskrit shlokas with multi-author commentaries and translations.

Mahabharata

Udyoga Parva, Adhyaya 103, Verse 1

गरुडस्तत्तु शुश्राव यथावृत्तं महाबलः

आयुःप्रदानं शक्रेण कृतं नागस्य भारत

Mahabharata

Udyoga Parva, Adhyaya 103, Verse 2

पक्षवातेन महता रुद्ध्वा त्रिभुवनं खगः

सुपर्णः परमक्रुद्धो वासवं समुपाद्रवत्

Mahabharata

Udyoga Parva, Adhyaya 103, Verse 3

भगवन्किमवज्ञानात्क्षुधां प्रति भये मम

कामकारवरं दत्त्वा पुनश्चलितवानसि

Mahabharata

Udyoga Parva, Adhyaya 103, Verse 4

निसर्गात्सर्वभूतानां सर्वभूतेश्वरेण मे

आहारो विहितो धात्रा किमर्थं वार्यते त्वया

Mahabharata

Udyoga Parva, Adhyaya 103, Verse 5

वृतश्चैष महानागः स्थापितः समयश्च मे

अनेन च मया देव भर्तव्यः प्रसवो महान्

Mahabharata

Udyoga Parva, Adhyaya 103, Verse 6

एतस्मिंस्त्वन्यथाभूते नान्यं हिंसितुमुत्सहे

क्रीडसे कामकारेण देवराज यथेच्छकम्

Mahabharata

Udyoga Parva, Adhyaya 103, Verse 7

सोऽहं प्राणान्विमोक्ष्यामि तथा परिजनो मम

ये च भृत्या मम गृहे प्रीतिमान्भव वासव

Mahabharata

Udyoga Parva, Adhyaya 103, Verse 8

एतच्चैवाहमर्हामि भूयश्च बलवृत्रहन्

त्रैलोक्यस्येश्वरो योऽहं परभृत्यत्वमागतः

Mahabharata

Udyoga Parva, Adhyaya 103, Verse 9

त्वयि तिष्ठति देवेश न विष्णुः कारणं मम

त्रैलोक्यराज राज्यं हि त्वयि वासव शाश्वतम्

Mahabharata

Udyoga Parva, Adhyaya 103, Verse 10

ममापि दक्षस्य सुता जननी कश्यपः पिता

अहमप्युत्सहे लोकान्समस्तान्वोढुमञ्जसा

Mahabharata

Udyoga Parva, Adhyaya 103, Verse 11

असह्यं सर्वभूतानां ममापि विपुलं बलम्

मयापि सुमहत्कर्म कृतं दैतेयविग्रहे

Mahabharata

Udyoga Parva, Adhyaya 103, Verse 12

श्रुतश्रीः श्रुतसेनश्च विवस्वान्रोचनामुखः

प्रसभः कालकाक्षश्च मयापि दितिजा हताः

Mahabharata

Udyoga Parva, Adhyaya 103, Verse 13

यत्तु ध्वजस्थानगतो यत्नात्परिचराम्यहम्

वहामि चैवानुजं ते तेन मामवमन्यसे

Mahabharata

Udyoga Parva, Adhyaya 103, Verse 14

कोऽन्यो भारसहो ह्यस्ति कोऽन्योऽस्ति बलवत्तरः

मया योऽहं विशिष्टः सन्वहामीमं सबान्धवम्

Mahabharata

Udyoga Parva, Adhyaya 103, Verse 15

अवज्ञाय तु यत्तेऽहं भोजनाद्व्यपरोपितः

तेन मे गौरवं नष्टं त्वत्तश्चास्माच्च वासव

Mahabharata

Udyoga Parva, Adhyaya 103, Verse 16

अदित्यां य इमे जाता बलविक्रमशालिनः

त्वमेषां किल सर्वेषां विशेषाद्बलवत्तरः

Mahabharata

Udyoga Parva, Adhyaya 103, Verse 17

सोऽहं पक्षैकदेशेन वहामि त्वां गतक्लमः

विमृश त्वं शनैस्तात को न्वत्र बलवानिति

Mahabharata

Udyoga Parva, Adhyaya 103, Verse 18

तस्य तद्वचनं श्रुत्वा खगस्योदर्कदारुणम्

अक्षोभ्यं क्षोभयंस्तार्क्ष्यमुवाच रथचक्रभृत्

Mahabharata

Udyoga Parva, Adhyaya 103, Verse 19

गरुत्मन्मन्यसेऽऽत्मानं बलवन्तं सुदुर्बलम्

अलमस्मत्समक्षं ते स्तोतुमात्मानमण्डज

Mahabharata

Udyoga Parva, Adhyaya 103, Verse 20

त्रैलोक्यमपि मे कृत्स्नमशक्तं देहधारणे

अहमेवात्मनात्मानं वहामि त्वां च धारये

Mahabharata

Udyoga Parva, Adhyaya 103, Verse 21

इमं तावन्ममैकं त्वं बाहुं सव्येतरं वह

यद्येनं धारयस्येकं सफलं ते विकत्थितम्

Mahabharata

Udyoga Parva, Adhyaya 103, Verse 22

ततः स भगवांस्तस्य स्कन्धे बाहुं समासजत्

निपपात स भारार्तो विह्वलो नष्टचेतनः

Mahabharata

Udyoga Parva, Adhyaya 103, Verse 23

यावान्हि भारः कृत्स्नायाः पृथिव्याः पर्वतैः सह

एकस्या देहशाखायास्तावद्भारममन्यत

Mahabharata

Udyoga Parva, Adhyaya 103, Verse 24

न त्वेनं पीडयामास बलेन बलवत्तरः

ततो हि जीवितं तस्य न व्यनीनशदच्युतः

Mahabharata

Udyoga Parva, Adhyaya 103, Verse 25

विपक्षः स्रस्तकायश्च विचेता विह्वलः खगः

मुमोच पत्राणि तदा गुरुभारप्रपीडितः

Mahabharata

Udyoga Parva, Adhyaya 103, Verse 26

स विष्णुं शिरसा पक्षी प्रणम्य विनतासुतः

विचेता विह्वलो दीनः किंचिद्वचनमब्रवीत्

Mahabharata

Udyoga Parva, Adhyaya 103, Verse 27

भगवँल्लोकसारस्य सदृशेन वपुष्मता

भुजेन स्वैरमुक्तेन निष्पिष्टोऽस्मि महीतले

Mahabharata

Udyoga Parva, Adhyaya 103, Verse 28

क्षन्तुमर्हसि मे देव विह्वलस्याल्पचेतसः

बलदाहविदग्धस्य पक्षिणो ध्वजवासिनः

Mahabharata

Udyoga Parva, Adhyaya 103, Verse 29

न विज्ञातं बलं देव मया ते परमं विभो

तेन मन्याम्यहं वीर्यमात्मनोऽसदृशं परैः

Mahabharata

Udyoga Parva, Adhyaya 103, Verse 30

ततश्चक्रे स भगवान्प्रसादं वै गरुत्मतः

मैवं भूय इति स्नेहात्तदा चैनमुवाच ह