Mahabharata

Udyoga Parva, Adhyaya 102

Containing 29 sacred Sanskrit shlokas with multi-author commentaries and translations.

Mahabharata

Udyoga Parva, Adhyaya 102, Verse 1

सूतोऽयं मातलिर्नाम शक्रस्य दयितः सुहृत्

शुचिः शीलगुणोपेतस्तेजस्वी वीर्यवान्बली

Mahabharata

Udyoga Parva, Adhyaya 102, Verse 2

शक्रस्यायं सखा चैव मन्त्री सारथिरेव च

अल्पान्तरप्रभावश्च वासवेन रणे रणे

Mahabharata

Udyoga Parva, Adhyaya 102, Verse 3

अयं हरिसहस्रेण युक्तं जैत्रं रथोत्तमम्

देवासुरेषु युद्धेषु मनसैव नियच्छति

Mahabharata

Udyoga Parva, Adhyaya 102, Verse 4

अनेन विजितानश्वैर्दोर्भ्यां जयति वासवः

अनेन प्रहृते पूर्वं बलभित्प्रहरत्युत

Mahabharata

Udyoga Parva, Adhyaya 102, Verse 5

अस्य कन्या वरारोहा रूपेणासदृशी भुवि

सत्त्वशीलगुणोपेता गुणकेशीति विश्रुता

Mahabharata

Udyoga Parva, Adhyaya 102, Verse 6

तस्यास्य यत्नाच्चरतस्त्रैलोक्यममरद्युते

सुमुखो भवतः पौत्रो रोचते दुहितुः पतिः

Mahabharata

Udyoga Parva, Adhyaya 102, Verse 7

यदि ते रोचते सौम्य भुजगोत्तम माचिरम्

क्रियतामार्यक क्षिप्रं बुद्धिः कन्याप्रतिग्रहे

Mahabharata

Udyoga Parva, Adhyaya 102, Verse 8

यथा विष्णुकुले लक्ष्मीर्यथा स्वाहा विभावसोः

कुले तव तथैवास्तु गुणकेशी सुमध्यमा

Mahabharata

Udyoga Parva, Adhyaya 102, Verse 9

पौत्रस्यार्थे भवांस्तस्माद्गुणकेशीं प्रतीच्छतु

सदृशीं प्रतिरूपस्य वासवस्य शचीमिव

Mahabharata

Udyoga Parva, Adhyaya 102, Verse 10

पितृहीनमपि ह्येनं गुणतो वरयामहे

बहुमानाच्च भवतस्तथैवैरावतस्य च

सुमुखस्य गुणैश्चैव शीलशौचदमादिभिः

Mahabharata

Udyoga Parva, Adhyaya 102, Verse 11

अभिगम्य स्वयं कन्यामयं दातुं समुद्यतः

मातलेस्तस्य संमानं कर्तुमर्हो भवानपि

Mahabharata

Udyoga Parva, Adhyaya 102, Verse 12

स तु दीनः प्रहृष्टश्च प्राह नारदमार्यकः

व्रियमाणे तथा पौत्रे पुत्रे च निधनं गते

Mahabharata

Udyoga Parva, Adhyaya 102, Verse 13

न मे नैतद्बहुमतं देवर्षे वचनं तव

सखा शक्रस्य संयुक्तः कस्यायं नेप्सितो भवेत्

Mahabharata

Udyoga Parva, Adhyaya 102, Verse 14

कारणस्य तु दौर्बल्याच्चिन्तयामि महामुने

अस्य देहकरस्तात मम पुत्रो महाद्युते

भक्षितो वैनतेयेन दुःखार्तास्तेन वै वयम्

Mahabharata

Udyoga Parva, Adhyaya 102, Verse 15

पुनरेव च तेनोक्तं वैनतेयेन गच्छता

मासेनान्येन सुमुखं भक्षयिष्य इति प्रभो

Mahabharata

Udyoga Parva, Adhyaya 102, Verse 16

ध्रुवं तथा तद्भविता जानीमस्तस्य निश्चयम्

तेन हर्षः प्रनष्टो मे सुपर्णवचनेन वै

Mahabharata

Udyoga Parva, Adhyaya 102, Verse 17

मातलिस्त्वब्रवीदेनं बुद्धिरत्र कृता मया

जामातृभावेन वृतः सुमुखस्तव पुत्रजः

Mahabharata

Udyoga Parva, Adhyaya 102, Verse 18

सोऽयं मया च सहितो नारदेन च पन्नगः

त्रिलोकेशं सुरपतिं गत्वा पश्यतु वासवम्

Mahabharata

Udyoga Parva, Adhyaya 102, Verse 19

शेषेणैवास्य कार्येण प्रज्ञास्याम्यहमायुषः

सुपर्णस्य विघाते च प्रयतिष्यामि सत्तम

Mahabharata

Udyoga Parva, Adhyaya 102, Verse 20

सुमुखश्च मया सार्धं देवेशमभिगच्छतु

कार्यसंसाधनार्थाय स्वस्ति तेऽस्तु भुजंगम

Mahabharata

Udyoga Parva, Adhyaya 102, Verse 21

ततस्ते सुमुखं गृह्य सर्व एव महौजसः

ददृशुः शक्रमासीनं देवराजं महाद्युतिम्

Mahabharata

Udyoga Parva, Adhyaya 102, Verse 22

संगत्या तत्र भगवान्विष्णुरासीच्चतुर्भुजः

ततस्तत्सर्वमाचख्यौ नारदो मातलिं प्रति

Mahabharata

Udyoga Parva, Adhyaya 102, Verse 23

ततः पुरंदरं विष्णुरुवाच भुवनेश्वरम्

अमृतं दीयतामस्मै क्रियताममरैः समः

Mahabharata

Udyoga Parva, Adhyaya 102, Verse 24

मातलिर्नारदश्चैव सुमुखश्चैव वासव

लभन्तां भवतः कामात्काममेतं यथेप्सितम्

Mahabharata

Udyoga Parva, Adhyaya 102, Verse 25

पुरंदरोऽथ संचिन्त्य वैनतेयपराक्रमम्

विष्णुमेवाब्रवीदेनं भवानेव ददात्विति

Mahabharata

Udyoga Parva, Adhyaya 102, Verse 26

ईशस्त्वमसि लोकानां चराणामचराश्च ये

त्वया दत्तमदत्तं कः कर्तुमुत्सहते विभो

Mahabharata

Udyoga Parva, Adhyaya 102, Verse 27

प्रादाच्छक्रस्ततस्तस्मै पन्नगायायुरुत्तमम्

न त्वेनममृतप्राशं चकार बलवृत्रहा

Mahabharata

Udyoga Parva, Adhyaya 102, Verse 28

लब्ध्वा वरं तु सुमुखः सुमुखः संबभूव ह

कृतदारो यथाकामं जगाम च गृहान्प्रति

Mahabharata

Udyoga Parva, Adhyaya 102, Verse 29

नारदस्त्वार्यकश्चैव कृतकार्यौ मुदा युतौ

प्रतिजग्मतुरभ्यर्च्य देवराजं महाद्युतिम्