Udyoga Parva, Adhyaya 101, Verse 1
इयं भोगवती नाम पुरी वासुकिपालिता
यादृशी देवराजस्य पुरीवर्यामरावती
Containing 26 sacred Sanskrit shlokas with multi-author commentaries and translations.
इयं भोगवती नाम पुरी वासुकिपालिता
यादृशी देवराजस्य पुरीवर्यामरावती
एष शेषः स्थितो नागो येनेयं धार्यते सदा
तपसा लोकमुख्येन प्रभावमहता मही
श्वेतोच्चयनिभाकारो नानाविधविभूषणः
सहस्रं धारयन्मूर्ध्नां ज्वालाजिह्वो महाबलः
इह नानाविधाकारा नानाविधविभूषणाः
सुरसायाः सुता नागा निवसन्ति गतव्यथाः
मणिस्वस्तिकचक्राङ्काः कमण्डलुकलक्षणाः
सहस्रसंख्या बलिनः सर्वे रौद्राः स्वभावतः
सहस्रशिरसः केचित्केचित्पञ्चशताननाः
शतशीर्षास्तथा केचित्केचित्त्रिशिरसोऽपि च
द्विपञ्चशिरसः केचित्केचित्सप्तमुखास्तथा
महाभोगा महाकायाः पर्वताभोगभोगिनः
बहूनीह सहस्राणि प्रयुतान्यर्बुदानि च
नागानामेकवंशानां यथाश्रेष्ठांस्तु मे शृणु
वासुकिस्तक्षकश्चैव कर्कोटकधनंजयौ
कालीयो नहुषश्चैव कम्बलाश्वतरावुभौ
बाह्यकुण्डो मणिर्नागस्तथैवापूरणः खगः
वामनश्चैलपत्रश्च कुकुरः कुकुणस्तथा
आर्यको नन्दकश्चैव तथा कलशपोतकौ
कैलासकः पिञ्जरको नागश्चैरावतस्तथा
सुमनोमुखो दधिमुखः शङ्खो नन्दोपनन्दकौ
आप्तः कोटनकश्चैव शिखी निष्ठूरिकस्तथा
तित्तिरिर्हस्तिभद्रश्च कुमुदो माल्यपिण्डकः
द्वौ पद्मौ पुण्डरीकश्च पुष्पो मुद्गरपर्णकः
करवीरः पीठरकः संवृत्तो वृत्त एव च
पिण्डारो बिल्वपत्रश्च मूषिकादः शिरीषकः
दिलीपः शङ्खशीर्षश्च ज्योतिष्कोऽथापराजितः
कौरव्यो धृतराष्ट्रश्च कुमारः कुशकस्तथा
विरजा धारणश्चैव सुबाहुर्मुखरो जयः
बधिरान्धौ विकुण्डश्च विरसः सुरसस्तथा
एते चान्ये च बहवः कश्यपस्यात्मजाः स्मृताः
मातले पश्य यद्यत्र कश्चित्ते रोचते वरः
मातलिस्त्वेकमव्यग्रः सततं संनिरीक्ष्य वै
पप्रच्छ नारदं तत्र प्रीतिमानिव चाभवत्
स्थितो य एष पुरतः कौरव्यस्यार्यकस्य च
द्युतिमान्दर्शनीयश्च कस्यैष कुलनन्दनः
कः पिता जननी चास्य कतमस्यैष भोगिनः
वंशस्य कस्यैष महान्केतुभूत इव स्थितः
प्रणिधानेन धैर्येण रूपेण वयसा च मे
मनः प्रविष्टो देवर्षे गुणकेश्याः पतिर्वरः
मातलिं प्रीतिमनसं दृष्ट्वा सुमुखदर्शनात्
निवेदयामास तदा माहात्म्यं जन्म कर्म च
ऐरावतकुले जातः सुमुखो नाम नागराट्
आर्यकस्य मतः पौत्रो दौहित्रो वामनस्य च
एतस्य हि पिता नागश्चिकुरो नाम मातले
नचिराद्वैनतेयेन पञ्चत्वमुपपादितः
ततोऽब्रवीत्प्रीतमना मातलिर्नारदं वचः
एष मे रुचितस्तात जामाता भुजगोत्तमः
क्रियतामत्र यत्नो हि प्रीतिमानस्म्यनेन वै
अस्य नागपतेर्दातुं प्रियां दुहितरं मुने