Udyoga Parva, Adhyaya 100, Verse 1
इदं रसातलं नाम सप्तमं पृथिवीतलम्
यत्रास्ते सुरभिर्माता गवाममृतसंभवा
Containing 15 sacred Sanskrit shlokas with multi-author commentaries and translations.
इदं रसातलं नाम सप्तमं पृथिवीतलम्
यत्रास्ते सुरभिर्माता गवाममृतसंभवा
क्षरन्ती सततं क्षीरं पृथिवीसारसंभवम्
षण्णां रसानां सारेण रसमेकमनुत्तमम्
अमृतेनाभितृप्तस्य सारमुद्गिरतः पुरा
पितामहस्य वदनादुदतिष्ठदनिन्दिता
यस्याः क्षीरस्य धाराया निपतन्त्या महीतले
ह्रदः कृतः क्षीरनिधिः पवित्रं परमुत्तमम्
पुष्पितस्येव फेनस्य पर्यन्तमनुवेष्टितम्
पिबन्तो निवसन्त्यत्र फेनपा मुनिसत्तमाः
फेनपा नाम नाम्ना ते फेनाहाराश्च मातले
उग्रे तपसि वर्तन्ते येषां बिभ्यति देवताः
अस्याश्चतस्रो धेन्वोऽन्या दिक्षु सर्वासु मातले
निवसन्ति दिशापाल्यो धारयन्त्यो दिशः स्मृताः
पूर्वां दिशं धारयते सुरूपा नाम सौरभी
दक्षिणां हंसका नाम धारयत्यपरां दिशम्
पश्चिमा वारुणी दिक्च धार्यते वै सुभद्रया
महानुभावया नित्यं मातले विश्वरूपया
सर्वकामदुघा नाम धेनुर्धारयते दिशम्
उत्तरां मातले धर्म्यां तथैलविलसंज्ञिताम्
आसां तु पयसा मिश्रं पयो निर्मथ्य सागरे
मन्थानं मन्दरं कृत्वा देवैरसुरसंहितैः
उद्धृता वारुणी लक्ष्मीरमृतं चापि मातले
उच्चैःश्रवाश्चाश्वराजो मणिरत्नं च कौस्तुभम्
सुधाहारेषु च सुधां स्वधाभोजिषु च स्वधाम्
अमृतं चामृताशेषु सुरभिः क्षरते पयः
अत्र गाथा पुरा गीता रसातलनिवासिभिः
पौराणी श्रूयते लोके गीयते या मनीषिभिः
न नागलोके न स्वर्गे न विमाने त्रिविष्टपे
परिवासः सुखस्तादृग्रसातलतले यथा