Mahabharata

Udyoga Parva, Adhyaya 99

Containing 16 sacred Sanskrit shlokas with multi-author commentaries and translations.

Mahabharata

Udyoga Parva, Adhyaya 99, Verse 1

अयं लोकः सुपर्णानां पक्षिणां पन्नगाशिनाम्

विक्रमे गमने भारे नैषामस्ति परिश्रमः

Mahabharata

Udyoga Parva, Adhyaya 99, Verse 2

वैनतेयसुतैः सूत षड्भिस्ततमिदं कुलम्

सुमुखेन सुनाम्ना च सुनेत्रेण सुवर्चसा

Mahabharata

Udyoga Parva, Adhyaya 99, Verse 3

सुरूपपक्षिराजेन सुबलेन च मातले

वर्धितानि प्रसूत्या वै विनताकुलकर्तृभिः

Mahabharata

Udyoga Parva, Adhyaya 99, Verse 4

पक्षिराजाभिजात्यानां सहस्राणि शतानि च

कश्यपस्य ततो वंशे जातैर्भूतिविवर्धनैः

Mahabharata

Udyoga Parva, Adhyaya 99, Verse 5

सर्वे ह्येते श्रिया युक्ताः सर्वे श्रीवत्सलक्षणाः

सर्वे श्रियमभीप्सन्तो धारयन्ति बलान्युत

Mahabharata

Udyoga Parva, Adhyaya 99, Verse 6

कर्मणा क्षत्रियाश्चैते निर्घृणा भोगिभोजिनः

ज्ञातिसंक्षयकर्तृत्वाद्ब्राह्मण्यं न लभन्ति वै

Mahabharata

Udyoga Parva, Adhyaya 99, Verse 7

नामानि चैषां वक्ष्यामि यथा प्राधान्यतः शृणु

मातले श्लाघ्यमेतद्धि कुलं विष्णुपरिग्रहम्

Mahabharata

Udyoga Parva, Adhyaya 99, Verse 8

दैवतं विष्णुरेतेषां विष्णुरेव परायणम्

हृदि चैषां सदा विष्णुर्विष्णुरेव गतिः सदा

Mahabharata

Udyoga Parva, Adhyaya 99, Verse 9

सुवर्णचूडो नागाशी दारुणश्चण्डतुण्डकः

अनलश्चानिलश्चैव विशालाक्षोऽथ कुण्डली

Mahabharata

Udyoga Parva, Adhyaya 99, Verse 10

काश्यपिर्ध्वजविष्कम्भो वैनतेयोऽथ वामनः

वातवेगो दिशाचक्षुर्निमेषो निमिषस्तथा

Mahabharata

Udyoga Parva, Adhyaya 99, Verse 11

त्रिवारः सप्तवारश्च वाल्मीकिर्द्वीपकस्तथा

दैत्यद्वीपः सरिद्द्वीपः सारसः पद्मकेसरः

Mahabharata

Udyoga Parva, Adhyaya 99, Verse 12

सुमुखः सुखकेतुश्च चित्रबर्हस्तथानघः

मेघकृत्कुमुदो दक्षः सर्पान्तः सोमभोजनः

Mahabharata

Udyoga Parva, Adhyaya 99, Verse 13

गुरुभारः कपोतश्च सूर्यनेत्रश्चिरान्तकः

विष्णुधन्वा कुमारश्च परिबर्हो हरिस्तथा

Mahabharata

Udyoga Parva, Adhyaya 99, Verse 14

सुस्वरो मधुपर्कश्च हेमवर्णस्तथैव च

मलयो मातरिश्वा च निशाकरदिवाकरौ

Mahabharata

Udyoga Parva, Adhyaya 99, Verse 15

एते प्रदेशमात्रेण मयोक्ता गरुडात्मजाः

प्राधान्यतोऽथ यशसा कीर्तिताः प्राणतश्च ते

Mahabharata

Udyoga Parva, Adhyaya 99, Verse 16

यद्यत्र न रुचिः काचिदेहि गच्छाव मातले

तं नयिष्यामि देशं त्वां रुचिं यत्रोपलप्स्यसे