Udyoga Parva, Adhyaya 98, Verse 1
हिरण्यपुरमित्येतत्ख्यातं पुरवरं महत्
दैत्यानां दानवानां च मायाशतविचारिणाम्
Containing 19 sacred Sanskrit shlokas with multi-author commentaries and translations.
हिरण्यपुरमित्येतत्ख्यातं पुरवरं महत्
दैत्यानां दानवानां च मायाशतविचारिणाम्
अनल्पेन प्रयत्नेन निर्मितं विश्वकर्मणा
मयेन मनसा सृष्टं पातालतलमाश्रितम्
अत्र मायासहस्राणि विकुर्वाणा महौजसः
दानवा निवसन्ति स्म शूरा दत्तवराः पुरा
नैते शक्रेण नान्येन वरुणेन यमेन वा
शक्यन्ते वशमानेतुं तथैव धनदेन च
असुराः कालखञ्जाश्च तथा विष्णुपदोद्भवाः
नैरृता यातुधानाश्च ब्रह्मवेदोद्भवाश्च ये
दंष्ट्रिणो भीमरूपाश्च निवसन्त्यात्मरक्षिणः
मायावीर्योपसंपन्ना निवसन्त्यात्मरक्षिणः
निवातकवचा नाम दानवा युद्धदुर्मदाः
जानासि च यथा शक्रो नैताञ्शक्नोति बाधितुम्
बहुशो मातले त्वं च तव पुत्रश्च गोमुखः
निर्भग्नो देवराजश्च सहपुत्रः शचीपतिः
पश्य वेश्मानि रौक्माणि मातले राजतानि च
कर्मणा विधियुक्तेन युक्तान्युपगतानि च
वैडूर्यहरितानीव प्रवालरुचिराणि च
अर्कस्फटिकशुभ्राणि वज्रसारोज्ज्वलानि च
पार्थिवानीव चाभान्ति पुनर्नगमयानि च
शैलानीव च दृश्यन्ते तारकाणीव चाप्युत
सूर्यरूपाणि चाभान्ति दीप्ताग्निसदृशानि च
मणिजालविचित्राणि प्रांशूनि निबिडानि च
नैतानि शक्यं निर्देष्टुं रूपतो द्रव्यतस्तथा
गुणतश्चैव सिद्धानि प्रमाणगुणवन्ति च
आक्रीडान्पश्य दैत्यानां तथैव शयनान्युत
रत्नवन्ति महार्हाणि भाजनान्यासनानि च
जलदाभांस्तथा शैलांस्तोयप्रस्रवणान्वितान्
कामपुष्पफलांश्चैव पादपान्कामचारिणः
मातले कश्चिदत्रापि रुचितस्ते वरो भवेत्
अथ वान्यां दिशं भूमेर्गच्छाव यदि मन्यसे
मातलिस्त्वब्रवीदेनं भाषमाणं तथाविधम्
देवर्षे नैव मे कार्यं विप्रियं त्रिदिवौकसाम्
नित्यानुषक्तवैरा हि भ्रातरो देवदानवाः
अरिपक्षेण संबन्धं रोचयिष्याम्यहं कथम्
अन्यत्र साधु गच्छावो द्रष्टुं नार्हामि दानवान्
जानामि तु तथात्मानं दित्सात्मकमलं यथा