Mahabharata

Udyoga Parva, Adhyaya 96

Containing 25 sacred Sanskrit shlokas with multi-author commentaries and translations.

Mahabharata

Udyoga Parva, Adhyaya 96, Verse 1

मातलिस्तु व्रजन्मार्गे नारदेन महर्षिणा

वरुणं गच्छता द्रष्टुं समागच्छद्यदृच्छया

Mahabharata

Udyoga Parva, Adhyaya 96, Verse 2

नारदोऽथाब्रवीदेनं क्व भवान्गन्तुमुद्यतः

स्वेन वा सूत कार्येण शासनाद्वा शतक्रतोः

Mahabharata

Udyoga Parva, Adhyaya 96, Verse 3

मातलिर्नारदेनैवं संपृष्टः पथि गच्छता

यथावत्सर्वमाचष्ट स्वकार्यं वरुणं प्रति

Mahabharata

Udyoga Parva, Adhyaya 96, Verse 4

तमुवाचाथ स मुनिर्गच्छावः सहिताविति

सलिलेशदिदृक्षार्थमहमप्युद्यतो दिवः

Mahabharata

Udyoga Parva, Adhyaya 96, Verse 5

अहं ते सर्वमाख्यास्ये दर्शयन्वसुधातलम्

दृष्ट्वा तत्र वरं कंचिद्रोचयिष्याव मातले

Mahabharata

Udyoga Parva, Adhyaya 96, Verse 6

अवगाह्य ततो भूमिमुभौ मातलिनारदौ

ददृशाते महात्मानौ लोकपालमपां पतिम्

Mahabharata

Udyoga Parva, Adhyaya 96, Verse 7

तत्र देवर्षिसदृशीं पूजां प्राप स नारदः

महेन्द्रसदृशीं चैव मातलिः प्रत्यपद्यत

Mahabharata

Udyoga Parva, Adhyaya 96, Verse 8

तावुभौ प्रीतमनसौ कार्यवत्तां निवेद्य ह

वरुणेनाभ्यनुज्ञातौ नागलोकं विचेरतुः

Mahabharata

Udyoga Parva, Adhyaya 96, Verse 9

नारदः सर्वभूतानामन्तर्भूमिनिवासिनाम्

जानंश्चकार व्याख्यानं यन्तुः सर्वमशेषतः

Mahabharata

Udyoga Parva, Adhyaya 96, Verse 10

दृष्टस्ते वरुणस्तात पुत्रपौत्रसमावृतः

पश्योदकपतेः स्थानं सर्वतोभद्रमृद्धिमत्

Mahabharata

Udyoga Parva, Adhyaya 96, Verse 11

एष पुत्रो महाप्राज्ञो वरुणस्येह गोपतेः

एष तं शीलवृत्तेन शौचेन च विशिष्यते

Mahabharata

Udyoga Parva, Adhyaya 96, Verse 12

एषोऽस्य पुत्रोऽभिमतः पुष्करः पुष्करेक्षणः

रूपवान्दर्शनीयश्च सोमपुत्र्या वृतः पतिः

Mahabharata

Udyoga Parva, Adhyaya 96, Verse 13

ज्योत्स्नाकालीति यामाहुर्द्वितीयां रूपतः श्रियम्

आदित्यस्यैव गोः पुत्रो ज्येष्ठः पुत्रः कृतः स्मृतः

Mahabharata

Udyoga Parva, Adhyaya 96, Verse 14

भवनं पश्य वारुण्या यदेतत्सर्वकाञ्चनम्

यां प्राप्य सुरतां प्राप्ताः सुराः सुरपतेः सखे

Mahabharata

Udyoga Parva, Adhyaya 96, Verse 15

एतानि हृतराज्यानां दैतेयानां स्म मातले

दीप्यमानानि दृश्यन्ते सर्वप्रहरणान्युत

Mahabharata

Udyoga Parva, Adhyaya 96, Verse 16

अक्षयाणि किलैतानि विवर्तन्ते स्म मातले

अनुभावप्रयुक्तानि सुरैरवजितानि ह

Mahabharata

Udyoga Parva, Adhyaya 96, Verse 17

अत्र राक्षसजात्यश्च भूतजात्यश्च मातले

दिव्यप्रहरणाश्चासन्पूर्वदैवतनिर्मिताः

Mahabharata

Udyoga Parva, Adhyaya 96, Verse 18

अग्निरेष महार्चिष्माञ्जागर्ति वरुणह्रदे

वैष्णवं चक्रमाविद्धं विधूमेन हविष्मता

Mahabharata

Udyoga Parva, Adhyaya 96, Verse 19

एष गाण्डीमयश्चापो लोकसंहारसंभृतः

रक्ष्यते दैवतैर्नित्यं यतस्तद्गाण्डिवं धनुः

Mahabharata

Udyoga Parva, Adhyaya 96, Verse 20

एष कृत्ये समुत्पन्ने तत्तद्धारयते बलम्

सहस्रशतसंख्येन प्राणेन सततं ध्रुवम्

Mahabharata

Udyoga Parva, Adhyaya 96, Verse 21

अशास्यानपि शास्त्येष रक्षोबन्धुषु राजसु

सृष्टः प्रथमजो दण्डो ब्रह्मणा ब्रह्मवादिना

Mahabharata

Udyoga Parva, Adhyaya 96, Verse 22

एतच्छत्रं नरेन्द्राणां महच्छक्रेण भाषितम्

पुत्राः सलिलराजस्य धारयन्ति महोदयम्

Mahabharata

Udyoga Parva, Adhyaya 96, Verse 23

एतत्सलिलराजस्य छत्रं छत्रगृहे स्थितम्

सर्वतः सलिलं शीतं जीमूत इव वर्षति

Mahabharata

Udyoga Parva, Adhyaya 96, Verse 24

एतच्छत्रात्परिभ्रष्टं सलिलं सोमनिर्मलम्

तमसा मूर्छितं याति येन नार्छति दर्शनम्

Mahabharata

Udyoga Parva, Adhyaya 96, Verse 25

बहून्यद्भुतरूपाणि द्रष्टव्यानीह मातले

तव कार्योपरोधस्तु तस्माद्गच्छाव माचिरम्