Udyoga Parva, Adhyaya 95, Verse 1
जामदग्न्यवचः श्रुत्वा कण्वोऽपि भगवानृषिः
दुर्योधनमिदं वाक्यमब्रवीत्कुरुसंसदि
Containing 21 sacred Sanskrit shlokas with multi-author commentaries and translations.
जामदग्न्यवचः श्रुत्वा कण्वोऽपि भगवानृषिः
दुर्योधनमिदं वाक्यमब्रवीत्कुरुसंसदि
अक्षयश्चाव्ययश्चैव ब्रह्मा लोकपितामहः
तथैव भगवन्तौ तौ नरनारायणावृषी
आदित्यानां हि सर्वेषां विष्णुरेकः सनातनः
अजय्यश्चाव्ययश्चैव शाश्वतः प्रभुरीश्वरः
निमित्तमरणास्त्वन्ये चन्द्रसूर्यौ मही जलम्
वायुरग्निस्तथाकाशं ग्रहास्तारागणास्तथा
ते च क्षयान्ते जगतो हित्वा लोकत्रयं सदा
क्षयं गच्छन्ति वै सर्वे सृज्यन्ते च पुनः पुनः
मुहूर्तमरणास्त्वन्ये मानुषा मृगपक्षिणः
तिर्यग्योन्यश्च ये चान्ये जीवलोकचराः स्मृताः
भूयिष्ठेन तु राजानः श्रियं भुक्त्वायुषः क्षये
मरणं प्रतिगच्छन्ति भोक्तुं सुकृतदुष्कृतम्
स भवान्धर्मपुत्रेण शमं कर्तुमिहार्हति
पाण्डवाः कुरवश्चैव पालयन्तु वसुंधराम्
बलवानहमित्येव न मन्तव्यं सुयोधन
बलवन्तो हि बलिभिर्दृश्यन्ते पुरुषर्षभ
न बलं बलिनां मध्ये बलं भवति कौरव
बलवन्तो हि ते सर्वे पाण्डवा देवविक्रमाः
अत्राप्युदाहरन्तीममितिहासं पुरातनम्
मातलेर्दातुकामस्य कन्यां मृगयतो वरम्
मतस्त्रैलोक्यराजस्य मातलिर्नाम सारथिः
तस्यैकैव कुले कन्या रूपतो लोकविश्रुता
गुणकेशीति विख्याता नाम्ना सा देवरूपिणी
श्रिया च वपुषा चैव स्त्रियोऽन्याः सातिरिच्यते
तस्याः प्रदानसमयं मातलिः सह भार्यया
ज्ञात्वा विममृशे राजंस्तत्परः परिचिन्तयन्
धिक्खल्वलघुशीलानामुच्छ्रितानां यशस्विनाम्
नराणामृद्धसत्त्वानां कुले कन्याप्ररोहणम्
मातुः कुलं पितृकुलं यत्र चैव प्रदीयते
कुलत्रयं संशयितं कुरुते कन्यका सताम्
देवमानुषलोकौ द्वौ मानसेनैव चक्षुषा
अवगाह्यैव विचितौ न च मे रोचते वरः
न देवान्नैव दितिजान्न गन्धर्वान्न मानुषान्
अरोचयं वरकृते तथैव बहुलानृषीन्
भार्यया तु स संमन्त्र्य सह रात्रौ सुधर्मया
मातलिर्नागलोकाय चकार गमने मतिम्
न मे देवमनुष्येषु गुणकेश्याः समो वरः
रूपतो दृश्यते कश्चिन्नागेषु भविता ध्रुवम्
इत्यामन्त्र्य सुधर्मां स कृत्वा चाभिप्रदक्षिणम्
कन्यां शिरस्युपाघ्राय प्रविवेश महीतलम्