Mahabharata

Udyoga Parva, Adhyaya 94

Containing 45 sacred Sanskrit shlokas with multi-author commentaries and translations.

Mahabharata

Udyoga Parva, Adhyaya 94, Verse 1

तस्मिन्नभिहिते वाक्ये केशवेन महात्मना

स्तिमिता हृष्टरोमाण आसन्सर्वे सभासदः

Mahabharata

Udyoga Parva, Adhyaya 94, Verse 2

कः स्विदुत्तरमेतस्माद्वक्तुमुत्सहते पुमान्

इति सर्वे मनोभिस्ते चिन्तयन्ति स्म पार्थिवाः

Mahabharata

Udyoga Parva, Adhyaya 94, Verse 3

तथा तेषु च सर्वेषु तूष्णींभूतेषु राजसु

जामदग्न्य इदं वाक्यमब्रवीत्कुरुसंसदि

Mahabharata

Udyoga Parva, Adhyaya 94, Verse 4

इमामेकोपमां राजञ्शृणु सत्यामशङ्कितः

तां श्रुत्वा श्रेय आदत्स्व यदि साध्विति मन्यसे

Mahabharata

Udyoga Parva, Adhyaya 94, Verse 5

राजा दम्भोद्भवो नाम सार्वभौमः पुराभवत्

अखिलां बुभुजे सर्वां पृथिवीमिति नः श्रुतम्

Mahabharata

Udyoga Parva, Adhyaya 94, Verse 6

स स्म नित्यं निशापाये प्रातरुत्थाय वीर्यवान्

ब्राह्मणान्क्षत्रियांश्चैव पृच्छन्नास्ते महारथः

Mahabharata

Udyoga Parva, Adhyaya 94, Verse 7

अस्ति कश्चिद्विशिष्टो वा मद्विधो वा भवेद्युधि

शूद्रो वैश्यः क्षत्रियो वा ब्राह्मणो वापि शस्त्रभृत्

Mahabharata

Udyoga Parva, Adhyaya 94, Verse 8

इति ब्रुवन्नन्वचरत्स राजा पृथिवीमिमाम्

दर्पेण महता मत्तः कंचिदन्यमचिन्तयन्

Mahabharata

Udyoga Parva, Adhyaya 94, Verse 9

तं स्म वैद्या अकृपणा ब्राह्मणाः सर्वतोऽभयाः

प्रत्यषेधन्त राजानं श्लाघमानं पुनः पुनः

Mahabharata

Udyoga Parva, Adhyaya 94, Verse 10

प्रतिषिध्यमानोऽप्यसकृत्पृच्छत्येव स वै द्विजान्

अभिमानी श्रिया मत्तस्तमूचुर्ब्राह्मणास्तदा

Mahabharata

Udyoga Parva, Adhyaya 94, Verse 11

तपस्विनो महात्मानो वेदव्रतसमन्विताः

उदीर्यमाणं राजानं क्रोधदीप्ता द्विजातयः

Mahabharata

Udyoga Parva, Adhyaya 94, Verse 12

अनेकजननं सख्यं ययोः पुरुषसिंहयोः

तयोस्त्वं न समो राजन्भवितासि कदाचन

Mahabharata

Udyoga Parva, Adhyaya 94, Verse 13

एवमुक्तः स राजा तु पुनः पप्रच्छ तान्द्विजान्

क्व तौ वीरौ क्वजन्मानौ किंकर्माणौ च कौ च तौ

Mahabharata

Udyoga Parva, Adhyaya 94, Verse 14

नरो नारायणश्चैव तापसाविति नः श्रुतम्

आयातौ मानुषे लोके ताभ्यां युध्यस्व पार्थिव

Mahabharata

Udyoga Parva, Adhyaya 94, Verse 15

श्रूयते तौ महात्मानौ नरनारायणावुभौ

तपो घोरमनिर्देश्यं तप्येते गन्धमादने

Mahabharata

Udyoga Parva, Adhyaya 94, Verse 16

स राजा महतीं सेनां योजयित्वा षडङ्गिनीम्

अमृष्यमाणः संप्रायाद्यत्र तावपराजितौ

Mahabharata

Udyoga Parva, Adhyaya 94, Verse 17

स गत्वा विषमं घोरं पर्वतं गन्धमादनम्

मृगयाणोऽन्वगच्छत्तौ तापसावपराजितौ

Mahabharata

Udyoga Parva, Adhyaya 94, Verse 18

तौ दृष्ट्वा क्षुत्पिपासाभ्यां कृशौ धमनिसंततौ

शीतवातातपैश्चैव कर्शितौ पुरुषोत्तमौ

अभिगम्योपसंगृह्य पर्यपृच्छदनामयम्

Mahabharata

Udyoga Parva, Adhyaya 94, Verse 19

तमर्चित्वा मूलफलैरासनेनोदकेन च

न्यमन्त्रयेतां राजानं किं कार्यं क्रियतामिति

Mahabharata

Udyoga Parva, Adhyaya 94, Verse 20

बाहुभ्यां मे जिता भूमिर्निहताः सर्वशत्रवः

भवद्भ्यां युद्धमाकाङ्क्षन्नुपयातोऽस्मि पर्वतम्

आतिथ्यं दीयतामेतत्काङ्क्षितं मे चिरं प्रति

Mahabharata

Udyoga Parva, Adhyaya 94, Verse 21

अपेतक्रोधलोभोऽयमाश्रमो राजसत्तम

न ह्यस्मिन्नाश्रमे युद्धं कुतः शस्त्रं कुतोऽनृजुः

अन्यत्र युद्धमाकाङ्क्ष्व बहवः क्षत्रियाः क्षितौ

Mahabharata

Udyoga Parva, Adhyaya 94, Verse 22

उच्यमानस्तथापि स्म भूय एवाभ्यभाषत

पुनः पुनः क्षम्यमाणः सान्त्व्यमानश्च भारत

दम्भोद्भवो युद्धमिच्छन्नाह्वयत्येव तापसौ

Mahabharata

Udyoga Parva, Adhyaya 94, Verse 23

ततो नरस्त्विषीकाणां मुष्टिमादाय कौरव

अब्रवीदेहि युध्यस्व युद्धकामुक क्षत्रिय

Mahabharata

Udyoga Parva, Adhyaya 94, Verse 24

सर्वशस्त्राणि चादत्स्व योजयस्व च वाहिनीम्

अहं हि ते विनेष्यामि युद्धश्रद्धामितः परम्

Mahabharata

Udyoga Parva, Adhyaya 94, Verse 25

यद्येतदस्त्रमस्मासु युक्तं तापस मन्यसे

एतेनापि त्वया योत्स्ये युद्धार्थी ह्यहमागतः

Mahabharata

Udyoga Parva, Adhyaya 94, Verse 26

इत्युक्त्वा शरवर्षेण सर्वतः समवाकिरत्

दम्भोद्भवस्तापसं तं जिघांसुः सहसैनिकः

Mahabharata

Udyoga Parva, Adhyaya 94, Verse 27

तस्य तानस्यतो घोरानिषून्परतनुच्छिदः

कदर्थीकृत्य स मुनिरिषीकाभिरपानुदत्

Mahabharata

Udyoga Parva, Adhyaya 94, Verse 28

ततोऽस्मै प्रासृजद्घोरमैषीकमपराजितः

अस्त्रमप्रतिसंधेयं तदद्भुतमिवाभवत्

Mahabharata

Udyoga Parva, Adhyaya 94, Verse 29

तेषामक्षीणि कर्णांश्च नस्तकांश्चैव मायया

निमित्तवेधी स मुनिरिषीकाभिः समर्पयत्

Mahabharata

Udyoga Parva, Adhyaya 94, Verse 30

स दृष्ट्वा श्वेतमाकाशमिषीकाभिः समाचितम्

पादयोर्न्यपतद्राजा स्वस्ति मेऽस्त्विति चाब्रवीत्