Udyoga Parva, Adhyaya 93, Verse 1
तेष्वासीनेषु सर्वेषु तूष्णींभूतेषु राजसु
वाक्यमभ्याददे कृष्णः सुदंष्ट्रो दुन्दुभिस्वनः
Containing 62 sacred Sanskrit shlokas with multi-author commentaries and translations.
तेष्वासीनेषु सर्वेषु तूष्णींभूतेषु राजसु
वाक्यमभ्याददे कृष्णः सुदंष्ट्रो दुन्दुभिस्वनः
जीमूत इव घर्मान्ते सर्वां संश्रावयन्सभाम्
धृतराष्ट्रमभिप्रेक्ष्य समभाषत माधवः
कुरूणां पाण्डवानां च शमः स्यादिति भारत
अप्रयत्नेन वीराणामेतद्यतितुमागतः
राजन्नान्यत्प्रवक्तव्यं तव निःश्रेयसं वचः
विदितं ह्येव ते सर्वं वेदितव्यमरिंदम
इदमद्य कुलं श्रेष्ठं सर्वराजसु पार्थिव
श्रुतवृत्तोपसंपन्नं सर्वैः समुदितं गुणैः
कृपानुकम्पा कारुण्यमानृशंस्यं च भारत
तथार्जवं क्षमा सत्यं कुरुष्वेतद्विशिष्यते
तस्मिन्नेवंविधे राजन्कुले महति तिष्ठति
त्वन्निमित्तं विशेषेण नेह युक्तमसांप्रतम्
त्वं हि वारयिता श्रेष्ठः कुरूणां कुरुसत्तम
मिथ्या प्रचरतां तात बाह्येष्वाभ्यन्तरेषु च
ते पुत्रास्तव कौरव्य दुर्योधनपुरोगमाः
धर्मार्थौ पृष्ठतः कृत्वा प्रचरन्ति नृशंसवत्
अशिष्टा गतमर्यादा लोभेन हृतचेतसः
स्वेषु बन्धुषु मुख्येषु तद्वेत्थ भरतर्षभ
सेयमापन्महाघोरा कुरुष्वेव समुत्थिता
उपेक्ष्यमाणा कौरव्य पृथिवीं घातयिष्यति
शक्या चेयं शमयितुं त्वं चेदिच्छसि भारत
न दुष्करो ह्यत्र शमो मतो मे भरतर्षभ
त्वय्यधीनः शमो राजन्मयि चैव विशां पते
पुत्रान्स्थापय कौरव्य स्थापयिष्याम्यहं परान्
आज्ञा तव हि राजेन्द्र कार्या पुत्रैः सहान्वयैः
हितं बलवदप्येषां तिष्ठतां तव शासने
तव चैव हितं राजन्पाण्डवानामथो हितम्
शमे प्रयतमानस्य मम शासनकाङ्क्षिणाम्
स्वयं निष्कलमालक्ष्य संविधत्स्व विशां पते
सहभूतास्तु भरतास्तवैव स्युर्जनेश्वर
धर्मार्थयोस्तिष्ठ राजन्पाण्डवैरभिरक्षितः
न हि शक्यास्तथाभूता यत्नादपि नराधिप
न हि त्वां पाण्डवैर्जेतुं रक्ष्यमाणं महात्मभिः
इन्द्रोऽपि देवैः सहितः प्रसहेत कुतो नृपाः
यत्र भीष्मश्च द्रोणश्च कृपः कर्णो विविंशतिः
अश्वत्थामा विकर्णश्च सोमदत्तोऽथ बाह्लिकः
सैन्धवश्च कलिङ्गश्च काम्बोजश्च सुदक्षिणः
युधिष्ठिरो भीमसेनः सव्यसाची यमौ तथा
सात्यकिश्च महातेजा युयुत्सुश्च महारथः
को नु तान्विपरीतात्मा युध्येत भरतर्षभ
लोकस्येश्वरतां भूयः शत्रुभिश्चाप्रधृष्यताम्
प्राप्स्यसि त्वममित्रघ्न सहितः कुरुपाण्डवैः
तस्य ते पृथिवीपालास्त्वत्समाः पृथिवीपते
श्रेयांसश्चैव राजानः संधास्यन्ते परंतप
स त्वं पुत्रैश्च पौत्रैश्च भ्रातृभिः पितृभिस्तथा
सुहृद्भिः सर्वतो गुप्तः सुखं शक्ष्यसि जीवितुम्
एतानेव पुरोधाय सत्कृत्य च यथा पुरा
अखिलां भोक्ष्यसे सर्वां पृथिवीं पृथिवीपते
एतैर्हि सहितः सर्वैः पाण्डवैः स्वैश्च भारत
अन्यान्विजेष्यसे शत्रूनेष स्वार्थस्तवाखिलः
तैरेवोपार्जितां भूमिं भोक्ष्यसे च परंतप
यदि संपत्स्यसे पुत्रैः सहामात्यैर्नराधिप
संयुगे वै महाराज दृश्यते सुमहान्क्षयः
क्षये चोभयतो राजन्कं धर्ममनुपश्यसि
पाण्डवैर्निहतैः संख्ये पुत्रैर्वापि महाबलैः
यद्विन्देथाः सुखं राजंस्तद्ब्रूहि भरतर्षभ
शूराश्च हि कृतास्त्राश्च सर्वे युद्धाभिकाङ्क्षिणः
पाण्डवास्तावकाश्चैव तान्रक्ष महतो भयात्