Mahabharata

Udyoga Parva, Adhyaya 92

Containing 53 sacred Sanskrit shlokas with multi-author commentaries and translations.

Mahabharata

Udyoga Parva, Adhyaya 92, Verse 1

तथा कथयतोरेव तयोर्बुद्धिमतोस्तदा

शिवा नक्षत्रसंपन्ना सा व्यतीयाय शर्वरी

Mahabharata

Udyoga Parva, Adhyaya 92, Verse 2

धर्मार्थकामयुक्ताश्च विचित्रार्थपदाक्षराः

शृण्वतो विविधा वाचो विदुरस्य महात्मनः

Mahabharata

Udyoga Parva, Adhyaya 92, Verse 3

कथाभिरनुरूपाभिः कृष्णस्यामिततेजसः

अकामस्येव कृष्णस्य सा व्यतीयाय शर्वरी

Mahabharata

Udyoga Parva, Adhyaya 92, Verse 4

ततस्तु स्वरसंपन्ना बहवः सूतमागधाः

शङ्खदुन्दुभिनिर्घोषैः केशवं प्रत्यबोधयन्

Mahabharata

Udyoga Parva, Adhyaya 92, Verse 5

तत उत्थाय दाशार्ह ऋषभः सर्वसात्वताम्

सर्वमावश्यकं चक्रे प्रातःकार्यं जनार्दनः

Mahabharata

Udyoga Parva, Adhyaya 92, Verse 6

कृतोदकार्यजप्यः स हुताग्निः समलंकृतः

तत आदित्यमुद्यन्तमुपातिष्ठत माधवः

Mahabharata

Udyoga Parva, Adhyaya 92, Verse 7

अथ दुर्योधनः कृष्णं शकुनिश्चापि सौबलः

संध्यां तिष्ठन्तमभ्येत्य दाशार्हमपराजितम्

Mahabharata

Udyoga Parva, Adhyaya 92, Verse 8

आचक्षेतां तु कृष्णस्य धृतराष्ट्रं सभागतम्

कुरूंश्च भीष्मप्रमुखान्राज्ञः सर्वांश्च पार्थिवान्

Mahabharata

Udyoga Parva, Adhyaya 92, Verse 9

त्वामर्थयन्ते गोविन्द दिवि शक्रमिवामराः

तावभ्यनन्दद्गोविन्दः साम्ना परमवल्गुना

Mahabharata

Udyoga Parva, Adhyaya 92, Verse 10

ततो विमल आदित्ये ब्राह्मणेभ्यो जनार्दनः

ददौ हिरण्यं वासांसि गाश्चाश्वांश्च परंतपः

Mahabharata

Udyoga Parva, Adhyaya 92, Verse 11

विसृष्टवन्तं रत्नानि दाशार्हमपराजितम्

तिष्ठन्तमुपसंगम्य ववन्दे सारथिस्तदा

Mahabharata

Udyoga Parva, Adhyaya 92, Verse 12

तमुपस्थितमाज्ञाय रथं दिव्यं महामनाः

महाभ्रघननिर्घोषं सर्वरत्नविभूषितम्

Mahabharata

Udyoga Parva, Adhyaya 92, Verse 13

अग्निं प्रदक्षिणं कृत्वा ब्राह्मणांश्च जनार्दनः

कौस्तुभं मणिमामुच्य श्रिया परमया ज्वलन्

Mahabharata

Udyoga Parva, Adhyaya 92, Verse 14

कुरुभिः संवृतः कृष्णो वृष्णिभिश्चाभिरक्षितः

आतिष्ठत रथं शौरिः सर्वयादवनन्दनः

Mahabharata

Udyoga Parva, Adhyaya 92, Verse 15

अन्वारुरोह दाशार्हं विदुरः सर्वधर्मवित्

सर्वप्राणभृतां श्रेष्ठं सर्वधर्मभृतां वरम्

Mahabharata

Udyoga Parva, Adhyaya 92, Verse 16

ततो दुर्योधनः कृष्णं शकुनिश्चापि सौबलः

द्वितीयेन रथेनैनमन्वयातां परंतपम्

Mahabharata

Udyoga Parva, Adhyaya 92, Verse 17

सात्यकिः कृतवर्मा च वृष्णीनां च महारथाः

पृष्ठतोऽनुययुः कृष्णं रथैरश्वैर्गजैरपि

Mahabharata

Udyoga Parva, Adhyaya 92, Verse 18

तेषां हेमपरिष्कारा युक्ताः परमवाजिभिः

गच्छतां घोषिणश्चित्राश्चारु बभ्राजिरे रथाः

Mahabharata

Udyoga Parva, Adhyaya 92, Verse 19

संमृष्टसंसिक्तरजः प्रतिपेदे महापथम्

राजर्षिचरितं काले कृष्णो धीमाञ्श्रिया ज्वलन्

Mahabharata

Udyoga Parva, Adhyaya 92, Verse 20

ततः प्रयाते दाशार्हे प्रावाद्यन्तैकपुष्कराः

शङ्खाश्च दध्मिरे तत्र वाद्यान्यन्यानि यानि च

Mahabharata

Udyoga Parva, Adhyaya 92, Verse 21

प्रवीराः सर्वलोकस्य युवानः सिंहविक्रमाः

परिवार्य रथं शौरेरगच्छन्त परंतपाः

Mahabharata

Udyoga Parva, Adhyaya 92, Verse 22

ततोऽन्ये बहुसाहस्रा विचित्राद्भुतवाससः

असिप्रासायुधधराः कृष्णस्यासन्पुरःसराः

Mahabharata

Udyoga Parva, Adhyaya 92, Verse 23

गजाः परःशतास्तत्र वराश्चाश्वाः सहस्रशः

प्रयान्तमन्वयुर्वीरं दाशार्हमपराजितम्

Mahabharata

Udyoga Parva, Adhyaya 92, Verse 24

पुरं कुरूणां संवृत्तं द्रष्टुकामं जनार्दनम्

सवृद्धबालं सस्त्रीकं रथ्यागतमरिंदमम्

Mahabharata

Udyoga Parva, Adhyaya 92, Verse 25

वेदिकापाश्रिताभिश्च समाक्रान्तान्यनेकशः

प्रचलन्तीव भारेण योषिद्भिर्भवनान्युत

Mahabharata

Udyoga Parva, Adhyaya 92, Verse 26

संपूज्यमानः कुरुभिः संशृण्वन्विविधाः कथाः

यथार्हं प्रतिसत्कुर्वन्प्रेक्षमाणः शनैर्ययौ

Mahabharata

Udyoga Parva, Adhyaya 92, Verse 27

ततः सभां समासाद्य केशवस्यानुयायिनः

सशङ्खैर्वेणुनिर्घोषैर्दिशः सर्वा व्यनादयन्

Mahabharata

Udyoga Parva, Adhyaya 92, Verse 28

ततः सा समितिः सर्वा राज्ञाममिततेजसाम्

संप्राकम्पत हर्षेण कृष्णागमनकाङ्क्षया

Mahabharata

Udyoga Parva, Adhyaya 92, Verse 29

ततोऽभ्याशगते कृष्णे समहृष्यन्नराधिपाः

श्रुत्वा तं रथनिर्घोषं पर्जन्यनिनदोपमम्

Mahabharata

Udyoga Parva, Adhyaya 92, Verse 30

आसाद्य तु सभाद्वारमृषभः सर्वसात्वताम्

अवतीर्य रथाच्छौरिः कैलासशिखरोपमात्