Udyoga Parva, Adhyaya 91, Verse 1
यथा ब्रूयान्महाप्राज्ञो यथा ब्रूयाद्विचक्षणः
यथा वाच्यस्त्वद्विधेन सुहृदा मद्विधः सुहृत्
Containing 22 sacred Sanskrit shlokas with multi-author commentaries and translations.
यथा ब्रूयान्महाप्राज्ञो यथा ब्रूयाद्विचक्षणः
यथा वाच्यस्त्वद्विधेन सुहृदा मद्विधः सुहृत्
धर्मार्थयुक्तं तथ्यं च यथा त्वय्युपपद्यते
तथा वचनमुक्तोऽस्मि त्वयैतत्पितृमातृवत्
सत्यं प्राप्तं च युक्तं चाप्येवमेव यथात्थ माम्
शृणुष्वागमने हेतुं विदुरावहितो भव
दौरात्म्यं धार्तराष्ट्रस्य क्षत्रियाणां च वैरिताम्
सर्वमेतदहं जानन्क्षत्तः प्राप्तोऽद्य कौरवान्
पर्यस्तां पृथिवीं सर्वां साश्वां सरथकुञ्जराम्
यो मोचयेन्मृत्युपाशात्प्राप्नुयाद्धर्ममुत्तमम्
धर्मकार्यं यतञ्शक्त्या न चेच्छक्नोति मानवः
प्राप्तो भवति तत्पुण्यमत्र मे नास्ति संशयः
मनसा चिन्तयन्पापं कर्मणा नाभिरोचयन्
न प्राप्नोति फलं तस्य एवं धर्मविदो विदुः
सोऽहं यतिष्ये प्रशमं क्षत्तः कर्तुममायया
कुरूणां सृञ्जयानां च संग्रामे विनशिष्यताम्
सेयमापन्महाघोरा कुरुष्वेव समुत्थिता
कर्णदुर्योधनकृता सर्वे ह्येते तदन्वयाः
व्यसनैः क्लिश्यमानं हि यो मित्रं नाभिपद्यते
अनुनीय यथाशक्ति तं नृशंसं विदुर्बुधाः
आ केशग्रहणान्मित्रमकार्यात्संनिवर्तयन्
अवाच्यः कस्यचिद्भवति कृतयत्नो यथाबलम्
तत्समर्थं शुभं वाक्यं धर्मार्थसहितं हितम्
धार्तराष्ट्रः सहामात्यो ग्रहीतुं विदुरार्हति
हितं हि धार्तराष्ट्राणां पाण्डवानां तथैव च
पृथिव्यां क्षत्रियाणां च यतिष्येऽहममायया
हिते प्रयतमानं मां शङ्केद्दुर्योधनो यदि
हृदयस्य च मे प्रीतिरानृण्यं च भविष्यति
ज्ञातीनां हि मिथो भेदे यन्मित्रं नाभिपद्यते
सर्वयत्नेन मध्यस्थं न तन्मित्रं विदुर्बुधाः
न मां ब्रूयुरधर्मज्ञा मूढा असुहृदस्तथा
शक्तो नावारयत्कृष्णः संरब्धान्कुरुपाण्डवान्
उभयोः साधयन्नर्थमहमागत इत्युत
तत्र यत्नमहं कृत्वा गच्छेयं नृष्ववाच्यताम्
मम धर्मार्थयुक्तं हि श्रुत्वा वाक्यमनामयम्
न चेदादास्यते बालो दिष्टस्य वशमेष्यति
अहापयन्पाण्डवार्थं यथाव;च्छमं कुरूणां यदि चाचरेयम्
पुण्यं च मे स्याच्चरितं महार्थं; मुच्येरंश्च कुरवो मृत्युपाशात्
अपि वाचं भाषमाणस्य काव्यां; धर्मारामामर्थवतीमहिंस्राम्
अवेक्षेरन्धार्तराष्ट्राः समर्थां; मां च प्राप्तं कुरवः पूजयेयुः
न चापि मम पर्याप्ताः सहिताः सर्वपार्थिवाः
क्रुद्धस्य प्रमुखे स्थातुं सिंहस्येवेतरे मृगाः
इत्येवमुक्त्वा वचनं वृष्णीनामृषभस्तदा
शयने सुखसंस्पर्शे शिश्ये यदुसुखावहः