Udyoga Parva, Adhyaya 90, Verse 1
तं भुक्तवन्तमाश्वस्तं निशायां विदुरोऽब्रवीत्
नेदं सम्यग्व्यवसितं केशवागमनं तव
Containing 28 sacred Sanskrit shlokas with multi-author commentaries and translations.
तं भुक्तवन्तमाश्वस्तं निशायां विदुरोऽब्रवीत्
नेदं सम्यग्व्यवसितं केशवागमनं तव
अर्थधर्मातिगो मूढः संरम्भी च जनार्दन
मानघ्नो मानकामश्च वृद्धानां शासनातिगः
धर्मशास्त्रातिगो मन्दो दुरात्मा प्रग्रहं गतः
अनेयः श्रेयसां पापो धार्तराष्ट्रो जनार्दन
कामात्मा प्राज्ञमानी च मित्रध्रुक्सर्वशङ्कितः
अकर्ता चाकृतज्ञश्च त्यक्तधर्मः प्रियानृतः
एतैश्चान्यैश्च बहुभिर्दोषैरेष समन्वितः
त्वयोच्यमानः श्रेयोऽपि संरम्भान्न ग्रहीष्यति
सेनासमुदयं दृष्ट्वा पार्थिवं मधुसूदन
कृतार्थं मन्यते बाल आत्मानमविचक्षणः
एकः कर्णः पराञ्जेतुं समर्थ इति निश्चितम्
धार्तराष्ट्रस्य दुर्बुद्धेः स शमं नोपयास्यति
भीष्मे द्रोणे कृपे कर्णे द्रोणपुत्रे जयद्रथे
भूयसीं वर्तते वृत्तिं न शमे कुरुते मनः
निश्चितं धार्तराष्ट्राणां सकर्णानां जनार्दन
भीष्मद्रोणकृपान्पार्था न शक्ताः प्रतिवीक्षितुम्
संविच्च धार्तराष्ट्राणां सर्वेषामेव केशव
शमे प्रयतमानस्य तव सौभ्रात्रकाङ्क्षिणः
न पाण्डवानामस्माभिः प्रतिदेयं यथोचितम्
इति व्यवसितास्तेषु वचनं स्यान्निरर्थकम्
यत्र सूक्तं दुरुक्तं च समं स्यान्मधुसूदन
न तत्र प्रलपेत्प्राज्ञो बधिरेष्विव गायनः
अविजानत्सु मूढेषु निर्मर्यादेषु माधव
न त्वं वाक्यं ब्रुवन्युक्तश्चाण्डालेषु द्विजो यथा
सोऽयं बलस्थो मूढश्च न करिष्यति ते वचः
तस्मिन्निरर्थकं वाक्यमुक्तं संपत्स्यते तव
तेषां समुपविष्टानां सर्वेषां पापचेतसाम्
तव मध्यावतरणं मम कृष्ण न रोचते
दुर्बुद्धीनामशिष्टानां बहूनां पापचेतसाम्
प्रतीपं वचनं मध्ये तव कृष्ण न रोचते
अनुपासितवृद्धत्वाच्छ्रिया मोहाच्च दर्पितः
वयोदर्पादमर्षाच्च न ते श्रेयो ग्रहीष्यति
बलं बलवदप्यस्य यदि वक्ष्यसि माधव
त्वय्यस्य महती शङ्का न करिष्यति ते वचः
नेदमद्य युधा शक्यमिन्द्रेणापि सहामरैः
इति व्यवसिताः सर्वे धार्तराष्ट्रा जनार्दन
तेष्वेवमुपपन्नेषु कामक्रोधानुवर्तिषु
समर्थमपि ते वाक्यमसमर्थं भविष्यति
मध्ये तिष्ठन्हस्त्यनीकस्य मन्दो; रथाश्वयुक्तस्य बलस्य मूढः
दुर्योधनो मन्यते वीतमन्युः; कृत्स्ना मयेयं पृथिवी जितेति
आशंसते धृतराष्ट्रस्य पुत्रो; महाराज्यमसपत्नं पृथिव्याम्
तस्मिञ्शमः केवलो नोपलभ्यो; बद्धं सन्तमागतं मन्यतेऽर्थम्
पर्यस्तेयं पृथिवी कालपक्वा; दुर्योधनार्थे पाण्डवान्योद्धुकामाः
समागताः सर्वयोधाः पृथिव्यां; राजानश्च क्षितिपालैः समेताः
सर्वे चैते कृतवैराः पुरस्ता;त्त्वया राजानो हृतसाराश्च कृष्ण
तवोद्वेगात्संश्रिता धार्तराष्ट्रा;न्सुसंहताः सह कर्णेन वीराः
त्यक्तात्मानः सह दुर्योधनेन; सृष्टा योद्धुं पाण्डवान्सर्वयोधाः
तेषां मध्ये प्रविशेथा यदि त्वं; न तन्मतं मम दाशार्ह वीर
तेषां समुपविष्टानां बहूनां दुष्टचेतसाम्
कथं मध्यं प्रपद्येथाः शत्रूणां शत्रुकर्शन
सर्वथा त्वं महाबाहो देवैरपि दुरुत्सहः
प्रभावं पौरुषं बुद्धिं जानामि तव शत्रुहन्
या मे प्रीतिः पाण्डवेषु भूयः सा त्वयि माधव
प्रेम्णा च बहुमानाच्च सौहृदाच्च ब्रवीम्यहम्