Udyoga Parva, Adhyaya 89, Verse 1
पृथामामन्त्र्य गोविन्दः कृत्वा चापि प्रदक्षिणम्
दुर्योधनगृहं शौरिरभ्यगच्छदरिंदमः
Containing 41 sacred Sanskrit shlokas with multi-author commentaries and translations.
पृथामामन्त्र्य गोविन्दः कृत्वा चापि प्रदक्षिणम्
दुर्योधनगृहं शौरिरभ्यगच्छदरिंदमः
लक्ष्म्या परमया युक्तं पुरंदरगृहोपमम्
तस्य कक्ष्या व्यतिक्रम्य तिस्रो द्वाःस्थैरवारितः
ततोऽभ्रघनसंकाशं गिरिकूटमिवोच्छ्रितम्
श्रिया ज्वलन्तं प्रासादमारुरोह महायशाः
तत्र राजसहस्रैश्च कुरुभिश्चाभिसंवृतम्
धार्तराष्ट्रं महाबाहुं ददर्शासीनमासने
दुःशासनं च कर्णं च शकुनिं चापि सौबलम्
दुर्योधनसमीपे तानासनस्थान्ददर्श सः
अभ्यागच्छति दाशार्हे धार्तराष्ट्रो महायशाः
उदतिष्ठत्सहामात्यः पूजयन्मधुसूदनम्
समेत्य धार्तराष्ट्रेण सहामात्येन केशवः
राजभिस्तत्र वार्ष्णेयः समागच्छद्यथावयः
तत्र जाम्बूनदमयं पर्यङ्कं सुपरिष्कृतम्
विविधास्तरणास्तीर्णमभ्युपाविशदच्युतः
तस्मिन्गां मधुपर्कं च उपहृत्य जनार्दने
निवेदयामास तदा गृहान्राज्यं च कौरवः
तत्र गोविन्दमासीनं प्रसन्नादित्यवर्चसम्
उपासां चक्रिरे सर्वे कुरवो राजभिः सह
ततो दुर्योधनो राजा वार्ष्णेयं जयतां वरम्
न्यमन्त्रयद्भोजनेन नाभ्यनन्दच्च केशवः
ततो दुर्योधनः कृष्णमब्रवीद्राजसंसदि
मृदुपूर्वं शठोदर्कं कर्णमाभाष्य कौरवः
कस्मादन्नानि पानानि वासांसि शयनानि च
त्वदर्थमुपनीतानि नाग्रहीस्त्वं जनार्दन
उभयोश्चाददः साह्यमुभयोश्च हिते रतः
संबन्धी दयितश्चासि धृतराष्ट्रस्य माधव
त्वं हि गोविन्द धर्मार्थौ वेत्थ तत्त्वेन सर्वशः
तत्र कारणमिच्छामि श्रोतुं चक्रगदाधर
स एवमुक्तो गोविन्दः प्रत्युवाच महामनाः
ओघमेघस्वनः काले प्रगृह्य विपुलं भुजम्
अनम्बूकृतमग्रस्तमनिरस्तमसंकुलम्
राजीवनेत्रो राजानं हेतुमद्वाक्यमुत्तमम्
कृतार्था भुञ्जते दूताः पूजां गृह्णन्ति चैव हि
कृतार्थं मां सहामात्यस्त्वमर्चिष्यसि भारत
एवमुक्तः प्रत्युवाच धार्तराष्ट्रो जनार्दनम्
न युक्तं भवतास्मासु प्रतिपत्तुमसांप्रतम्
कृतार्थं चाकृतार्थं च त्वां वयं मधुसूदन
यतामहे पूजयितुं गोविन्द न च शक्नुमः
न च तत्कारणं विद्मो यस्मिन्नो मधुसूदन
पूजां कृतां प्रीयमाणैर्नामंस्थाः पुरुषोत्तम
वैरं नो नास्ति भवता गोविन्द न च विग्रहः
स भवान्प्रसमीक्ष्यैतन्नेदृशं वक्तुमर्हति
एवमुक्तः प्रत्युवाच धार्तराष्ट्रं जनार्दनः
अभिवीक्ष्य सहामात्यं दाशार्हः प्रहसन्निव
नाहं कामान्न संरम्भान्न द्वेषान्नार्थकारणात्
न हेतुवादाल्लोभाद्वा धर्मं जह्यां कथंचन
संप्रीतिभोज्यान्यन्नानि आपद्भोज्यानि वा पुनः
न च संप्रीयसे राजन्न चाप्यापद्गता वयम्
अकस्माद्द्विषसे राजञ्जन्मप्रभृति पाण्डवान्
प्रियानुवर्तिनो भ्रातॄन्सर्वैः समुदितान्गुणैः
अकस्माच्चैव पार्थानां द्वेषणं नोपपद्यते
धर्मे स्थिताः पाण्डवेयाः कस्तान्किं वक्तुमर्हति
यस्तान्द्वेष्टि स मां द्वेष्टि यस्ताननु स मामनु
ऐकात्म्यं मां गतं विद्धि पाण्डवैर्धर्मचारिभिः
कामक्रोधानुवर्ती हि यो मोहाद्विरुरुत्सते
गुणवन्तं च यो द्वेष्टि तमाहुः पुरुषाधमम्
यः कल्याणगुणाञ्ज्ञातीन्मोहाल्लोभाद्दिदृक्षते
सोऽजितात्माजितक्रोधो न चिरं तिष्ठति श्रियम्