Mahabharata

Udyoga Parva, Adhyaya 88

Containing 104 sacred Sanskrit shlokas with multi-author commentaries and translations.

Mahabharata

Udyoga Parva, Adhyaya 88, Verse 1

अथोपगम्य विदुरमपराह्णे जनार्दनः

पितृष्वसारं गोविन्दः सोऽभ्यगच्छदरिंदमः

Mahabharata

Udyoga Parva, Adhyaya 88, Verse 2

सा दृष्ट्वा कृष्णमायान्तं प्रसन्नादित्यवर्चसम्

कण्ठे गृहीत्वा प्राक्रोशत्पृथा पार्थाननुस्मरन्

Mahabharata

Udyoga Parva, Adhyaya 88, Verse 3

तेषां सत्त्ववतां मध्ये गोविन्दं सहचारिणम्

चिरस्य दृष्ट्वा वार्ष्णेयं बाष्पमाहारयत्पृथा

Mahabharata

Udyoga Parva, Adhyaya 88, Verse 4

साब्रवीत्कृष्णमासीनं कृतातिथ्यं युधां पतिम्

बाष्पगद्गदपूर्णेन मुखेन परिशुष्यता

Mahabharata

Udyoga Parva, Adhyaya 88, Verse 5

ये ते बाल्यात्प्रभृत्येव गुरुशुश्रूषणे रताः

परस्परस्य सुहृदः संमताः समचेतसः

Mahabharata

Udyoga Parva, Adhyaya 88, Verse 6

निकृत्या भ्रंशिता राज्याज्जनार्हा निर्जनं गताः

विनीतक्रोधहर्षाश्च ब्रह्मण्याः सत्यवादिनः

Mahabharata

Udyoga Parva, Adhyaya 88, Verse 7

त्यक्त्वा प्रियसुखे पार्था रुदन्तीमपहाय माम्

अहार्षुश्च वनं यान्तः समूलं हृदयं मम

Mahabharata

Udyoga Parva, Adhyaya 88, Verse 8

अतदर्हा महात्मानः कथं केशव पाण्डवाः

ऊषुर्महावने तात सिंहव्याघ्रगजाकुले

Mahabharata

Udyoga Parva, Adhyaya 88, Verse 9

बाला विहीनाः पित्रा ते मया सततलालिताः

अपश्यन्तः स्वपितरौ कथमूषुर्महावने

Mahabharata

Udyoga Parva, Adhyaya 88, Verse 10

शङ्खदुन्दुभिनिर्घोषैर्मृदङ्गैर्वैणवैरपि

पाण्डवाः समबोध्यन्त बाल्यात्प्रभृति केशव

Mahabharata

Udyoga Parva, Adhyaya 88, Verse 11

ये स्म वारणशब्देन हयानां हेषितेन च

रथनेमिनिनादैश्च व्यबोध्यन्त सदा गृहे

Mahabharata

Udyoga Parva, Adhyaya 88, Verse 12

शङ्खभेरीनिनादेन वेणुवीणानुनादिना

पुण्याहघोषमिश्रेण पूज्यमाना द्विजातिभिः

Mahabharata

Udyoga Parva, Adhyaya 88, Verse 13

वस्त्रै रत्नैरलंकारैः पूजयन्तो द्विजन्मनः

गीर्भिर्मङ्गलयुक्ताभिर्ब्राह्मणानां महात्मनाम्

Mahabharata

Udyoga Parva, Adhyaya 88, Verse 14

अर्चितैरर्चनार्हैश्च स्तुवद्भिरभिनन्दिताः

प्रासादाग्रेष्वबोध्यन्त राङ्कवाजिनशायिनः

Mahabharata

Udyoga Parva, Adhyaya 88, Verse 15

ते नूनं निनदं श्रुत्वा श्वापदानां महावने

न स्मोपयान्ति निद्रां वै अतदर्हा जनार्दन

Mahabharata

Udyoga Parva, Adhyaya 88, Verse 16

भेरीमृदङ्गनिनदैः शङ्खवैणवनिस्वनैः

स्त्रीणां गीतनिनादैश्च मधुरैर्मधुसूदन

Mahabharata

Udyoga Parva, Adhyaya 88, Verse 17

बन्दिमागधसूतैश्च स्तुवद्भिर्बोधिताः कथम्

महावने व्यबोध्यन्त श्वापदानां रुतेन ते

Mahabharata

Udyoga Parva, Adhyaya 88, Verse 18

ह्रीमान्सत्यधृतिर्दान्तो भूतानामनुकम्पिता

कामद्वेषौ वशे कृत्वा सतां वर्त्मानुवर्तते

Mahabharata

Udyoga Parva, Adhyaya 88, Verse 19

अम्बरीषस्य मान्धातुर्ययातेर्नहुषस्य च

भरतस्य दिलीपस्य शिबेरौशीनरस्य च

Mahabharata

Udyoga Parva, Adhyaya 88, Verse 20

राजर्षीणां पुराणानां धुरं धत्ते दुरुद्वहाम्

शीलवृत्तोपसंपन्नो धर्मज्ञः सत्यसंगरः

Mahabharata

Udyoga Parva, Adhyaya 88, Verse 21

राजा सर्वगुणोपेतस्त्रैलोक्यस्यापि यो भवेत्

अजातशत्रुर्धर्मात्मा शुद्धजाम्बूनदप्रभः

Mahabharata

Udyoga Parva, Adhyaya 88, Verse 22

श्रेष्ठः कुरुषु सर्वेषु धर्मतः श्रुतवृत्ततः

प्रियदर्शनो दीर्घभुजः कथं कृष्ण युधिष्ठिरः

Mahabharata

Udyoga Parva, Adhyaya 88, Verse 23

यः स नागायुतप्राणो वातरंहा वृकोदरः

अमर्षी पाण्डवो नित्यं प्रियो भ्रातुः प्रियंकरः

Mahabharata

Udyoga Parva, Adhyaya 88, Verse 24

कीचकस्य च सज्ञातेर्यो हन्ता मधुसूदन

शूरः क्रोधवशानां च हिडिम्बस्य बकस्य च

Mahabharata

Udyoga Parva, Adhyaya 88, Verse 25

पराक्रमे शक्रसमो वायुवेगसमो जवे

महेश्वरसमः क्रोधे भीमः प्रहरतां वरः

Mahabharata

Udyoga Parva, Adhyaya 88, Verse 26

क्रोधं बलममर्षं च यो निधाय परंतपः

जितात्मा पाण्डवोऽमर्षी भ्रातुस्तिष्ठति शासने

Mahabharata

Udyoga Parva, Adhyaya 88, Verse 27

तेजोराशिं महात्मानं बलौघममितौजसम्

भीमं प्रदर्शनेनापि भीमसेनं जनार्दन

तं ममाचक्ष्व वार्ष्णेय कथमद्य वृकोदरः

Mahabharata

Udyoga Parva, Adhyaya 88, Verse 28

आस्ते परिघबाहुः स मध्यमः पाण्डवोऽच्युत

अर्जुनेनार्जुनो यः स कृष्ण बाहुसहस्रिणा

द्विबाहुः स्पर्धते नित्यमतीतेनापि केशव

Mahabharata

Udyoga Parva, Adhyaya 88, Verse 29

क्षिपत्येकेन वेगेन पञ्च बाणशतानि यः

इष्वस्त्रे सदृशो राज्ञः कार्तवीर्यस्य पाण्डवः

Mahabharata

Udyoga Parva, Adhyaya 88, Verse 30

तेजसादित्यसदृशो महर्षिप्रतिमो दमे

क्षमया पृथिवीतुल्यो महेन्द्रसमविक्रमः