Mahabharata

Udyoga Parva, Adhyaya 87

Containing 26 sacred Sanskrit shlokas with multi-author commentaries and translations.

Mahabharata

Udyoga Parva, Adhyaya 87, Verse 1

प्रातरुत्थाय कृष्णस्तु कृतवान्सर्वमाह्निकम्

ब्राह्मणैरभ्यनुज्ञातः प्रययौ नगरं प्रति

Mahabharata

Udyoga Parva, Adhyaya 87, Verse 2

तं प्रयान्तं महाबाहुमनुज्ञाप्य ततो नृप

पर्यवर्तन्त ते सर्वे वृकस्थलनिवासिनः

Mahabharata

Udyoga Parva, Adhyaya 87, Verse 3

धार्तराष्ट्रास्तमायान्तं प्रत्युज्जग्मुः स्वलंकृताः

दुर्योधनमृते सर्वे भीष्मद्रोणकृपादयः

Mahabharata

Udyoga Parva, Adhyaya 87, Verse 4

पौराश्च बहुला राजन्हृषीकेशं दिदृक्षवः

यानैर्बहुविधैरन्ये पद्भिरेव तथापरे

Mahabharata

Udyoga Parva, Adhyaya 87, Verse 5

स वै पथि समागम्य भीष्मेणाक्लिष्टकर्मणा

द्रोणेन धार्तराष्ट्रैश्च तैर्वृतो नगरं ययौ

Mahabharata

Udyoga Parva, Adhyaya 87, Verse 6

कृष्णसंमाननार्थं च नगरं समलंकृतम्

बभूवू राजमार्गाश्च बहुरत्नसमाचिताः

Mahabharata

Udyoga Parva, Adhyaya 87, Verse 7

न स्म कश्चिद्गृहे राजंस्तदासीद्भरतर्षभ

न स्त्री न वृद्धो न शिशुर्वासुदेवदिदृक्षया

Mahabharata

Udyoga Parva, Adhyaya 87, Verse 8

राजमार्गे नरा न स्म संभवन्त्यवनिं गताः

तथा हि सुमहद्राजन्हृषीकेशप्रवेशने

Mahabharata

Udyoga Parva, Adhyaya 87, Verse 9

आवृतानि वरस्त्रीभिर्गृहाणि सुमहान्त्यपि

प्रचलन्तीव भारेण दृश्यन्ते स्म महीतले

Mahabharata

Udyoga Parva, Adhyaya 87, Verse 10

तथा च गतिमन्तस्ते वासुदेवस्य वाजिनः

प्रनष्टगतयोऽभूवन्राजमार्गे नरैर्वृते

Mahabharata

Udyoga Parva, Adhyaya 87, Verse 11

स गृहं धृतराष्ट्रस्य प्राविशच्छत्रुकर्शनः

पाण्डुरं पुण्डरीकाक्षः प्रासादैरुपशोभितम्

Mahabharata

Udyoga Parva, Adhyaya 87, Verse 12

तिस्रः कक्ष्या व्यतिक्रम्य केशवो राजवेश्मनः

वैचित्रवीर्यं राजानमभ्यगच्छदरिंदमः

Mahabharata

Udyoga Parva, Adhyaya 87, Verse 13

अभ्यागच्छति दाशार्हे प्रज्ञाचक्षुर्नरेश्वरः

सहैव द्रोणभीष्माभ्यामुदतिष्ठन्महायशाः

Mahabharata

Udyoga Parva, Adhyaya 87, Verse 14

कृपश्च सोमदत्तश्च महाराजश्च बाह्लिकः

आसनेभ्योऽचलन्सर्वे पूजयन्तो जनार्दनम्

Mahabharata

Udyoga Parva, Adhyaya 87, Verse 15

ततो राजानमासाद्य धृतराष्ट्रं यशस्विनम्

स भीष्मं पूजयामास वार्ष्णेयो वाग्भिरञ्जसा

Mahabharata

Udyoga Parva, Adhyaya 87, Verse 16

तेषु धर्मानुपूर्वीं तां प्रयुज्य मधुसूदनः

यथावयः समीयाय राजभिस्तत्र माधवः

Mahabharata

Udyoga Parva, Adhyaya 87, Verse 17

अथ द्रोणं सपुत्रं स बाह्लीकं च यशस्विनम्

कृपं च सोमदत्तं च समीयाय जनार्दनः

Mahabharata

Udyoga Parva, Adhyaya 87, Verse 18

तत्रासीदूर्जितं मृष्टं काञ्चनं महदासनम्

शासनाद्धृतराष्ट्रस्य तत्रोपाविशदच्युतः

Mahabharata

Udyoga Parva, Adhyaya 87, Verse 19

अथ गां मधुपर्कं चाप्युदकं च जनार्दने

उपजह्रुर्यथान्यायं धृतराष्ट्रपुरोहिताः

Mahabharata

Udyoga Parva, Adhyaya 87, Verse 20

कृतातिथ्यस्तु गोविन्दः सर्वान्परिहसन्कुरून्

आस्ते संबन्धकं कुर्वन्कुरुभिः परिवारितः

Mahabharata

Udyoga Parva, Adhyaya 87, Verse 21

सोऽर्चितो धृतराष्ट्रेण पूजितश्च महायशाः

राजानं समनुज्ञाप्य निराक्रामदरिंदमः

Mahabharata

Udyoga Parva, Adhyaya 87, Verse 22

तैः समेत्य यथान्यायं कुरुभिः कुरुसंसदि

विदुरावसथं रम्यमुपातिष्ठत माधवः

Mahabharata

Udyoga Parva, Adhyaya 87, Verse 23

विदुरः सर्वकल्याणैरभिगम्य जनार्दनम्

अर्चयामास दाशार्हं सर्वकामैरुपस्थितम्

Mahabharata

Udyoga Parva, Adhyaya 87, Verse 24

कृतातिथ्यं तु गोविन्दं विदुरः सर्वधर्मवित्

कुशलं पाण्डुपुत्राणामपृच्छन्मधुसूदनम्

Mahabharata

Udyoga Parva, Adhyaya 87, Verse 25

प्रीयमाणस्य सुहृदो विदुषो बुद्धिसत्तमः

धर्मनित्यस्य च तदा गतदोषस्य धीमतः

Mahabharata

Udyoga Parva, Adhyaya 87, Verse 26

तस्य सर्वं सविस्तारं पाण्डवानां विचेष्टितम्

क्षत्तुराचष्ट दाशार्हः सर्वप्रत्यक्षदर्शिवान्