Udyoga Parva, Adhyaya 86, Verse 1
यदाह विदुरः कृष्णे सर्वं तत्सत्यमुच्यते
अनुरक्तो ह्यसंहार्यः पार्थान्प्रति जनार्दनः
Containing 23 sacred Sanskrit shlokas with multi-author commentaries and translations.
यदाह विदुरः कृष्णे सर्वं तत्सत्यमुच्यते
अनुरक्तो ह्यसंहार्यः पार्थान्प्रति जनार्दनः
यत्तु सत्कारसंयुक्तं देयं वसु जनार्दने
अनेकरूपं राजेन्द्र न तद्देयं कदाचन
देशः कालस्तथायुक्तो न हि नार्हति केशवः
मंस्यत्यधोक्षजो राजन्भयादर्चति मामिति
अवमानश्च यत्र स्यात्क्षत्रियस्य विशां पते
न तत्कुर्याद्बुधः कार्यमिति मे निश्चिता मतिः
स हि पूज्यतमो देवः कृष्णः कमललोचनः
त्रयाणामपि लोकानां विदितं मम सर्वथा
न तु तस्मिन्प्रदेयं स्यात्तथा कार्यगतिः प्रभो
विग्रहः समुपारब्धो न हि शाम्यत्यविग्रहात्
तस्य तद्वचनं श्रुत्वा भीष्मः कुरुपितामहः
वैचित्रवीर्यं राजानमिदं वचनमब्रवीत्
सत्कृतोऽसत्कृतो वापि न क्रुध्येत जनार्दनः
नालमन्यमवज्ञातुमवज्ञातोऽपि केशवः
यत्तु कार्यं महाबाहो मनसा कार्यतां गतम्
सर्वोपायैर्न तच्छक्यं केनचित्कर्तुमन्यथा
स यद्ब्रूयान्महाबाहुस्तत्कार्यमविशङ्कया
वासुदेवेन तीर्थेन क्षिप्रं संशाम्य पाण्डवैः
धर्म्यमर्थ्यं स धर्मात्मा ध्रुवं वक्ता जनार्दनः
तस्मिन्वाच्याः प्रिया वाचो भवता बान्धवैः सह
न पर्यायोऽस्ति यद्राजञ्श्रियं निष्केवलामहम्
तैः सहेमामुपाश्नीयां जीवञ्जीवैः पितामह
इदं तु सुमहत्कार्यं शृणु मे यत्समर्थितम्
परायणं पाण्डवानां नियंस्यामि जनार्दनम्
तस्मिन्बद्धे भविष्यन्ति वृष्णयः पृथिवी तथा
पाण्डवाश्च विधेया मे स च प्रातरिहेष्यति
अत्रोपायं यथा सम्यङ्न बुध्येत जनार्दनः
न चापायो भवेत्कश्चित्तद्भवान्प्रब्रवीतु मे
तस्य तद्वचनं श्रुत्वा घोरं कृष्णाभिसंहितम्
धृतराष्ट्रः सहामात्यो व्यथितो विमनाभवत्
ततो दुर्योधनमिदं धृतराष्ट्रोऽब्रवीद्वचः
मैवं वोचः प्रजापाल नैष धर्मः सनातनः
दूतश्च हि हृषीकेशः संबन्धी च प्रियश्च नः
अपापः कौरवेयेषु कथं बन्धनमर्हति
परीतो धृतराष्ट्रायं तव पुत्रः सुमन्दधीः
वृणोत्यनर्थं न त्वर्थं याच्यमानः सुहृद्गणैः
इममुत्पथि वर्तन्तं पापं पापानुबन्धिनम्
वाक्यानि सुहृदां हित्वा त्वमप्यस्यानुवर्तसे
कृष्णमक्लिष्टकर्माणमासाद्यायं सुदुर्मतिः
तव पुत्रः सहामात्यः क्षणेन न भविष्यति
पापस्यास्य नृशंसस्य त्यक्तधर्मस्य दुर्मतेः
नोत्सहेऽनर्थसंयुक्तां वाचं श्रोतुं कथंचन
इत्युक्त्वा भरतश्रेष्ठो वृद्धः परममन्युमान्
उत्थाय तस्मात्प्रातिष्ठद्भीष्मः सत्यपराक्रमः