Mahabharata

Udyoga Parva, Adhyaya 84

Containing 21 sacred Sanskrit shlokas with multi-author commentaries and translations.

Mahabharata

Udyoga Parva, Adhyaya 84, Verse 1

उपप्लव्यादिह क्षत्तरुपयातो जनार्दनः

वृकस्थले निवसति स च प्रातरिहेष्यति

Mahabharata

Udyoga Parva, Adhyaya 84, Verse 2

आहुकानामधिपतिः पुरोगः सर्वसात्वताम्

महामना महावीर्यो महामात्रो जनार्दनः

Mahabharata

Udyoga Parva, Adhyaya 84, Verse 3

स्फीतस्य वृष्णिवंशस्य भर्ता गोप्ता च माधवः

त्रयाणामपि लोकानां भगवान्प्रपितामहः

Mahabharata

Udyoga Parva, Adhyaya 84, Verse 4

वृष्ण्यन्धकाः सुमनसो यस्य प्रज्ञामुपासते

आदित्या वसवो रुद्रा यथा बुद्धिं बृहस्पतेः

Mahabharata

Udyoga Parva, Adhyaya 84, Verse 5

तस्मै पूजां प्रयोक्ष्यामि दाशार्हाय महात्मने

प्रत्यक्षं तव धर्मज्ञ तन्मे कथयतः शृणु

Mahabharata

Udyoga Parva, Adhyaya 84, Verse 6

एकवर्णैः सुकृष्णाङ्गैर्बाह्लिजातैर्हयोत्तमैः

चतुर्युक्तान्रथांस्तस्मै रौक्मान्दास्यामि षोडश

Mahabharata

Udyoga Parva, Adhyaya 84, Verse 7

नित्यप्रभिन्नान्मातङ्गानीषादन्तान्प्रहारिणः

अष्टानुचरमेकैकमष्टौ दास्यामि केशवे

Mahabharata

Udyoga Parva, Adhyaya 84, Verse 8

दासीनामप्रजातानां शुभानां रुक्मवर्चसाम्

शतमस्मै प्रदास्यामि दासानामपि तावतः

Mahabharata

Udyoga Parva, Adhyaya 84, Verse 9

आविकं बहु सुस्पर्शं पार्वतीयैरुपाहृतम्

तदप्यस्मै प्रदास्यामि सहस्राणि दशाष्ट च

Mahabharata

Udyoga Parva, Adhyaya 84, Verse 10

अजिनानां सहस्राणि चीनदेशोद्भवानि च

तान्यप्यस्मै प्रदास्यामि यावदर्हति केशवः

Mahabharata

Udyoga Parva, Adhyaya 84, Verse 11

दिवा रात्रौ च भात्येष सुतेजा विमलो मणिः

तमप्यस्मै प्रदास्यामि तमप्यर्हति केशवः

Mahabharata

Udyoga Parva, Adhyaya 84, Verse 12

एकेनापि पतत्यह्ना योजनानि चतुर्दश

यानमश्वतरीयुक्तं दास्ये तस्मै तदप्यहम्

Mahabharata

Udyoga Parva, Adhyaya 84, Verse 13

यावन्ति वाहनान्यस्य यावन्तः पुरुषाश्च ते

ततोऽष्टगुणमप्यस्मै भोज्यं दास्याम्यहं सदा

Mahabharata

Udyoga Parva, Adhyaya 84, Verse 14

मम पुत्राश्च पौत्राश्च सर्वे दुर्योधनादृते

प्रत्युद्यास्यन्ति दाशार्हं रथैर्मृष्टैरलंकृताः

Mahabharata

Udyoga Parva, Adhyaya 84, Verse 15

स्वलंकृताश्च कल्याण्यः पादैरेव सहस्रशः

वारमुख्या महाभागं प्रत्युद्यास्यन्ति केशवम्

Mahabharata

Udyoga Parva, Adhyaya 84, Verse 16

नगरादपि याः काश्चिद्गमिष्यन्ति जनार्दनम्

द्रष्टुं कन्याश्च कल्याण्यस्ताश्च यास्यन्त्यनावृताः

Mahabharata

Udyoga Parva, Adhyaya 84, Verse 17

सस्त्रीपुरुषबालं हि नगरं मधुसूदनम्

उदीक्षते महात्मानं भानुमन्तमिव प्रजाः

Mahabharata

Udyoga Parva, Adhyaya 84, Verse 18

महाध्वजपताकाश्च क्रियन्तां सर्वतोदिशम्

जलावसिक्तो विरजाः पन्थास्तस्येति चान्वशात्

Mahabharata

Udyoga Parva, Adhyaya 84, Verse 19

दुःशासनस्य च गृहं दुर्योधनगृहाद्वरम्

तदस्य क्रियतां क्षिप्रं सुसंमृष्टमलंकृतम्

Mahabharata

Udyoga Parva, Adhyaya 84, Verse 20

एतद्धि रुचिराकारैः प्रासादैरुपशोभितम्

शिवं च रमणीयं च सर्वर्तु सुमहाधनम्

Mahabharata

Udyoga Parva, Adhyaya 84, Verse 21

सर्वमस्मिन्गृहे रत्नं मम दुर्योधनस्य च

यद्यदर्हेत्स वार्ष्णेयस्तत्तद्देयमसंशयम्