Mahabharata

Udyoga Parva, Adhyaya 83

Containing 18 sacred Sanskrit shlokas with multi-author commentaries and translations.

Mahabharata

Udyoga Parva, Adhyaya 83, Verse 1

तथा दूतैः समाज्ञाय आयान्तं मधुसूदनम्

धृतराष्ट्रोऽब्रवीद्भीष्ममर्चयित्वा महाभुजम्

Mahabharata

Udyoga Parva, Adhyaya 83, Verse 2

द्रोणं च संजयं चैव विदुरं च महामतिम्

दुर्योधनं च सामात्यं हृष्टरोमाब्रवीदिदम्

Mahabharata

Udyoga Parva, Adhyaya 83, Verse 3

अद्भुतं महदाश्चर्यं श्रूयते कुरुनन्दन

स्त्रियो बालाश्च वृद्धाश्च कथयन्ति गृहे गृहे

Mahabharata

Udyoga Parva, Adhyaya 83, Verse 4

सत्कृत्याचक्षते चान्ये तथैवान्ये समागताः

पृथग्वादाश्च वर्तन्ते चत्वरेषु सभासु च

Mahabharata

Udyoga Parva, Adhyaya 83, Verse 5

उपयास्यति दाशार्हः पाण्डवार्थे पराक्रमी

स नो मान्यश्च पूज्यश्च सर्वथा मधुसूदनः

Mahabharata

Udyoga Parva, Adhyaya 83, Verse 6

तस्मिन्हि यात्रा लोकस्य भूतानामीश्वरो हि सः

तस्मिन्धृतिश्च वीर्यं च प्रज्ञा चौजश्च माधवे

Mahabharata

Udyoga Parva, Adhyaya 83, Verse 7

स मान्यतां नरश्रेष्ठः स हि धर्मः सनातनः

पूजितो हि सुखाय स्यादसुखः स्यादपूजितः

Mahabharata

Udyoga Parva, Adhyaya 83, Verse 8

स चेत्तुष्यति दाशार्ह उपचारैररिंदमः

कृत्स्नान्सर्वानभिप्रायान्प्राप्स्यामः सर्वराजसु

Mahabharata

Udyoga Parva, Adhyaya 83, Verse 9

तस्य पूजार्थमद्यैव संविधत्स्व परंतप

सभाः पथि विधीयन्तां सर्वकामसमाहिताः

Mahabharata

Udyoga Parva, Adhyaya 83, Verse 10

यथा प्रीतिर्महाबाहो त्वयि जायेत तस्य वै

तथा कुरुष्व गान्धारे कथं वा भीष्म मन्यसे

Mahabharata

Udyoga Parva, Adhyaya 83, Verse 11

ततो भीष्मादयः सर्वे धृतराष्ट्रं जनाधिपम्

ऊचुः परममित्येवं पूजयन्तोऽस्य तद्वचः

Mahabharata

Udyoga Parva, Adhyaya 83, Verse 12

तेषामनुमतं ज्ञात्वा राजा दुर्योधनस्तदा

सभावास्तूनि रम्याणि प्रदेष्टुमुपचक्रमे

Mahabharata

Udyoga Parva, Adhyaya 83, Verse 13

ततो देशेषु देशेषु रमणीयेषु भागशः

सर्वरत्नसमाकीर्णाः सभाश्चक्रुरनेकशः

Mahabharata

Udyoga Parva, Adhyaya 83, Verse 14

आसनानि विचित्राणि युक्तानि विविधैर्गुणैः

स्त्रियो गन्धानलंकारान्सूक्ष्माणि वसनानि च

Mahabharata

Udyoga Parva, Adhyaya 83, Verse 15

गुणवन्त्यन्नपानानि भोज्यानि विविधानि च

माल्यानि च सुगन्धीनि तानि राजा ददौ ततः

Mahabharata

Udyoga Parva, Adhyaya 83, Verse 16

विशेषतश्च वासार्थं सभां ग्रामे वृकस्थले

विदधे कौरवो राजा बहुरत्नां मनोरमाम्

Mahabharata

Udyoga Parva, Adhyaya 83, Verse 17

एतद्विधाय वै सर्वं देवार्हमतिमानुषम्

आचख्यौ धृतराष्ट्राय राजा दुर्योधनस्तदा

Mahabharata

Udyoga Parva, Adhyaya 83, Verse 18

ताः सभाः केशवः सर्वा रत्नानि विविधानि च

असमीक्ष्यैव दाशार्ह उपायात्कुरुसद्म तत्