Udyoga Parva, Adhyaya 82, Verse 1
प्रयान्तं देवकीपुत्रं परवीररुजो दश
महारथा महाबाहुमन्वयुः शस्त्रपाणयः
Containing 29 sacred Sanskrit shlokas with multi-author commentaries and translations.
प्रयान्तं देवकीपुत्रं परवीररुजो दश
महारथा महाबाहुमन्वयुः शस्त्रपाणयः
पदातीनां सहस्रं च सादिनां च परंतप
भोज्यं च विपुलं राजन्प्रेष्याश्च शतशोऽपरे
कथं प्रयातो दाशार्हो महात्मा मधुसूदनः
कानि वा व्रजतस्तस्य निमित्तानि महौजसः
तस्य प्रयाणे यान्यासन्नद्भुतानि महात्मनः
तानि मे शृणु दिव्यानि दैवान्यौत्पातिकानि च
अनभ्रेऽशनिनिर्घोषः सविद्युत्समजायत
अन्वगेव च पर्जन्यः प्रावर्षद्विघने भृशम्
प्रत्यगूहुर्महानद्यः प्राङ्मुखाः सिन्धुसत्तमाः
विपरीता दिशः सर्वा न प्राज्ञायत किंचन
प्राज्वलन्नग्नयो राजन्पृथिवी समकम्पत
उदपानाश्च कुम्भाश्च प्रासिञ्चञ्शतशो जलम्
तमःसंवृतमप्यासीत्सर्वं जगदिदं तदा
न दिशो नादिशो राजन्प्रज्ञायन्ते स्म रेणुना
प्रादुरासीन्महाञ्शब्दः खे शरीरं न दृश्यते
सर्वेषु राजन्देशेषु तदद्भुतमिवाभवत्
प्रामथ्नाद्धास्तिनपुरं वातो दक्षिणपश्चिमः
आरुजन्गणशो वृक्षान्परुषो भीमनिस्वनः
यत्र यत्र तु वार्ष्णेयो वर्तते पथि भारत
तत्र तत्र सुखो वायुः सर्वं चासीत्प्रदक्षिणम्
ववर्ष पुष्पवर्षं च कमलानि च भूरिशः
समश्च पन्था निर्दुःखो व्यपेतकुशकण्टकः
स गच्छन्ब्राह्मणै राजंस्तत्र तत्र महाभुजः
अर्च्यते मधुपर्कैश्च सुमनोभिर्वसुप्रदः
तं किरन्ति महात्मानं वन्यैः पुष्पैः सुगन्धिभिः
स्त्रियः पथि समागम्य सर्वभूतहिते रतम्
स शालिभवनं रम्यं सर्वसस्यसमाचितम्
सुखं परमधर्मिष्ठमत्यगाद्भरतर्षभ
पश्यन्बहुपशून्ग्रामान्रम्यान्हृदयतोषणान्
पुराणि च व्यतिक्रामन्राष्ट्राणि विविधानि च
नित्यहृष्टाः सुमनसो भारतैरभिरक्षिताः
नोद्विग्नाः परचक्राणामनयानामकोविदाः
उपप्लव्यादथायान्तं जनाः पुरनिवासिनः
पथ्यतिष्ठन्त सहिता विष्वक्सेनदिदृक्षया
ते तु सर्वे सुनामानमग्निमिद्धमिव प्रभुम्
अर्चयामासुरर्च्यं तं देशातिथिमुपस्थितम्
वृकस्थलं समासाद्य केशवः परवीरहा
प्रकीर्णरश्मावादित्ये विमले लोहितायति
अवतीर्य रथात्तूर्णं कृत्वा शौचं यथाविधि
रथमोचनमादिश्य संध्यामुपविवेश ह
दारुकोऽपि हयान्मुक्त्वा परिचर्य च शास्त्रतः
मुमोच सर्वं वर्माणि मुक्त्वा चैनानवासृजत्
अभ्यतीत्य तु तत्सर्वमुवाच मधुसूदनः
युधिष्ठिरस्य कार्यार्थमिह वत्स्यामहे क्षपाम्
तस्य तन्मतमाज्ञाय चक्रुरावसथं नराः
क्षणेन चान्नपानानि गुणवन्ति समार्जयन्
तस्मिन्ग्रामे प्रधानास्तु य आसन्ब्राह्मणा नृप
आर्याः कुलीना ह्रीमन्तो ब्राह्मीं वृत्तिमनुष्ठिताः
तेऽभिगम्य महात्मानं हृषीकेशमरिंदमम्
पूजां चक्रुर्यथान्यायमाशीर्मङ्गलसंयुताम्
ते पूजयित्वा दाशार्हं सर्वलोकेषु पूजितम्
न्यवेदयन्त वेश्मानि रत्नवन्ति महात्मने
तान्प्रभुः कृतमित्युक्त्वा सत्कृत्य च यथार्हतः
अभ्येत्य तेषां वेश्मानि पुनरायात्सहैव तैः
सुमृष्टं भोजयित्वा च ब्राह्मणांस्तत्र केशवः
भुक्त्वा च सह तैः सर्वैरवसत्तां क्षपां सुखम्