Mahabharata

Udyoga Parva, Adhyaya 79

Containing 9 sacred Sanskrit shlokas with multi-author commentaries and translations.

Mahabharata

Udyoga Parva, Adhyaya 79, Verse 1

यदेतत्कथितं राज्ञा धर्म एष सनातनः

यथा तु युद्धमेव स्यात्तथा कार्यमरिंदम

Mahabharata

Udyoga Parva, Adhyaya 79, Verse 2

यदि प्रशममिच्छेयुः कुरवः पाण्डवैः सह

तथापि युद्धं दाशार्ह योजयेथाः सहैव तैः

Mahabharata

Udyoga Parva, Adhyaya 79, Verse 3

कथं नु दृष्ट्वा पाञ्चालीं तथा क्लिष्टां सभागताम्

अवधेन प्रशाम्येत मम मन्युः सुयोधने

Mahabharata

Udyoga Parva, Adhyaya 79, Verse 4

यदि भीमार्जुनौ कृष्ण धर्मराजश्च धार्मिकः

धर्ममुत्सृज्य तेनाहं योद्धुमिच्छामि संयुगे

Mahabharata

Udyoga Parva, Adhyaya 79, Verse 5

सत्यमाह महाबाहो सहदेवो महामतिः

दुर्योधनवधे शान्तिस्तस्य कोपस्य मे भवेत्

Mahabharata

Udyoga Parva, Adhyaya 79, Verse 6

जानासि हि यथा दृष्ट्वा चीराजिनधरान्वने

तवापि मन्युरुद्भूतो दुःखितान्प्रेक्ष्य पाण्डवान्

Mahabharata

Udyoga Parva, Adhyaya 79, Verse 7

तस्मान्माद्रीसुतः शूरो यदाह पुरुषर्षभः

वचनं सर्वयोधानां तन्मतं पुरुषोत्तम

Mahabharata

Udyoga Parva, Adhyaya 79, Verse 8

एवं वदति वाक्यं तु युयुधाने महामतौ

सुभीमः सिंहनादोऽभूद्योधानां तत्र सर्वशः

Mahabharata

Udyoga Parva, Adhyaya 79, Verse 9

सर्वे हि सर्वतो वीरास्तद्वचः प्रत्यपूजयन्

साधु साध्विति शैनेयं हर्षयन्तो युयुत्सवः