Mahabharata

Udyoga Parva, Adhyaya 78

Containing 18 sacred Sanskrit shlokas with multi-author commentaries and translations.

Mahabharata

Udyoga Parva, Adhyaya 78, Verse 1

उक्तं बहुविधं वाक्यं धर्मराजेन माधव

धर्मज्ञेन वदान्येन धर्मयुक्तं च तत्त्वतः

Mahabharata

Udyoga Parva, Adhyaya 78, Verse 2

मतमाज्ञाय राज्ञश्च भीमसेनेन माधव

संशमो बाहुवीर्यं च ख्यापितं माधवात्मनः

Mahabharata

Udyoga Parva, Adhyaya 78, Verse 3

तथैव फल्गुनेनापि यदुक्तं तत्त्वया श्रुतम्

आत्मनश्च मतं वीर कथितं भवतासकृत्

Mahabharata

Udyoga Parva, Adhyaya 78, Verse 4

सर्वमेतदतिक्रम्य श्रुत्वा परमतं भवान्

यत्प्राप्तकालं मन्येथास्तत्कुर्याः पुरुषोत्तम

Mahabharata

Udyoga Parva, Adhyaya 78, Verse 5

तस्मिंस्तस्मिन्निमित्ते हि मतं भवति केशव

प्राप्तकालं मनुष्येण स्वयं कार्यमरिंदम

Mahabharata

Udyoga Parva, Adhyaya 78, Verse 6

अन्यथा चिन्तितो ह्यर्थः पुनर्भवति सोऽन्यथा

अनित्यमतयो लोके नराः पुरुषसत्तम

Mahabharata

Udyoga Parva, Adhyaya 78, Verse 7

अन्यथा बुद्धयो ह्यासन्नस्मासु वनवासिषु

अदृश्येष्वन्यथा कृष्ण दृश्येषु पुनरन्यथा

Mahabharata

Udyoga Parva, Adhyaya 78, Verse 8

अस्माकमपि वार्ष्णेय वने विचरतां तदा

न तथा प्रणयो राज्ये यथा संप्रति वर्तते

Mahabharata

Udyoga Parva, Adhyaya 78, Verse 9

निवृत्तवनवासान्नः श्रुत्वा वीर समागताः

अक्षौहिण्यो हि सप्तेमास्त्वत्प्रसादाज्जनार्दन

Mahabharata

Udyoga Parva, Adhyaya 78, Verse 10

इमान्हि पुरुषव्याघ्रानचिन्त्यबलपौरुषान्

आत्तशस्त्रान्रणे दृष्ट्वा न व्यथेदिह कः पुमान्

Mahabharata

Udyoga Parva, Adhyaya 78, Verse 11

स भवान्कुरुमध्ये तं सान्त्वपूर्वं भयान्वितम्

ब्रूयाद्वाक्यं यथा मन्दो न व्यथेत सुयोधनः

Mahabharata

Udyoga Parva, Adhyaya 78, Verse 12

युधिष्ठिरं भीमसेनं बीभत्सुं चापराजितम्

सहदेवं च मां चैव त्वां च रामं च केशव

Mahabharata

Udyoga Parva, Adhyaya 78, Verse 13

सात्यकिं च महावीर्यं विराटं च सहात्मजम्

द्रुपदं च सहामात्यं धृष्टद्युम्नं च पार्षतम्

Mahabharata

Udyoga Parva, Adhyaya 78, Verse 14

काशिराजं च विक्रान्तं धृष्टकेतुं च चेदिपम्

मांसशोणितभृन्मर्त्यः प्रतियुध्येत को युधि

Mahabharata

Udyoga Parva, Adhyaya 78, Verse 15

स भवान्गमनादेव साधयिष्यत्यसंशयम्

इष्टमर्थं महाबाहो धर्मराजस्य केवलम्

Mahabharata

Udyoga Parva, Adhyaya 78, Verse 16

विदुरश्चैव भीष्मश्च द्रोणश्च सहबाह्लिकः

श्रेयः समर्था विज्ञातुमुच्यमानं त्वयानघ

Mahabharata

Udyoga Parva, Adhyaya 78, Verse 17

ते चैनमनुनेष्यन्ति धृतराष्ट्रं जनाधिपम्

तं च पापसमाचारं सहामात्यं सुयोधनम्

Mahabharata

Udyoga Parva, Adhyaya 78, Verse 18

श्रोता चार्थस्य विदुरस्त्वं च वक्ता जनार्दन

कमिवार्थं विवर्तन्तं स्थापयेतां न वर्त्मनि