Mahabharata

Udyoga Parva, Adhyaya 77

Containing 21 sacred Sanskrit shlokas with multi-author commentaries and translations.

Mahabharata

Udyoga Parva, Adhyaya 77, Verse 1

एवमेतन्महाबाहो यथा वदसि पाण्डव

सर्वं त्विदं समायत्तं बीभत्सो कर्मणोर्द्वयोः

Mahabharata

Udyoga Parva, Adhyaya 77, Verse 2

क्षेत्रं हि रसवच्छुद्धं कर्षकेणोपपादितम्

ऋते वर्षं न कौन्तेय जातु निर्वर्तयेत्फलम्

Mahabharata

Udyoga Parva, Adhyaya 77, Verse 3

तत्र वै पौरुषं ब्रूयुरासेकं यत्नकारितम्

तत्र चापि ध्रुवं पश्येच्छोषणं दैवकारितम्

Mahabharata

Udyoga Parva, Adhyaya 77, Verse 4

तदिदं निश्चितं बुद्ध्या पूर्वैरपि महात्मभिः

दैवे च मानुषे चैव संयुक्तं लोककारणम्

Mahabharata

Udyoga Parva, Adhyaya 77, Verse 5

अहं हि तत्करिष्यामि परं पुरुषकारतः

दैवं तु न मया शक्यं कर्म कर्तुं कथंचन

Mahabharata

Udyoga Parva, Adhyaya 77, Verse 6

स हि धर्मं च सत्यं च त्यक्त्वा चरति दुर्मतिः

न हि संतप्यते तेन तथारूपेण कर्मणा

Mahabharata

Udyoga Parva, Adhyaya 77, Verse 7

तां चापि बुद्धिं पापिष्ठां वर्धयन्त्यस्य मन्त्रिणः

शकुनिः सूतपुत्रश्च भ्राता दुःशासनस्तथा

Mahabharata

Udyoga Parva, Adhyaya 77, Verse 8

स हि त्यागेन राज्यस्य न शमं समुपेष्यति

अन्तरेण वधात्पार्थ सानुबन्धः सुयोधनः

Mahabharata

Udyoga Parva, Adhyaya 77, Verse 9

न चापि प्रणिपातेन त्यक्तुमिच्छति धर्मराट्

याच्यमानस्तु राज्यं स न प्रदास्यति दुर्मतिः

Mahabharata

Udyoga Parva, Adhyaya 77, Verse 10

न तु मन्ये स तद्वाच्यो यद्युधिष्ठिरशासनम्

उक्तं प्रयोजनं तत्र धर्मराजेन भारत

Mahabharata

Udyoga Parva, Adhyaya 77, Verse 11

तथा पापस्तु तत्सर्वं न करिष्यति कौरवः

तस्मिंश्चाक्रियमाणेऽसौ लोकवध्यो भविष्यति

Mahabharata

Udyoga Parva, Adhyaya 77, Verse 12

मम चापि स वध्यो वै जगतश्चापि भारत

येन कौमारके यूयं सर्वे विप्रकृतास्तथा

Mahabharata

Udyoga Parva, Adhyaya 77, Verse 13

विप्रलुप्तं च वो राज्यं नृशंसेन दुरात्मना

न चोपशाम्यते पापः श्रियं दृष्ट्वा युधिष्ठिरे

Mahabharata

Udyoga Parva, Adhyaya 77, Verse 14

असकृच्चाप्यहं तेन त्वत्कृते पार्थ भेदितः

न मया तद्गृहीतं च पापं तस्य चिकीर्षितम्

Mahabharata

Udyoga Parva, Adhyaya 77, Verse 15

जानासि हि महाबाहो त्वमप्यस्य परं मतम्

प्रियं चिकीर्षमाणं च धर्मराजस्य मामपि

Mahabharata

Udyoga Parva, Adhyaya 77, Verse 16

स जानंस्तस्य चात्मानं मम चैव परं मतम्

अजानन्निव चाकस्मादर्जुनाद्याभिशङ्कसे

Mahabharata

Udyoga Parva, Adhyaya 77, Verse 17

यच्चापि परमं दिव्यं तच्चाप्यवगतं त्वया

विधानविहितं पार्थ कथं शर्म भवेत्परैः

Mahabharata

Udyoga Parva, Adhyaya 77, Verse 18

यत्तु वाचा मया शक्यं कर्मणा चापि पाण्डव

करिष्ये तदहं पार्थ न त्वाशंसे शमं परैः

Mahabharata

Udyoga Parva, Adhyaya 77, Verse 19

कथं गोहरणे ब्रूयादिच्छञ्शर्म तथाविधम्

याच्यमानोऽपि भीष्मेण संवत्सरगतेऽध्वनि

Mahabharata

Udyoga Parva, Adhyaya 77, Verse 20

तदैव ते पराभूता यदा संकल्पितास्त्वया

लवशः क्षणशश्चापि न च तुष्टः सुयोधनः

Mahabharata

Udyoga Parva, Adhyaya 77, Verse 21

सर्वथा तु मया कार्यं धर्मराजस्य शासनम्

विभाव्यं तस्य भूयश्च कर्म पापं दुरात्मनः