Udyoga Parva, Adhyaya 76, Verse 1
उक्तं युधिष्ठिरेणैव यावद्वाच्यं जनार्दन
तव वाक्यं तु मे श्रुत्वा प्रतिभाति परंतप
Containing 20 sacred Sanskrit shlokas with multi-author commentaries and translations.
उक्तं युधिष्ठिरेणैव यावद्वाच्यं जनार्दन
तव वाक्यं तु मे श्रुत्वा प्रतिभाति परंतप
नैव प्रशममत्र त्वं मन्यसे सुकरं प्रभो
लोभाद्वा धृतराष्ट्रस्य दैन्याद्वा समुपस्थितात्
अफलं मन्यसे चापि पुरुषस्य पराक्रमम्
न चान्तरेण कर्माणि पौरुषेण फलोदयः
तदिदं भाषितं वाक्यं तथा च न तथैव च
न चैतदेवं द्रष्टव्यमसाध्यमिति किंचन
किं चैतन्मन्यसे कृच्छ्रमस्माकं पापमादितः
कुर्वन्ति तेषां कर्माणि येषां नास्ति फलोदयः
संपाद्यमानं सम्यक्च स्यात्कर्म सफलं प्रभो
स तथा कृष्ण वर्तस्व यथा शर्म भवेत्परैः
पाण्डवानां कुरूणां च भवान्परमकः सुहृत्
सुराणामसुराणां च यथा वीर प्रजापतिः
कुरूणां पाण्डवानां च प्रतिपत्स्व निरामयम्
अस्मद्धितमनुष्ठातुं न मन्ये तव दुष्करम्
एवं चेत्कार्यतामेति कार्यं तव जनार्दन
गमनादेवमेव त्वं करिष्यसि न संशयः
चिकीर्षितमथान्यत्ते तस्मिन्वीर दुरात्मनि
भविष्यति तथा सर्वं यथा तव चिकीर्षितम्
शर्म तैः सह वा नोऽस्तु तव वा यच्चिकीर्षितम्
विचार्यमाणो यः कामस्तव कृष्ण स नो गुरुः
न स नार्हति दुष्टात्मा वधं ससुतबान्धवः
येन धर्मसुते दृष्ट्वा न सा श्रीरुपमर्षिता
यच्चाप्यपश्यतोपायं धर्मिष्ठं मधुसूदन
उपायेन नृशंसेन हृता दुर्द्यूतदेविना
कथं हि पुरुषो जातः क्षत्रियेषु धनुर्धरः
समाहूतो निवर्तेत प्राणत्यागेऽप्युपस्थिते
अधर्मेण जितान्दृष्ट्वा वने प्रव्रजितांस्तथा
वध्यतां मम वार्ष्णेय निर्गतोऽसौ सुयोधनः
न चैतदद्भुतं कृष्ण मित्रार्थे यच्चिकीर्षसि
क्रिया कथं नु मुख्या स्यान्मृदुना वेतरेण वा
अथ वा मन्यसे ज्यायान्वधस्तेषामनन्तरम्
तदेव क्रियतामाशु न विचार्यमतस्त्वया
जानासि हि यथा तेन द्रौपदी पापबुद्धिना
परिक्लिष्टा सभामध्ये तच्च तस्यापि मर्षितम्
स नाम सम्यग्वर्तेत पाण्डवेष्विति माधव
न मे संजायते बुद्धिर्बीजमुप्तमिवोषरे
तस्माद्यन्मन्यसे युक्तं पाण्डवानां च यद्धितम्
तदाशु कुरु वार्ष्णेय यन्नः कार्यमनन्तरम्