Udyoga Parva, Adhyaya 75, Verse 1
भावं जिज्ञासमानोऽहं प्रणयादिदमब्रुवम्
न चाक्षेपान्न पाण्डित्यान्न क्रोधान्न विवक्षया
Containing 20 sacred Sanskrit shlokas with multi-author commentaries and translations.
भावं जिज्ञासमानोऽहं प्रणयादिदमब्रुवम्
न चाक्षेपान्न पाण्डित्यान्न क्रोधान्न विवक्षया
वेदाहं तव माहात्म्यमुत ते वेद यद्बलम्
उत ते वेद कर्माणि न त्वां परिभवाम्यहम्
यथा चात्मनि कल्याणं संभावयसि पाण्डव
सहस्रगुणमप्येतत्त्वयि संभावयाम्यहम्
यादृशे च कुले जन्म सर्वराजाभिपूजिते
बन्धुभिश्च सुहृद्भिश्च भीम त्वमसि तादृशः
जिज्ञासन्तो हि धर्मस्य संदिग्धस्य वृकोदर
पर्यायं न व्यवस्यन्ति दैवमानुषयोर्जनाः
स एव हेतुर्भूत्वा हि पुरुषस्यार्थसिद्धिषु
विनाशेऽपि स एवास्य संदिग्धं कर्म पौरुषम्
अन्यथा परिदृष्टानि कविभिर्दोषदर्शिभिः
अन्यथा परिवर्तन्ते वेगा इव नभस्वतः
सुमन्त्रितं सुनीतं च न्यायतश्चोपपादितम्
कृतं मानुष्यकं कर्म दैवेनापि विरुध्यते
दैवमप्यकृतं कर्म पौरुषेण विहन्यते
शीतमुष्णं तथा वर्षं क्षुत्पिपासे च भारत
यदन्यद्दिष्टभावस्य पुरुषस्य स्वयंकृतम्
तस्मादनवरोधश्च विद्यते तत्र लक्षणम्
लोकस्य नान्यतो वृत्तिः पाण्डवान्यत्र कर्मणः
एवंबुद्धिः प्रवर्तेत फलं स्यादुभयान्वयात्
य एवं कृतबुद्धिः सन्कर्मस्वेव प्रवर्तते
नासिद्धौ व्यथते तस्य न सिद्धौ हर्षमश्नुते
तत्रेयमर्थमात्रा मे भीमसेन विवक्षिता
नैकान्तसिद्धिर्मन्तव्या कुरुभिः सह संयुगे
नातिप्रणीतरश्मिः स्यात्तथा भवति पर्यये
विषादमर्छेद्ग्लानिं वा एतदर्थं ब्रवीमि ते
श्वोभूते धृतराष्ट्रस्य समीपं प्राप्य पाण्डव
यतिष्ये प्रशमं कर्तुं युष्मदर्थमहापयन्
शमं चेत्ते करिष्यन्ति ततोऽनन्तं यशो मम
भवतां च कृतः कामस्तेषां च श्रेय उत्तमम्
ते चेदभिनिवेक्ष्यन्ति नाभ्युपैष्यन्ति मे वचः
कुरवो युद्धमेवात्र रौद्रं कर्म भविष्यति
अस्मिन्युद्धे भीमसेन त्वयि भारः समाहितः
धूरर्जुनेन धार्या स्याद्वोढव्य इतरो जनः
अहं हि यन्ता बीभत्सोर्भविता संयुगे सति
धनंजयस्यैष कामो न हि युद्धं न कामये
तस्मादाशङ्कमानोऽहं वृकोदर मतिं तव
तुदन्नक्लीबया वाचा तेजस्ते समदीपयम्