Mahabharata

Udyoga Parva, Adhyaya 74

Containing 18 sacred Sanskrit shlokas with multi-author commentaries and translations.

Mahabharata

Udyoga Parva, Adhyaya 74, Verse 1

तथोक्तो वासुदेवेन नित्यमन्युरमर्षणः

सदश्ववत्समाधावद्बभाषे तदनन्तरम्

Mahabharata

Udyoga Parva, Adhyaya 74, Verse 2

अन्यथा मां चिकीर्षन्तमन्यथा मन्यसेऽच्युत

प्रणीतभावमत्यन्तं युधि सत्यपराक्रमम्

Mahabharata

Udyoga Parva, Adhyaya 74, Verse 3

वेत्थ दाशार्ह सत्त्वं मे दीर्घकालं सहोषितः

उत वा मां न जानासि प्लवन्ह्रद इवाप्लवः

तस्मादप्रतिरूपाभिर्वाग्भिर्मां त्वं समर्छसि

Mahabharata

Udyoga Parva, Adhyaya 74, Verse 4

कथं हि भीमसेनं मां जानन्कश्चन माधव

ब्रूयादप्रतिरूपाणि यथा मां वक्तुमर्हसि

Mahabharata

Udyoga Parva, Adhyaya 74, Verse 5

तस्मादिदं प्रवक्ष्यामि वचनं वृष्णिनन्दन

आत्मनः पौरुषं चैव बलं च न समं परैः

Mahabharata

Udyoga Parva, Adhyaya 74, Verse 6

सर्वथा नार्यकर्मैतत्प्रशंसा स्वयमात्मनः

अतिवादापविद्धस्तु वक्ष्यामि बलमात्मनः

Mahabharata

Udyoga Parva, Adhyaya 74, Verse 7

पश्येमे रोदसी कृष्ण ययोरासन्निमाः प्रजाः

अचले चाप्यनन्ते च प्रतिष्ठे सर्वमातरौ

Mahabharata

Udyoga Parva, Adhyaya 74, Verse 8

यदीमे सहसा क्रुद्धे समेयातां शिले इव

अहमेते निगृह्णीयां बाहुभ्यां सचराचरे

Mahabharata

Udyoga Parva, Adhyaya 74, Verse 9

पश्यैतदन्तरं बाह्वोर्महापरिघयोरिव

य एतत्प्राप्य मुच्येत न तं पश्यामि पूरुषम्

Mahabharata

Udyoga Parva, Adhyaya 74, Verse 10

हिमवांश्च समुद्रश्च वज्री च बलभित्स्वयम्

मयाभिपन्नं त्रायेरन्बलमास्थाय न त्रयः

Mahabharata

Udyoga Parva, Adhyaya 74, Verse 11

युध्येयं क्षत्रियान्सर्वान्पाण्डवेष्वाततायिनः

अधः पादतलेनैतानधिष्ठास्यामि भूतले

Mahabharata

Udyoga Parva, Adhyaya 74, Verse 12

न हि त्वं नाभिजानासि मम विक्रममच्युत

यथा मया विनिर्जित्य राजानो वशगाः कृताः

Mahabharata

Udyoga Parva, Adhyaya 74, Verse 13

अथ चेन्मां न जानासि सूर्यस्येवोद्यतः प्रभाम्

विगाढे युधि संबाधे वेत्स्यसे मां जनार्दन

Mahabharata

Udyoga Parva, Adhyaya 74, Verse 14

किं मात्यवाक्षीः परुषैर्व्रणं सूच्या इवानघ

यथामति ब्रवीम्येतद्विद्धि मामधिकं ततः

Mahabharata

Udyoga Parva, Adhyaya 74, Verse 15

द्रष्टासि युधि संबाधे प्रवृत्ते वैशसेऽहनि

मया प्रणुन्नान्मातङ्गान्रथिनः सादिनस्तथा

Mahabharata

Udyoga Parva, Adhyaya 74, Verse 16

तथा नरानभिक्रुद्धं निघ्नन्तं क्षत्रियर्षभान्

द्रष्टा मां त्वं च लोकश्च विकर्षन्तं वरान्वरान्

Mahabharata

Udyoga Parva, Adhyaya 74, Verse 17

न मे सीदन्ति मज्जानो न ममोद्वेपते मनः

सर्वलोकादभिक्रुद्धान्न भयं विद्यते मम

Mahabharata

Udyoga Parva, Adhyaya 74, Verse 18

किं तु सौहृदमेवैतत्कृपया मधुसूदन

सर्वांस्तितिक्षे संक्लेशान्मा स्म नो भरता नशन्