Udyoga Parva, Adhyaya 73, Verse 1
एतच्छ्रुत्वा महाबाहुः केशवः प्रहसन्निव
अभूतपूर्वं भीमस्य मार्दवोपगतं वचः
Containing 23 sacred Sanskrit shlokas with multi-author commentaries and translations.
एतच्छ्रुत्वा महाबाहुः केशवः प्रहसन्निव
अभूतपूर्वं भीमस्य मार्दवोपगतं वचः
गिरेरिव लघुत्वं तच्छीतत्वमिव पावके
मत्वा रामानुजः शौरिः शार्ङ्गधन्वा वृकोदरम्
संतेजयंस्तदा वाग्भिर्मातरिश्वेव पावकम्
उवाच भीममासीनं कृपयाभिपरिप्लुतम्
त्वमन्यदा भीमसेन युद्धमेव प्रशंससि
वधाभिनन्दिनः क्रूरान्धार्तराष्ट्रान्मिमर्दिषुः
न च स्वपिषि जागर्षि न्युब्जः शेषे परंतप
घोरामशान्तां रुशतीं सदा वाचं प्रभाषसे
निःश्वसन्नग्निवर्णेन संतप्तः स्वेन मन्युना
अप्रशान्तमना भीम सधूम इव पावकः
एकान्ते निष्टनञ्शेषे भारार्त इव दुर्बलः
अपि त्वां केचिदुन्मत्तं मन्यन्तेऽतद्विदो जनाः
आरुज्य वृक्षान्निर्मूलान्गजः परिभुजन्निव
निघ्नन्पद्भिः क्षितिं भीम निष्टनन्परिधावसि
नास्मिञ्जनेऽभिरमसे रहः क्षियसि पाण्डव
नान्यं निशि दिवा वापि कदाचिदभिनन्दसि
अकस्मात्स्मयमानश्च रहस्यास्से रुदन्निव
जान्वोर्मूर्धानमाधाय चिरमास्से प्रमीलितः
भ्रुकुटिं च पुनः कुर्वन्नोष्ठौ च विलिहन्निव
अभीक्ष्णं दृश्यसे भीम सर्वं तन्मन्युकारितम्
यथा पुरस्तात्सविता दृश्यते शुक्रमुच्चरन्
यथा च पश्चान्निर्मुक्तो ध्रुवं पर्येति रश्मिवान्
तथा सत्यं ब्रवीम्येतन्नास्ति तस्य व्यतिक्रमः
हन्ताहं गदयाभ्येत्य दुर्योधनममर्षणम्
इति स्म मध्ये भ्रातॄणां सत्येनालभसे गदाम्
तस्य ते प्रशमे बुद्धिर्धीयतेऽद्य परंतप
अहो युद्धप्रतीपानि युद्धकाल उपस्थिते
पश्यसीवाप्रतीपानि किं त्वां भीर्भीम विन्दति
अहो पार्थ निमित्तानि विपरीतानि पश्यसि
स्वप्नान्ते जागरान्ते च तस्मात्प्रशममिच्छसि
अहो नाशंससे किंचित्पुंस्त्वं क्लीब इवात्मनि
कश्मलेनाभिपन्नोऽसि तेन ते विकृतं मनः
उद्वेपते ते हृदयं मनस्ते प्रविषीदति
ऊरुस्तम्भगृहीतोऽसि तस्मात्प्रशममिच्छसि
अनित्यं किल मर्त्यस्य चित्तं पार्थ चलाचलम्
वातवेगप्रचलिता अष्ठीला शाल्मलेरिव
तवैषा विकृता बुद्धिर्गवां वागिव मानुषी
मनांसि पाण्डुपुत्राणां मज्जयत्यप्लवानिव
इदं मे महदाश्चर्यं पर्वतस्येव सर्पणम्
यदीदृशं प्रभाषेथा भीमसेनासमं वचः
स दृष्ट्वा स्वानि कर्माणि कुले जन्म च भारत
उत्तिष्ठस्व विषादं मा कृथा वीर स्थिरो भव
न चैतदनुरूपं ते यत्ते ग्लानिररिंदम
यदोजसा न लभते क्षत्रियो न तदश्नुते