Mahabharata

Udyoga Parva, Adhyaya 72

Containing 23 sacred Sanskrit shlokas with multi-author commentaries and translations.

Mahabharata

Udyoga Parva, Adhyaya 72, Verse 1

यथा यथैव शान्तिः स्यात्कुरूणां मधुसूदन

तथा तथैव भाषेथा मा स्म युद्धेन भीषयेः

Mahabharata

Udyoga Parva, Adhyaya 72, Verse 2

अमर्षी नित्यसंरब्धः श्रेयोद्वेषी महामनाः

नोग्रं दुर्योधनो वाच्यः साम्नैवैनं समाचरेः

Mahabharata

Udyoga Parva, Adhyaya 72, Verse 3

प्रकृत्या पापसत्त्वश्च तुल्यचेताश्च दस्युभिः

ऐश्वर्यमदमत्तश्च कृतवैरश्च पाण्डवैः

Mahabharata

Udyoga Parva, Adhyaya 72, Verse 4

अदीर्घदर्शी निष्ठूरी क्षेप्ता क्रूरपराक्रमः

दीर्घमन्युरनेयश्च पापात्मा निकृतिप्रियः

Mahabharata

Udyoga Parva, Adhyaya 72, Verse 5

म्रियेतापि न भज्येत नैव जह्यात्स्वकं मतम्

तादृशेन शमं कृष्ण मन्ये परमदुष्करम्

Mahabharata

Udyoga Parva, Adhyaya 72, Verse 6

सुहृदामप्यवाचीनस्त्यक्तधर्मः प्रियानृतः

प्रतिहन्त्येव सुहृदां वाचश्चैव मनांसि च

Mahabharata

Udyoga Parva, Adhyaya 72, Verse 7

स मन्युवशमापन्नः स्वभावं दुष्टमास्थितः

स्वभावात्पापमन्वेति तृणैस्तुन्न इवोरगः

Mahabharata

Udyoga Parva, Adhyaya 72, Verse 8

दुर्योधनो हि यत्सेनः सर्वथा विदितस्तव

यच्छीलो यत्स्वभावश्च यद्बलो यत्पराक्रमः

Mahabharata

Udyoga Parva, Adhyaya 72, Verse 9

पुरा प्रसन्नाः कुरवः सहपुत्रास्तथा वयम्

इन्द्रज्येष्ठा इवाभूम मोदमानाः सबान्धवाः

Mahabharata

Udyoga Parva, Adhyaya 72, Verse 10

दुर्योधनस्य क्रोधेन भारता मधुसूदन

धक्ष्यन्ते शिशिरापाये वनानीव हुताशनैः

Mahabharata

Udyoga Parva, Adhyaya 72, Verse 11

अष्टादशेमे राजानः प्रख्याता मधुसूदन

ये समुच्चिच्छिदुर्ज्ञातीन्सुहृदश्च सबान्धवान्

Mahabharata

Udyoga Parva, Adhyaya 72, Verse 12

असुराणां समृद्धानां ज्वलतामिव तेजसा

पर्यायकाले धर्मस्य प्राप्ते बलिरजायत

Mahabharata

Udyoga Parva, Adhyaya 72, Verse 13

हैहयानामुदावर्तो नीपानां जनमेजयः

बहुलस्तालजङ्घानां कृमीणामुद्धतो वसुः

Mahabharata

Udyoga Parva, Adhyaya 72, Verse 14

अजबिन्दुः सुवीराणां सुराष्ट्राणां कुशर्द्धिकः

अर्कजश्च बलीहानां चीनानां धौतमूलकः

Mahabharata

Udyoga Parva, Adhyaya 72, Verse 15

हयग्रीवो विदेहानां वरप्रश्च महौजसाम्

बाहुः सुन्दरवेगानां दीप्ताक्षाणां पुरूरवाः

Mahabharata

Udyoga Parva, Adhyaya 72, Verse 16

सहजश्चेदिमत्स्यानां प्रचेतानां बृहद्बलः

धारणश्चेन्द्रवत्सानां मुकुटानां विगाहनः

Mahabharata

Udyoga Parva, Adhyaya 72, Verse 17

शमश्च नन्दिवेगानामित्येते कुलपांसनाः

युगान्ते कृष्ण संभूताः कुलेषु पुरुषाधमाः

Mahabharata

Udyoga Parva, Adhyaya 72, Verse 18

अप्ययं नः कुरूणां स्याद्युगान्ते कालसंभृतः

दुर्योधनः कुलाङ्गारो जघन्यः पापपूरुषः

Mahabharata

Udyoga Parva, Adhyaya 72, Verse 19

तस्मान्मृदु शनैरेनं ब्रूया धर्मार्थसंहितम्

कामानुबन्धबहुलं नोग्रमुग्रपराक्रमम्

Mahabharata

Udyoga Parva, Adhyaya 72, Verse 20

अपि दुर्योधनं कृष्ण सर्वे वयमधश्चराः

नीचैर्भूत्वानुयास्यामो मा स्म नो भरता नशन्

Mahabharata

Udyoga Parva, Adhyaya 72, Verse 21

अप्युदासीनवृत्तिः स्याद्यथा नः कुरुभिः सह

वासुदेव तथा कार्यं न कुरूननयः स्पृशेत्

Mahabharata

Udyoga Parva, Adhyaya 72, Verse 22

वाच्यः पितामहो वृद्धो ये च कृष्ण सभासदः

भ्रातॄणामस्तु सौभ्रात्रं धार्तराष्ट्रः प्रशाम्यताम्

Mahabharata

Udyoga Parva, Adhyaya 72, Verse 23

अहमेतद्ब्रवीम्येवं राजा चैव प्रशंसति

अर्जुनो नैव युद्धार्थी भूयसी हि दयार्जुने