Udyoga Parva, Adhyaya 71, Verse 1
संजयस्य श्रुतं वाक्यं भवतश्च श्रुतं मया
सर्वं जानाम्यभिप्रायं तेषां च भवतश्च यः
Containing 37 sacred Sanskrit shlokas with multi-author commentaries and translations.
संजयस्य श्रुतं वाक्यं भवतश्च श्रुतं मया
सर्वं जानाम्यभिप्रायं तेषां च भवतश्च यः
तव धर्माश्रिता बुद्धिस्तेषां वैराश्रिता मतिः
यदयुद्धेन लभ्येत तत्ते बहुमतं भवेत्
न च तन्नैष्ठिकं कर्म क्षत्रियस्य विशां पते
आहुराश्रमिणः सर्वे यद्भैक्षं क्षत्रियश्चरेत्
जयो वधो वा संग्रामे धात्रा दिष्टः सनातनः
स्वधर्मः क्षत्रियस्यैष कार्पण्यं न प्रशस्यते
न हि कार्पण्यमास्थाय शक्या वृत्तिर्युधिष्ठिर
विक्रमस्व महाबाहो जहि शत्रूनरिंदम
अतिगृद्धाः कृतस्नेहा दीर्घकालं सहोषिताः
कृतमित्राः कृतबला धार्तराष्ट्राः परंतप
न पर्यायोऽस्ति यत्साम्यं त्वयि कुर्युर्विशां पते
बलवत्तां हि मन्यन्ते भीष्मद्रोणकृपादिभिः
यावच्च मार्दवेनैतान्राजन्नुपचरिष्यसि
तावदेते हरिष्यन्ति तव राज्यमरिंदम
नानुक्रोशान्न कार्पण्यान्न च धर्मार्थकारणात्
अलं कर्तुं धार्तराष्ट्रास्तव काममरिंदम
एतदेव निमित्तं ते पाण्डवास्तु यथा त्वयि
नान्वतप्यन्त कौपीनं तावत्कृत्वापि दुष्करम्
पितामहस्य द्रोणस्य विदुरस्य च धीमतः
पश्यतां कुरुमुख्यानां सर्वेषामेव तत्त्वतः
दानशीलं मृदुं दान्तं धर्मकाममनुव्रतम्
यत्त्वामुपधिना राजन्द्यूतेनावञ्चयत्तदा
न चापत्रपते पापो नृशंसस्तेन कर्मणा
तथाशीलसमाचारे राजन्मा प्रणयं कृथाः
वध्यास्ते सर्वलोकस्य किं पुनस्तव भारत
वाग्भिस्त्वप्रतिरूपाभिरतुदत्सकनीयसम्
श्लाघमानः प्रहृष्टः सन्भाषते भ्रातृभिः सह
एतावत्पाण्डवानां हि नास्ति किंचिदिह स्वकम्
नामधेयं च गोत्रं च तदप्येषां न शिष्यते
कालेन महता चैषां भविष्यति पराभवः
प्रकृतिं ते भजिष्यन्ति नष्टप्रकृतयो जनाः
एताश्चान्याश्च परुषा वाचः स समुदीरयन्
श्लाघते ज्ञातिमध्ये स्म त्वयि प्रव्रजिते वनम्
ये तत्रासन्समानीतास्ते दृष्ट्वा त्वामनागसम्
अश्रुकण्ठा रुदन्तश्च सभायामासते तदा
न चैनमभ्यनन्दंस्ते राजानो ब्राह्मणैः सह
सर्वे दुर्योधनं तत्र निन्दन्ति स्म सभासदः
कुलीनस्य च या निन्दा वधश्चामित्रकर्शन
महागुणो वधो राजन्न तु निन्दा कुजीविका
तदैव निहतो राजन्यदैव निरपत्रपः
निन्दितश्च महाराज पृथिव्यां सर्वराजसु
ईषत्कार्यो वधस्तस्य यस्य चारित्रमीदृशम्
प्रस्कम्भनप्रतिस्तब्धश्छिन्नमूल इव द्रुमः
वध्यः सर्प इवानार्यः सर्वलोकस्य दुर्मतिः
जह्येनं त्वममित्रघ्न मा राजन्विचिकित्सिथाः
सर्वथा त्वत्क्षमं चैतद्रोचते च ममानघ
यत्त्वं पितरि भीष्मे च प्रणिपातं समाचरेः
अहं तु सर्वलोकस्य गत्वा छेत्स्यामि संशयम्
येषामस्ति द्विधाभावो राजन्दुर्योधनं प्रति
मध्ये राज्ञामहं तत्र प्रातिपौरुषिकान्गुणान्
तव संकीर्तयिष्यामि ये च तस्य व्यतिक्रमाः
ब्रुवतस्तत्र मे वाक्यं धर्मार्थसहितं हितम्
निशम्य पार्थिवाः सर्वे नानाजनपदेश्वराः
त्वयि संप्रतिपत्स्यन्ते धर्मात्मा सत्यवागिति
तस्मिंश्चाधिगमिष्यन्ति यथा लोभादवर्तत
गर्हयिष्यामि चैवैनं पौरजानपदेष्वपि
वृद्धबालानुपादाय चातुर्वर्ण्यसमागमे
शमं चेद्याचमानस्त्वं न धर्मं तत्र लप्स्यसे
कुरून्विगर्हयिष्यन्ति धृतराष्ट्रं च पार्थिवाः