Mahabharata

Udyoga Parva, Adhyaya 69

Containing 7 sacred Sanskrit shlokas with multi-author commentaries and translations.

Mahabharata

Udyoga Parva, Adhyaya 69, Verse 1

चक्षुष्मतां वै स्पृहयामि संजय; द्रक्ष्यन्ति ये वासुदेवं समीपे

विभ्राजमानं वपुषा परेण; प्रकाशयन्तं प्रदिशो दिशश्च

Mahabharata

Udyoga Parva, Adhyaya 69, Verse 2

ईरयन्तं भारतीं भारताना;मभ्यर्चनीयां शंकरीं सृञ्जयानाम्

बुभूषद्भिर्ग्रहणीयामनिन्द्यां; परासूनामग्रहणीयरूपाम्

Mahabharata

Udyoga Parva, Adhyaya 69, Verse 3

समुद्यन्तं सात्वतमेकवीरं; प्रणेतारमृषभं यादवानाम्

निहन्तारं क्षोभणं शात्रवाणां; मुष्णन्तं च द्विषतां वै यशांसि

Mahabharata

Udyoga Parva, Adhyaya 69, Verse 4

द्रष्टारो हि कुरवस्तं समेता; महात्मानं शत्रुहणं वरेण्यम्

ब्रुवन्तं वाचमनृशंसरूपां; वृष्णिश्रेष्ठं मोहयन्तं मदीयान्

Mahabharata

Udyoga Parva, Adhyaya 69, Verse 5

ऋषिं सनातनतमं विपश्चितं; वाचः समुद्रं कलशं यतीनाम्

अरिष्टनेमिं गरुडं सुपर्णं; पतिं प्रजानां भुवनस्य धाम

Mahabharata

Udyoga Parva, Adhyaya 69, Verse 6

सहस्रशीर्षं पुरुषं पुराण;मनादिमध्यान्तमनन्तकीर्तिम्

शुक्रस्य धातारमजं जनित्रं; परं परेभ्यः शरणं प्रपद्ये

Mahabharata

Udyoga Parva, Adhyaya 69, Verse 7

त्रैलोक्यनिर्माणकरं जनित्रं; देवासुराणामथ नागरक्षसाम्

नराधिपानां विदुषां प्रधान;मिन्द्रानुजं तं शरणं प्रपद्ये