Udyoga Parva, Adhyaya 67, Verse 1
कथं त्वं माधवं वेत्थ सर्वलोकमहेश्वरम्
कथमेनं न वेदाहं तन्ममाचक्ष्व संजय
Containing 21 sacred Sanskrit shlokas with multi-author commentaries and translations.
कथं त्वं माधवं वेत्थ सर्वलोकमहेश्वरम्
कथमेनं न वेदाहं तन्ममाचक्ष्व संजय
विद्या राजन्न ते विद्या मम विद्या न हीयते
विद्याहीनस्तमोध्वस्तो नाभिजानाति केशवम्
विद्यया तात जानामि त्रियुगं मधुसूदनम्
कर्तारमकृतं देवं भूतानां प्रभवाप्ययम्
गावल्गणेऽत्र का भक्तिर्या ते नित्या जनार्दने
यया त्वमभिजानासि त्रियुगं मधुसूदनम्
मायां न सेवे भद्रं ते न वृथाधर्ममाचरे
शुद्धभावं गतो भक्त्या शास्त्राद्वेद्मि जनार्दनम्
दुर्योधन हृषीकेशं प्रपद्यस्व जनार्दनम्
आप्तो नः संजयस्तात शरणं गच्छ केशवम्
भगवान्देवकीपुत्रो लोकं चेन्निहनिष्यति
प्रवदन्नर्जुने सख्यं नाहं गच्छेऽद्य केशवम्
अवाग्गान्धारि पुत्रस्ते गच्छत्येष सुदुर्मतिः
ईर्ष्युर्दुरात्मा मानी च श्रेयसां वचनातिगः
ऐश्वर्यकाम दुष्टात्मन्वृद्धानां शासनातिग
ऐश्वर्यजीविते हित्वा पितरं मां च बालिश
वर्धयन्दुर्हृदां प्रीतिं मां च शोकेन वर्धयन्
निहतो भीमसेनेन स्मर्तासि वचनं पितुः
दयितोऽसि राजन्कृष्णस्य धृतराष्ट्र निबोध मे
यस्य ते संजयो दूतो यस्त्वां श्रेयसि योक्ष्यते
जानात्येष हृषीकेशं पुराणं यच्च वै नवम्
शुश्रूषमाणमेकाग्रं मोक्ष्यते महतो भयात्
वैचित्रवीर्य पुरुषाः क्रोधहर्षतमोवृताः
सिता बहुविधैः पाशैर्ये न तुष्टाः स्वकैर्धनैः
यमस्य वशमायान्ति काममूढाः पुनः पुनः
अन्धनेत्रा यथैवान्धा नीयमानाः स्वकर्मभिः
एष एकायनः पन्था येन यान्ति मनीषिणः
तं दृष्ट्वा मृत्युमत्येति महांस्तत्र न सज्जते
अङ्ग संजय मे शंस पन्थानमकुतोभयम्
येन गत्वा हृषीकेशं प्राप्नुयां शान्तिमुत्तमाम्
नाकृतात्मा कृतात्मानं जातु विद्याज्जनार्दनम्
आत्मनस्तु क्रियोपायो नान्यत्रेन्द्रियनिग्रहात्
इन्द्रियाणामुदीर्णानां कामत्यागोऽप्रमादतः
अप्रमादोऽविहिंसा च ज्ञानयोनिरसंशयम्
इन्द्रियाणां यमे यत्तो भव राजन्नतन्द्रितः
बुद्धिश्च मा ते च्यवतु नियच्छैतां यतस्ततः
एतज्ज्ञानं विदुर्विप्रा ध्रुवमिन्द्रियधारणम्
एतज्ज्ञानं च पन्थाश्च येन यान्ति मनीषिणः
अप्राप्यः केशवो राजन्निन्द्रियैरजितैर्नृभिः
आगमाधिगतो योगाद्वशी तत्त्वे प्रसीदति