Udyoga Parva, Adhyaya 66, Verse 1
अर्जुनो वासुदेवश्च धन्विनौ परमार्चितौ
कामादन्यत्र संभूतौ सर्वाभावाय संमितौ
Containing 15 sacred Sanskrit shlokas with multi-author commentaries and translations.
अर्जुनो वासुदेवश्च धन्विनौ परमार्चितौ
कामादन्यत्र संभूतौ सर्वाभावाय संमितौ
द्यामन्तरं समास्थाय यथायुक्तं मनस्विनः
चक्रं तद्वासुदेवस्य मायया वर्तते विभो
सापह्नवं पाण्डवेषु पाण्डवानां सुसंमतम्
सारासारबलं ज्ञात्वा तत्समासेन मे शृणु
नरकं शम्बरं चैव कंसं चैद्यं च माधवः
जितवान्घोरसंकाशान्क्रीडन्निव जनार्दनः
पृथिवीं चान्तरिक्षं च द्यां चैव पुरुषोत्तमः
मनसैव विशिष्टात्मा नयत्यात्मवशं वशी
भूयो भूयो हि यद्राजन्पृच्छसे पाण्डवान्प्रति
सारासारबलं ज्ञातुं तन्मे निगदतः शृणु
एकतो वा जगत्कृत्स्नमेकतो वा जनार्दनः
सारतो जगतः कृत्स्नादतिरिक्तो जनार्दनः
भस्म कुर्याज्जगदिदं मनसैव जनार्दनः
न तु कृत्स्नं जगच्छक्तं भस्म कर्तुं जनार्दनम्
यतः सत्यं यतो धर्मो यतो ह्रीरार्जवं यतः
ततो भवति गोविन्दो यतः कृष्णस्ततो जयः
पृथिवीं चान्तरिक्षं च दिवं च पुरुषोत्तमः
विचेष्टयति भूतात्मा क्रीडन्निव जनार्दनः
स कृत्वा पाण्डवान्सत्रं लोकं संमोहयन्निव
अधर्मनिरतान्मूढान्दग्धुमिच्छति ते सुतान्
कालचक्रं जगच्चक्रं युगचक्रं च केशवः
आत्मयोगेन भगवान्परिवर्तयतेऽनिशम्
कालस्य च हि मृत्योश्च जङ्गमस्थावरस्य च
ईशते भगवानेकः सत्यमेतद्ब्रवीमि ते
ईशन्नपि महायोगी सर्वस्य जगतो हरिः
कर्माण्यारभते कर्तुं कीनाश इव दुर्बलः
तेन वञ्चयते लोकान्मायायोगेन केशवः
ये तमेव प्रपद्यन्ते न ते मुह्यन्ति मानवाः