Udyoga Parva, Adhyaya 64, Verse 1
एवमुक्त्वा महाप्राज्ञो धृतराष्ट्रः सुयोधनम्
पुनरेव महाभागः संजयं पर्यपृच्छत
Containing 15 sacred Sanskrit shlokas with multi-author commentaries and translations.
एवमुक्त्वा महाप्राज्ञो धृतराष्ट्रः सुयोधनम्
पुनरेव महाभागः संजयं पर्यपृच्छत
ब्रूहि संजय यच्छेषं वासुदेवादनन्तरम्
यदर्जुन उवाच त्वां परं कौतूहलं हि मे
वासुदेववचः श्रुत्वा कुन्तीपुत्रो धनंजयः
उवाच काले दुर्धर्षो वासुदेवस्य शृण्वतः
पितामहं शांतनवं धृतराष्ट्रं च संजय
द्रोणं कृपं च कर्णं च महाराजं च बाह्लिकम्
द्रौणिं च सोमदत्तं च शकुनिं चापि सौबलम्
दुःशासनं शलं चैव पुरुमित्रं विविंशतिम्
विकर्णं चित्रसेनं च जयत्सेनं च पार्थिवम्
विन्दानुविन्दावावन्त्यौ दुर्मुखं चापि कौरवम्
सैन्धवं दुःसहं चैव भूरिश्रवसमेव च
भगदत्तं च राजानं जलसंधं च पार्थिवम्
ये चाप्यन्ये पार्थिवास्तत्र योद्धुं; समागताः कौरवाणां प्रियार्थम्
मुमूर्षवः पाण्डवाग्नौ प्रदीप्ते; समानीता धार्तराष्ट्रेण सूत
यथान्यायं कौशलं वन्दनं च; समागता मद्वचनेन वाच्याः
इदं ब्रूयाः संजय राजमध्ये; सुयोधनं पापकृतां प्रधानम्
अमर्षणं दुर्मतिं राजपुत्रं; पापात्मानं धार्तराष्ट्रं सुलुब्धम्
सर्वं ममैतद्वचनं समग्रं; सहामात्यं संजय श्रावयेथाः
एवं प्रतिष्ठाप्य धनंजयो मां; ततोऽर्थवद्धर्मवच्चापि वाक्यम्
प्रोवाचेदं वासुदेवं समीक्ष्य; पार्थो धीमाँल्लोहितान्तायताक्षः
यथा श्रुतं ते वदतो महात्मनो; मधुप्रवीरस्य वचः समाहितम्
तथैव वाच्यं भवता हि मद्वचः; समागतेषु क्षितिपेषु सर्वशः
शराग्निधूमे रथनेमिनादिते; धनुःस्रुवेणास्त्रबलापहारिणा
यथा न होमः क्रियते महामृधे; तथा समेत्य प्रयतध्वमादृताः
न चेत्प्रयच्छध्वममित्रघातिनो; युधिष्ठिरस्यांशमभीप्सितं स्वकम्
नयामि वः स्वाश्वपदातिकुञ्जरा;न्दिशं पितॄणामशिवां शितैः शरैः
ततोऽहमामन्त्र्य चतुर्भुजं हरिं; धनंजयं चैव नमस्य सत्वरः
जवेन संप्राप्त इहामरद्युते; तवान्तिकं प्रापयितुं वचो महत्