Mahabharata

Udyoga Parva, Adhyaya 63

Containing 16 sacred Sanskrit shlokas with multi-author commentaries and translations.

Mahabharata

Udyoga Parva, Adhyaya 63, Verse 1

दुर्योधन विजानीहि यत्त्वां वक्ष्यामि पुत्रक

उत्पथं मन्यसे मार्गमनभिज्ञ इवाध्वगः

Mahabharata

Udyoga Parva, Adhyaya 63, Verse 2

पञ्चानां पाण्डुपुत्राणां यत्तेजः प्रमिमीषसि

पञ्चानामिव भूतानां महतां सुमहात्मनाम्

Mahabharata

Udyoga Parva, Adhyaya 63, Verse 3

युधिष्ठिरं हि कौन्तेयं परं धर्ममिहास्थितम्

परां गतिमसंप्रेक्ष्य न त्वं वेत्तुमिहार्हसि

Mahabharata

Udyoga Parva, Adhyaya 63, Verse 4

भीमसेनं च कौन्तेयं यस्य नास्ति समो बले

रणान्तकं तर्कयसे महावातमिव द्रुमः

Mahabharata

Udyoga Parva, Adhyaya 63, Verse 5

सर्वशस्त्रभृतां श्रेष्ठं मेरुं शिखरिणामिव

युधि गाण्डीवधन्वानं को नु युध्येत बुद्धिमान्

Mahabharata

Udyoga Parva, Adhyaya 63, Verse 6

धृष्टद्युम्नश्च पाञ्चाल्यः कमिवाद्य न शातयेत्

शत्रुमध्ये शरान्मुञ्चन्देवराडशनीमिव

Mahabharata

Udyoga Parva, Adhyaya 63, Verse 7

सात्यकिश्चापि दुर्धर्षः संमतोऽन्धकवृष्णिषु

ध्वंसयिष्यति ते सेनां पाण्डवेयहिते रतः

Mahabharata

Udyoga Parva, Adhyaya 63, Verse 8

यः पुनः प्रतिमानेन त्रीँल्लोकानतिरिच्यते

तं कृष्णं पुण्डरीकाक्षं को नु युध्येत बुद्धिमान्

Mahabharata

Udyoga Parva, Adhyaya 63, Verse 9

एकतो ह्यस्य दाराश्च ज्ञातयश्च सबान्धवाः

आत्मा च पृथिवी चेयमेकतश्च धनंजयः

Mahabharata

Udyoga Parva, Adhyaya 63, Verse 10

वासुदेवोऽपि दुर्धर्षो यतात्मा यत्र पाण्डवः

अविषह्यं पृथिव्यापि तद्बलं यत्र केशवः

Mahabharata

Udyoga Parva, Adhyaya 63, Verse 11

तिष्ठ तात सतां वाक्ये सुहृदामर्थवादिनाम्

वृद्धं शांतनवं भीष्मं तितिक्षस्व पितामहम्

Mahabharata

Udyoga Parva, Adhyaya 63, Verse 12

मां च ब्रुवाणं शुश्रूष कुरूणामर्थवादिनम्

द्रोणं कृपं विकर्णं च महाराजं च बाह्लिकम्

Mahabharata

Udyoga Parva, Adhyaya 63, Verse 13

एते ह्यपि यथैवाहं मन्तुमर्हसि तांस्तथा

सर्वे धर्मविदो ह्येते तुल्यस्नेहाश्च भारत

Mahabharata

Udyoga Parva, Adhyaya 63, Verse 14

यत्तद्विराटनगरे सह भ्रातृभिरग्रतः

उत्सृज्य गाः सुसंत्रस्तं बलं ते समशीर्यत

Mahabharata

Udyoga Parva, Adhyaya 63, Verse 15

यच्चैव तस्मिन्नगरे श्रूयते महदद्भुतम्

एकस्य च बहूनां च पर्याप्तं तन्निदर्शनम्

Mahabharata

Udyoga Parva, Adhyaya 63, Verse 16

अर्जुनस्तत्तथाकार्षीत्किं पुनः सर्व एव ते

सभ्रातॄनभिजानीहि वृत्त्या च प्रतिपादय