Udyoga Parva, Adhyaya 62, Verse 1
सदृशानां मनुष्येषु सर्वेषां तुल्यजन्मनाम्
कथमेकान्ततस्तेषां पार्थानां मन्यसे जयम्
Containing 31 sacred Sanskrit shlokas with multi-author commentaries and translations.
सदृशानां मनुष्येषु सर्वेषां तुल्यजन्मनाम्
कथमेकान्ततस्तेषां पार्थानां मन्यसे जयम्
सर्वे स्म समजातीयाः सर्वे मानुषयोनयः
पितामह विजानीषे पार्थेषु विजयं कथम्
नाहं भवति न द्रोणे न कृपे न च बाह्लिके
अन्येषु च नरेन्द्रेषु पराक्रम्य समारभे
अहं वैकर्तनः कर्णो भ्राता दुःशासनश्च मे
पाण्डवान्समरे पञ्च हनिष्यामः शितैः शरैः
ततो राजन्महायज्ञैर्विविधैर्भूरिदक्षिणैः
ब्राह्मणांस्तर्पयिष्यामि गोभिरश्वैर्धनेन च
शकुनीनामिहार्थाय पाशं भूमावयोजयत्
कश्चिच्छाकुनिकस्तात पूर्वेषामिति शुश्रुम
तस्मिन्द्वौ शकुनौ बद्धौ युगपत्समपौरुषौ
तावुपादाय तं पाशं जग्मतुः खचरावुभौ
तौ विहायसमाक्रान्तौ दृष्ट्वा शाकुनिकस्तदा
अन्वधावदनिर्विण्णो येन येन स्म गच्छतः
तथा तमनुधावन्तं मृगयुं शकुनार्थिनम्
आश्रमस्थो मुनिः कश्चिद्ददर्शाथ कृताह्निकः
तावन्तरिक्षगौ शीघ्रमनुयान्तं महीचरम्
श्लोकेनानेन कौरव्य पप्रच्छ स मुनिस्तदा
विचित्रमिदमाश्चर्यं मृगहन्प्रतिभाति मे
प्लवमानौ हि खचरौ पदातिरनुधावसि
पाशमेकमुभावेतौ सहितौ हरतो मम
यत्र वै विवदिष्येते तत्र मे वशमेष्यतः
तौ विवादमनुप्राप्तौ शकुनौ मृत्युसंधितौ
विगृह्य च सुदुर्बुद्धी पृथिव्यां संनिपेततुः
तौ युध्यमानौ संरब्धौ मृत्युपाशवशानुगौ
उपसृत्यापरिज्ञातो जग्राह मृगयुस्तदा
एवं ये ज्ञातयोऽर्थेषु मिथो गच्छन्ति विग्रहम्
तेऽमित्रवशमायान्ति शकुनाविव विग्रहात्
संभोजनं संकथनं संप्रश्नोऽथ समागमः
एतानि ज्ञातिकार्याणि न विरोधः कदाचन
यस्मिन्काले सुमनसः सर्वे वृद्धानुपासते
सिंहगुप्तमिवारण्यमप्रधृष्या भवन्ति ते
येऽर्थं संततमासाद्य दीना इव समासते
श्रियं ते संप्रयच्छन्ति द्विषद्भ्यो भरतर्षभ
धूमायन्ते व्यपेतानि ज्वलन्ति सहितानि च
धृतराष्ट्रोल्मुकानीव ज्ञातयो भरतर्षभ
इदमन्यत्प्रवक्ष्यामि यथा दृष्टं गिरौ मया
श्रुत्वा तदपि कौरव्य यथा श्रेयस्तथा कुरु
वयं किरातैः सहिता गच्छामो गिरिमुत्तरम्
ब्राह्मणैर्देवकल्पैश्च विद्याजम्भकवातिकैः
कुञ्जभूतं गिरिं सर्वमभितो गन्धमादनम्
दीप्यमानौषधिगणं सिद्धगन्धर्वसेवितम्
तत्र पश्यामहे सर्वे मधु पीतममाक्षिकम्
मरुप्रपाते विषमे निविष्टं कुम्भसंमितम्
आशीविषै रक्ष्यमाणं कुबेरदयितं भृशम्
यत्प्राश्य पुरुषो मर्त्यो अमरत्वं निगच्छति
अचक्षुर्लभते चक्षुर्वृद्धो भवति वै युवा
इति ते कथयन्ति स्म ब्राह्मणा जम्भसाधकाः
ततः किरातास्तद्दृष्ट्वा प्रार्थयन्तो महीपते
विनेशुर्विषमे तस्मिन्ससर्पे गिरिगह्वरे
तथैव तव पुत्रोऽयं पृथिवीमेक इच्छति
मधु पश्यति संमोहात्प्रपातं नानुपश्यति
दुर्योधनो योद्धुमनाः समरे सव्यसाचिना
न च पश्यामि तेजोऽस्य विक्रमं वा तथाविधम्
एकेन रथमास्थाय पृथिवी येन निर्जिता
प्रतीक्षमाणो यो वीरः क्षमते वीक्षितं तव
द्रुपदो मत्स्यराजश्च संक्रुद्धश्च धनंजयः
न शेषयेयुः समरे वायुयुक्ता इवाग्नयः