Mahabharata

Udyoga Parva, Adhyaya 61

Containing 18 sacred Sanskrit shlokas with multi-author commentaries and translations.

Mahabharata

Udyoga Parva, Adhyaya 61, Verse 1

तथा तु पृच्छन्तमतीव पार्था;न्वैचित्रवीर्यं तमचिन्तयित्वा

उवाच कर्णो धृतराष्ट्रपुत्रं; प्रहर्षयन्संसदि कौरवाणाम्

Mahabharata

Udyoga Parva, Adhyaya 61, Verse 2

मिथ्या प्रतिज्ञाय मया यदस्त्रं; रामाद्धृतं ब्रह्मपुरं पुरस्तात्

विज्ञाय तेनास्मि तदैवमुक्त;स्तवान्तकालेऽप्रतिभास्यतीति

Mahabharata

Udyoga Parva, Adhyaya 61, Verse 3

महापराधे ह्यपि संनतेन; महर्षिणाहं गुरुणा च शप्तः

शक्तः प्रदग्धुं ह्यपि तिग्मतेजाः; ससागरामप्यवनिं महर्षिः

Mahabharata

Udyoga Parva, Adhyaya 61, Verse 4

प्रसादितं ह्यस्य मया मनोऽभू;च्छुश्रूषया स्वेन च पौरुषेण

ततस्तदस्त्रं मम सावशेषं; तस्मात्समर्थोऽस्मि ममैष भारः

Mahabharata

Udyoga Parva, Adhyaya 61, Verse 5

निमेषमात्रं तमृषिप्रसाद;मवाप्य पाञ्चालकरूषमत्स्यान्

निहत्य पार्थांश्च सपुत्रपौत्राँ;ल्लोकानहं शस्त्रजितान्प्रपत्स्ये

Mahabharata

Udyoga Parva, Adhyaya 61, Verse 6

पितामहस्तिष्ठतु ते समीपे; द्रोणश्च सर्वे च नरेन्द्रमुख्याः

यथाप्रधानेन बलेन यात्वा; पार्थान्हनिष्यामि ममैष भारः

Mahabharata

Udyoga Parva, Adhyaya 61, Verse 7

एवं ब्रुवाणं तमुवाच भीष्मः; किं कत्थसे कालपरीतबुद्धे

न कर्ण जानासि यथा प्रधाने; हते हताः स्युर्धृतराष्ट्रपुत्राः

Mahabharata

Udyoga Parva, Adhyaya 61, Verse 8

यत्खाण्डवं दाहयता कृतं हि; कृष्णद्वितीयेन धनंजयेन

श्रुत्वैव तत्कर्म नियन्तुमात्मा; शक्यस्त्वया वै सह बान्धवेन

Mahabharata

Udyoga Parva, Adhyaya 61, Verse 9

यां चापि शक्तिं त्रिदशाधिपस्ते; ददौ महात्मा भगवान्महेन्द्रः

भस्मीकृतां तां पतितां विशीर्णां; चक्राहतां द्रक्ष्यसि केशवेन

Mahabharata

Udyoga Parva, Adhyaya 61, Verse 10

यस्ते शरः सर्पमुखो विभाति; सदाग्र्यमाल्यैर्महितः प्रयत्नात्

स पाण्डुपुत्राभिहतः शरौघैः; सह त्वया यास्यति कर्ण नाशम्

Mahabharata

Udyoga Parva, Adhyaya 61, Verse 11

बाणस्य भौमस्य च कर्ण हन्ता; किरीटिनं रक्षति वासुदेवः

यस्त्वादृशानां च गरीयसां च; हन्ता रिपूणां तुमुले प्रगाढे

Mahabharata

Udyoga Parva, Adhyaya 61, Verse 12

असंशयं वृष्णिपतिर्यथोक्त;स्तथा च भूयश्च ततो महात्मा

अहं यदुक्तः परुषं तु किंचि;त्पितामहस्तस्य फलं शृणोतु

Mahabharata

Udyoga Parva, Adhyaya 61, Verse 13

न्यस्यामि शस्त्राणि न जातु संख्ये; पितामहो द्रक्ष्यति मां सभायाम्

त्वयि प्रशान्ते तु मम प्रभावं; द्रक्ष्यन्ति सर्वे भुवि भूमिपालाः

Mahabharata

Udyoga Parva, Adhyaya 61, Verse 14

इत्येवमुक्त्वा स महाधनुष्मा;न्हित्वा सभां स्वं भवनं जगाम

भीष्मस्तु दुर्योधनमेव राज;न्मध्ये कुरूणां प्रहसन्नुवाच

Mahabharata

Udyoga Parva, Adhyaya 61, Verse 15

सत्यप्रतिज्ञः किल सूतपुत्र;स्तथा स भारं विषहेत कस्मात्

व्यूहं प्रतिव्यूह्य शिरांसि भित्त्वा; लोकक्षयं पश्यत भीमसेनात्

Mahabharata

Udyoga Parva, Adhyaya 61, Verse 16

आवन्त्यकालिङ्गजयद्रथेषु; वेदिध्वजे तिष्ठति बाह्लिके च

अहं हनिष्यामि सदा परेषां; सहस्रशश्चायुतशश्च योधान्

Mahabharata

Udyoga Parva, Adhyaya 61, Verse 17

यदैव रामे भगवत्यनिन्द्ये; ब्रह्म ब्रुवाणः कृतवांस्तदस्त्रम्

तदैव धर्मश्च तपश्च नष्टं; वैकर्तनस्याधमपूरुषस्य

Mahabharata

Udyoga Parva, Adhyaya 61, Verse 18

अथोक्तवाक्ये नृपतौ तु भीष्मे; निक्षिप्य शस्त्राणि गते च कर्णे

वैचित्रवीर्यस्य सुतोऽल्पबुद्धि;र्दुर्योधनः शांतनवं बभाषे