Mahabharata

Udyoga Parva, Adhyaya 60

Containing 29 sacred Sanskrit shlokas with multi-author commentaries and translations.

Mahabharata

Udyoga Parva, Adhyaya 60, Verse 1

पितुरेतद्वचः श्रुत्वा धार्तराष्ट्रोऽत्यमर्षणः

आधाय विपुलं क्रोधं पुनरेवेदमब्रवीत्

Mahabharata

Udyoga Parva, Adhyaya 60, Verse 2

अशक्या देवसचिवाः पार्थाः स्युरिति यद्भवान्

मन्यते तद्भयं व्येतु भवतो राजसत्तम

Mahabharata

Udyoga Parva, Adhyaya 60, Verse 3

अकामद्वेषसंयोगाद्द्रोहाल्लोभाच्च भारत

उपेक्षया च भावानां देवा देवत्वमाप्नुवन्

Mahabharata

Udyoga Parva, Adhyaya 60, Verse 4

इति द्वैपायनो व्यासो नारदश्च महातपाः

जामदग्न्यश्च रामो नः कथामकथयत्पुरा

Mahabharata

Udyoga Parva, Adhyaya 60, Verse 5

नैव मानुषवद्देवाः प्रवर्तन्ते कदाचन

कामाल्लोभादनुक्रोशाद्द्वेषाच्च भरतर्षभ

Mahabharata

Udyoga Parva, Adhyaya 60, Verse 6

यदि ह्यग्निश्च वायुश्च धर्म इन्द्रोऽश्विनावपि

कामयोगात्प्रवर्तेरन्न पार्था दुःखमाप्नुयुः

Mahabharata

Udyoga Parva, Adhyaya 60, Verse 7

तस्मान्न भवता चिन्ता कार्यैषा स्यात्कदाचन

दैवेष्वपेक्षका ह्येते शश्वद्भावेषु भारत

Mahabharata

Udyoga Parva, Adhyaya 60, Verse 8

अथ चेत्कामसंयोगाद्द्वेषाल्लोभाच्च लक्ष्यते

देवेषु देवप्रामाण्यं नैव तद्विक्रमिष्यति

Mahabharata

Udyoga Parva, Adhyaya 60, Verse 9

मयाभिमन्त्रितः शश्वज्जातवेदाः प्रशंसति

दिधक्षुः सकलाँल्लोकान्परिक्षिप्य समन्ततः

Mahabharata

Udyoga Parva, Adhyaya 60, Verse 10

यद्वा परमकं तेजो येन युक्ता दिवौकसः

ममाप्यनुपमं भूयो देवेभ्यो विद्धि भारत

Mahabharata

Udyoga Parva, Adhyaya 60, Verse 11

प्रदीर्यमाणां वसुधां गिरीणां शिखराणि च

लोकस्य पश्यतो राजन्स्थापयाम्यभिमन्त्रणात्

Mahabharata

Udyoga Parva, Adhyaya 60, Verse 12

चेतनाचेतनस्यास्य जङ्गमस्थावरस्य च

विनाशाय समुत्पन्नं महाघोरं महास्वनम्

Mahabharata

Udyoga Parva, Adhyaya 60, Verse 13

अश्मवर्षं च वायुं च शमयामीह नित्यशः

जगतः पश्यतोऽभीक्ष्णं भूतानामनुकम्पया

Mahabharata

Udyoga Parva, Adhyaya 60, Verse 14

स्तम्भितास्वप्सु गच्छन्ति मया रथपदातयः

देवासुराणां भावानामहमेकः प्रवर्तिता

Mahabharata

Udyoga Parva, Adhyaya 60, Verse 15

अक्षौहिणीभिर्यान्देशान्यामि कार्येण केनचित्

तत्रापो मे प्रवर्तन्ते यत्र यत्राभिकामये

Mahabharata

Udyoga Parva, Adhyaya 60, Verse 16

भयानि विषये राजन्व्यालादीनि न सन्ति मे

मत्तः सुप्तानि भूतानि न हिंसन्ति भयंकराः

Mahabharata

Udyoga Parva, Adhyaya 60, Verse 17

निकामवर्षी पर्जन्यो राजन्विषयवासिनाम्

धर्मिष्ठाश्च प्रजाः सर्वा ईतयश्च न सन्ति मे

Mahabharata

Udyoga Parva, Adhyaya 60, Verse 18

अश्विनावथ वाय्वग्नी मरुद्भिः सह वृत्रहा

धर्मश्चैव मया द्विष्टान्नोत्सहन्तेऽभिरक्षितुम्

Mahabharata

Udyoga Parva, Adhyaya 60, Verse 19

यदि ह्येते समर्थाः स्युर्मद्द्विषस्त्रातुमोजसा

न स्म त्रयोदश समाः पार्था दुःखमवाप्नुयुः

Mahabharata

Udyoga Parva, Adhyaya 60, Verse 20

नैव देवा न गन्धर्वा नासुरा न च राक्षसाः

शक्तास्त्रातुं मया द्विष्टं सत्यमेतद्ब्रवीमि ते

Mahabharata

Udyoga Parva, Adhyaya 60, Verse 21

यदभिध्याम्यहं शश्वच्छुभं वा यदि वाशुभम्

नैतद्विपन्नपूर्वं मे मित्रेष्वरिषु चोभयोः

Mahabharata

Udyoga Parva, Adhyaya 60, Verse 22

भविष्यतीदमिति वा यद्ब्रवीमि परंतप

नान्यथा भूतपूर्वं तत्सत्यवागिति मां विदुः

Mahabharata

Udyoga Parva, Adhyaya 60, Verse 23

लोकसाक्षिकमेतन्मे माहात्म्यं दिक्षु विश्रुतम्

आश्वासनार्थं भवतः प्रोक्तं न श्लाघया नृप

Mahabharata

Udyoga Parva, Adhyaya 60, Verse 24

न ह्यहं श्लाघनो राजन्भूतपूर्वः कदाचन

असदाचरितं ह्येतद्यदात्मानं प्रशंसति

Mahabharata

Udyoga Parva, Adhyaya 60, Verse 25

पाण्डवांश्चैव मत्स्यांश्च पाञ्चालान्केकयैः सह

सात्यकिं वासुदेवं च श्रोतासि विजितान्मया

Mahabharata

Udyoga Parva, Adhyaya 60, Verse 26

सरितः सागरं प्राप्य यथा नश्यन्ति सर्वशः

तथैव ते विनङ्क्ष्यन्ति मामासाद्य सहान्वयाः

Mahabharata

Udyoga Parva, Adhyaya 60, Verse 27

परा बुद्धिः परं तेजो वीर्यं च परमं मयि

परा विद्या परो योगो मम तेभ्यो विशिष्यते

Mahabharata

Udyoga Parva, Adhyaya 60, Verse 28

पितामहश्च द्रोणश्च कृपः शल्यः शलस्तथा

अस्त्रेषु यत्प्रजानन्ति सर्वं तन्मयि विद्यते

Mahabharata

Udyoga Parva, Adhyaya 60, Verse 29

इत्युक्त्वा संजयं भूयः पर्यपृच्छत भारत

ज्ञात्वा युयुत्सुः कार्याणि प्राप्तकालमरिंदम