Mahabharata

Udyoga Parva, Adhyaya 59

Containing 23 sacred Sanskrit shlokas with multi-author commentaries and translations.

Mahabharata

Udyoga Parva, Adhyaya 59, Verse 1

संजयस्य वचः श्रुत्वा प्रज्ञाचक्षुर्नरेश्वरः

ततः संख्यातुमारेभे तद्वचो गुणदोषतः

Mahabharata

Udyoga Parva, Adhyaya 59, Verse 2

प्रसंख्याय च सौक्ष्म्येण गुणदोषान्विचक्षणः

यथावन्मतितत्त्वेन जयकामः सुतान्प्रति

Mahabharata

Udyoga Parva, Adhyaya 59, Verse 3

बलाबले विनिश्चित्य याथातथ्येन बुद्धिमान्

शक्तिं संख्यातुमारेभे तदा वै मनुजाधिपः

Mahabharata

Udyoga Parva, Adhyaya 59, Verse 4

देवमानुषयोः शक्त्या तेजसा चैव पाण्डवान्

कुरूञ्शक्त्याल्पतरया दुर्योधनमथाब्रवीत्

Mahabharata

Udyoga Parva, Adhyaya 59, Verse 5

दुर्योधनेयं चिन्ता मे शश्वन्नाप्युपशाम्यति

सत्यं ह्येतदहं मन्ये प्रत्यक्षं नानुमानतः

Mahabharata

Udyoga Parva, Adhyaya 59, Verse 6

आत्मजेषु परं स्नेहं सर्वभूतानि कुर्वते

प्रियाणि चैषां कुर्वन्ति यथाशक्ति हितानि च

Mahabharata

Udyoga Parva, Adhyaya 59, Verse 7

एवमेवोपकर्तॄणां प्रायशो लक्षयामहे

इच्छन्ति बहुलं सन्तः प्रतिकर्तुं महत्प्रियम्

Mahabharata

Udyoga Parva, Adhyaya 59, Verse 8

अग्निः साचिव्यकर्ता स्यात्खाण्डवे तत्कृतं स्मरन्

अर्जुनस्यातिभीमेऽस्मिन्कुरुपाण्डुसमागमे

Mahabharata

Udyoga Parva, Adhyaya 59, Verse 9

जातगृध्याभिपन्नाश्च पाण्डवानामनेकशः

धर्मादयो भविष्यन्ति समाहूता दिवौकसः

Mahabharata

Udyoga Parva, Adhyaya 59, Verse 10

भीष्मद्रोणकृपादीनां भयादशनिसंमितम्

रिरक्षिषन्तः संरम्भं गमिष्यन्तीति मे मतिः

Mahabharata

Udyoga Parva, Adhyaya 59, Verse 11

ते देवसहिताः पार्था न शक्याः प्रतिवीक्षितुम्

मानुषेण नरव्याघ्रा वीर्यवन्तोऽस्त्रपारगाः

Mahabharata

Udyoga Parva, Adhyaya 59, Verse 12

दुरासदं यस्य दिव्यं गाण्डीवं धनुरुत्तमम्

वारुणौ चाक्षयौ दिव्यौ शरपूर्णौ महेषुधी

Mahabharata

Udyoga Parva, Adhyaya 59, Verse 13

वानरश्च ध्वजो दिव्यो निःसङ्गो धूमवद्गतिः

रथश्च चतुरन्तायां यस्य नास्ति समस्त्विषा

Mahabharata

Udyoga Parva, Adhyaya 59, Verse 14

महामेघनिभश्चापि निर्घोषः श्रूयते जनैः

महाशनिसमः शब्दः शात्रवाणां भयंकरः

Mahabharata

Udyoga Parva, Adhyaya 59, Verse 15

यं चातिमानुषं वीर्ये कृत्स्नो लोको व्यवस्यति

देवानामपि जेतारं यं विदुः पार्थिवा रणे

Mahabharata

Udyoga Parva, Adhyaya 59, Verse 16

शतानि पञ्च चैवेषूनुद्वपन्निव दृश्यते

निमेषान्तरमात्रेण मुञ्चन्दूरं च पातयन्

Mahabharata

Udyoga Parva, Adhyaya 59, Verse 17

यमाह भीष्मो द्रोणश्च कृपो द्रौणिस्तथैव च

मद्रराजस्तथा शल्यो मध्यस्था ये च मानवाः

Mahabharata

Udyoga Parva, Adhyaya 59, Verse 18

युद्धायावस्थितं पार्थं पार्थिवैरतिमानुषैः

अशक्यं रथशार्दूलं पराजेतुमरिंदमम्

Mahabharata

Udyoga Parva, Adhyaya 59, Verse 19

क्षिपत्येकेन वेगेन पञ्च बाणशतानि यः

सदृशं बाहुवीर्येण कार्तवीर्यस्य पाण्डवम्

Mahabharata

Udyoga Parva, Adhyaya 59, Verse 20

तमर्जुनं महेष्वासं महेन्द्रोपेन्द्ररक्षितम्

निघ्नन्तमिव पश्यामि विमर्देऽस्मिन्महामृधे

Mahabharata

Udyoga Parva, Adhyaya 59, Verse 21

इत्येवं चिन्तयन्कृत्स्नमहोरात्राणि भारत

अनिद्रो निःसुखश्चास्मि कुरूणां शमचिन्तया

Mahabharata

Udyoga Parva, Adhyaya 59, Verse 22

क्षयोदयोऽयं सुमहान्कुरूणां प्रत्युपस्थितः

अस्य चेत्कलहस्यान्तः शमादन्यो न विद्यते

Mahabharata

Udyoga Parva, Adhyaya 59, Verse 23

शमो मे रोचते नित्यं पार्थैस्तात न विग्रहः

कुरुभ्यो हि सदा मन्ये पाण्डवाञ्शक्तिमत्तरान्