Udyoga Parva, Adhyaya 58, Verse 1
यदब्रूतां महात्मानौ वासुदेवधनंजयौ
तन्मे ब्रूहि महाप्राज्ञ शुश्रूषे वचनं तव
Containing 30 sacred Sanskrit shlokas with multi-author commentaries and translations.
यदब्रूतां महात्मानौ वासुदेवधनंजयौ
तन्मे ब्रूहि महाप्राज्ञ शुश्रूषे वचनं तव
शृणु राजन्यथा दृष्टौ मया कृष्णधनंजयौ
ऊचतुश्चापि यद्वीरौ तत्ते वक्ष्यामि भारत
पादाङ्गुलीरभिप्रेक्षन्प्रयतोऽहं कृताञ्जलिः
शुद्धान्तं प्राविशं राजन्नाख्यातुं नरदेवयोः
नैवाभिमन्युर्न यमौ तं देशमभियान्ति वै
यत्र कृष्णौ च कृष्णा च सत्यभामा च भामिनी
उभौ मध्वासवक्षीबावुभौ चन्दनरूषितौ
स्रग्विणौ वरवस्त्रौ तौ दिव्याभरणभूषितौ
नैकरत्नविचित्रं तु काञ्चनं महदासनम्
विविधास्तरणास्तीर्णं यत्रासातामरिंदमौ
अर्जुनोत्सङ्गगौ पादौ केशवस्योपलक्षये
अर्जुनस्य च कृष्णायां सत्यायां च महात्मनः
काञ्चनं पादपीठं तु पार्थो मे प्रादिशत्तदा
तदहं पाणिना स्पृष्ट्वा ततो भूमावुपाविशम्
ऊर्ध्वरेखतलौ पादौ पार्थस्य शुभलक्षणौ
पादपीठादपहृतौ तत्रापश्यमहं शुभौ
श्यामौ बृहन्तौ तरुणौ शालस्कन्धाविवोद्गतौ
एकासनगतौ दृष्ट्वा भयं मां महदाविशत्
इन्द्रविष्णुसमावेतौ मन्दात्मा नावबुध्यते
संश्रयाद्द्रोणभीष्माभ्यां कर्णस्य च विकत्थनात्
निदेशस्थाविमौ यस्य मानसस्तस्य सेत्स्यते
संकल्पो धर्मराजस्य निश्चयो मे तदाभवत्
सत्कृतश्चान्नपानाभ्यामाच्छन्नो लब्धसत्क्रियः
अञ्जलिं मूर्ध्नि संधाय तौ संदेशमचोदयम्
धनुर्बाणोचितेनैकपाणिना शुभलक्षणम्
पादमानमयन्पार्थः केशवं समचोदयत्
इन्द्रकेतुरिवोत्थाय सर्वाभरणभूषितः
इन्द्रवीर्योपमः कृष्णः संविष्टो माभ्यभाषत
वाचं स वदतां श्रेष्ठो ह्लादिनीं वचनक्षमाम्
त्रासनीं धार्तराष्ट्राणां मृदुपूर्वां सुदारुणाम्
वाचं तां वचनार्हस्य शिक्षाक्षरसमन्विताम्
अश्रौषमहमिष्टार्थां पश्चाद्धृदयशोषिणीम्
संजयेदं वचो ब्रूया धृतराष्ट्रं मनीषिणम्
शृण्वतः कुरुमुख्यस्य द्रोणस्यापि च शृण्वतः
यजध्वं विपुलैर्यज्ञैर्विप्रेभ्यो दत्त दक्षिणाः
पुत्रैर्दारैश्च मोदध्वं महद्वो भयमागतम्
अर्थांस्त्यजत पात्रेभ्यः सुतान्प्राप्नुत कामजान्
प्रियं प्रियेभ्यश्चरत राजा हि त्वरते जये
ऋणमेतत्प्रवृद्धं मे हृदयान्नापसर्पति
यद्गोविन्देति चुक्रोश कृष्णा मां दूरवासिनम्
तेजोमयं दुराधर्षं गाण्डीवं यस्य कार्मुकम्
मद्द्वितीयेन तेनेह वैरं वः सव्यसाचिना
मद्द्वितीयं पुनः पार्थं कः प्रार्थयितुमिच्छति
यो न कालपरीतो वाप्यपि साक्षात्पुरंदरः
बाहुभ्यामुद्वहेद्भूमिं दहेत्क्रुद्ध इमाः प्रजाः
पातयेत्त्रिदिवाद्देवान्योऽर्जुनं समरे जयेत्
देवासुरमनुष्येषु यक्षगन्धर्वभोगिषु
न तं पश्याम्यहं युद्धे पाण्डवं योऽभ्ययाद्रणे
यत्तद्विराटनगरे श्रूयते महदद्भुतम्
एकस्य च बहूनां च पर्याप्तं तन्निदर्शनम्
एकेन पाण्डुपुत्रेण विराटनगरे यदा
भग्नाः पलायन्त दिशः पर्याप्तं तन्निदर्शनम्
बलं वीर्यं च तेजश्च शीघ्रता लघुहस्तता
अविषादश्च धैर्यं च पार्थान्नान्यत्र विद्यते
इत्यब्रवीद्धृषीकेशः पार्थमुद्धर्षयन्गिरा
गर्जन्समयवर्षीव गगने पाकशासनः
केशवस्य वचः श्रुत्वा किरीटी श्वेतवाहनः
अर्जुनस्तन्महद्वाक्यमब्रवील्लोमहर्षणम्